हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 117, कुल 185 में से
संदर्भ में पढ़ेंनये धियं सम्यगनास्यिला युक्तः प्रयुक्तो न पराक्रमोपि । छलावलंबेन विनैव तावत् सिंहोपि हंतुं प्रविशेटिभं किं? ॥ ८२ ॥ बुद्धचैव सिद्धिर्यदि तन्नपुष्पै रपि प्रहर्त्तव्यविधिर्विधेयः । पश्य प्रसूनैरपि युध्यमानः स्मरो हरात्कां गतिमाससाद ॥ ८३ ॥ शौर्यं च बुद्धिर्मिथुनं तदस्मात् अदूषिताद्राज्यमुदेति नित्यं । न चैकतो विश्वमपि प्रपश्य संजायते द्वंद्वत एव सर्वं ॥ ८४ ॥ जिगीषुणाऽसौ बलशालिनापि यात्रा विधेया खलु जेय एव । ज्वालाजटालीकृतदिङ्मुखोपि नांबूनि दग्धुं क्रमते दवाग्निः ॥ ८५ ॥ रिपोरपि स्वाश्रयमागतस्य करोति सत्कारविधिं विधिज्ञः । तथाहि मीनांशमुपागतस्य् नोच्चं पदं किं भृगुनंदनस्य ॥ ८६ ॥ यथा न पीडा भवति प्रजानां ग्राह्य स्तथा धीधन तत्करोपि । किं नाम पुष्पाणि चिनोति पुष्प—लावी लतानां जनयन्त्रिबाधां ॥ ८७ । निवासिता येन स एव वेत्ति प्रायः प्रजानां सुखदुःखभावं । वंध्या विजानाति किमंग गर्भ—प्रपोषणं वा वहनक्लमं वा ॥ ८८ ॥ धनं प्रजानामयथाऽपराधं गृह्णन् विजानाति न तच्च ताः स्वाः । इदं नृपस्याऽशकुनं तथाहि राज्यस्य नाशेऽस्य न तच्च ताश्च ॥ ८९ ॥ सर्वस्वनाशोपि कुले विरोधोद्बोधं सुधीर्नो विदधीत कश्चित् । कुले विरोधो रचितो निनाय सुयोधनं किं निधनं न सद्यः ॥ ९० ॥ प्रजासु पीडा स्वकुले विरोधः पक्षद्वयं पेषणयंत्रमस्मिन् । चूर्णीकृतं धान्यमिव प्ररोढुं पुनर्न राज्यं समुपैति शक्तिं ॥ ९१ ॥ स्वमेव पुष्णन् प्रभुवंचनेन नार्हत्युपेक्षामनुजीविवर्गः । कर्षद्रसाया रसमात्मने किं नोन्मूल्यते क्षेत्रगतं तृणादि ॥ ९२ ॥ मातेव राजा हितकृत् प्रजानां मातुः सपत्नीव नियोगिवर्गः । तयार्पितानां च करे तदस्याः क्व वृद्धिरासां क्वच जीवितव्यं ॥ ९३ ॥ स्वतः कुलीनोप्यधिको विधेयो राज्ञानुजीवी न कदाचिदेव । यतो जडात्मा वटवत्प्रवृद्धः स राज्यसौधस्य विनाशहेतुः ॥ ९४ ॥