हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 116, कुल 185 में से
संदर्भ में पढ़ें८] हम्मीरदेवराज्याप्तिवर्णनम् ६७ कालानलो ना ऽजनि नाभिरामो रामो भवन्नो भरती रतोभूत् । आसीन्न चित्ते जनकोपि कोपि हम्मीरमालोकयतां जनानां ॥ ६९ ॥ अहानि तान्येव सुखावहानि हम्मीरदेवो ऽजनि येषु भूपः । लोकास्त एवात्तशुभावलोका वक्त्रांबुजं ये ददृशे ऽदसीयं ॥ ७० ॥ विकासिकाशाभिनवप्रवाल-जिद्दंतदंतच्छददीप्तिर्भाक् । दृग्दुलसद्भाङ्गररागसिंधो विस्तारयंस्तारतरानिवोर्मीन् ॥ ७१ ॥ रूजार्दनादित्यथ जैत्रसिंहः स्वस्यावसानं निकटं विजानन् । स्नेहेन हम्मीरनृपाय राज्य-शिक्षामिमां प्रारभत प्रदातुं ॥ ७२ ॥ स्त्रीणां श्रियां वा क्वच नापि मागा विश्वासमासां क्षणभंगुराणां । रक्ता विरक्ताश्च सतामपि स्युः पदे पदे ऽमूर्विपदे यदाशु ॥ ७३ ॥ साम्राज्यमासाद्य महत्तमेषु स्म विस्मरो मा विनयं नरेश । पुमान् वृद्धानुरिवाविनीतः कुलस्य सर्वस्य विनाशहेतुः ॥ ७४ ॥ अप्यार्यकार्याणि विचार्य कुर्वन् विवेकवानेष जगज्जनेष्टः । जगन्निवासा तदियं नृपत्व-लक्ष्मीः कथं तं विजहाति तात ॥ ७५ ॥ शक्तोपि देह्यप्रकटीकृतात्म-शक्तिः पराभूतिपदं सदैव । कारीषवह्निर्वद वत्स कस्य कस्याशु न स्यादतिलंघनीयः ॥ ७६ ॥ सदा सदाचारपरो नरेंद्रः सेव्यो मुनीनामपि निस्पृहाणां । कुशीलताभाप्रवरं खलोपभोगाय तैलीव भवत्यवश्यं ॥ ७७ ॥ धर्मार्थकामा इव सामदान-भेदाः क्रमेणैव पुरा प्रयोज्याः । सर्वात्मनैषामसति प्रचारे धार्या मतिर्मोक्ष इवाथ दंडे ॥ ७८ ॥ अनंतरो यो विषयेषु राजा संवर्धितः क्लेशकरः स्व एव । गृहांगणातंविषवृक्ष उत्त कालं कियंतं कुशलं गृहस्य ॥ ७९ ॥ राज्यस्य धर्माः किल पंच ये तान् पंचेंद्रियाणीह वदंति संतः । प्रलीयमानेषु तदेषु राज्य मपि प्रलीयेत वपुर्यथैव ॥ ८० ॥ शक्तिं समासाद्य सदोद्यतेन कार्या मति विक्रम एव पुंसा । तिर्यक्षु भूरिष्वपि पश्य सिंहः पराक्रमादेव न किं मृगेंद्रः ॥ ८१ ॥