हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 119, कुल 185 में से
संदर्भ में पढ़ें७० श्रीहम्मीरमहाकाव्ये [ सर्गः मज्जच्छचीदृग्युगलाकुवेल—विश्वग्गलत्कज्जलमेचकांबु । चर्मण्वती यत्र सरिद्वहंती पुण्यश्रियो वेणिरिवाविभाति ॥ १०८ ॥ ज्वलिष्यदेतद्विरहाग्नितप्त मिवांब्रकाब्जस्रवदम्बुवर्षैः । पृष्टेऽथ हृत्सेसिंचतः समेत्य व्यजिज्ञपन्नेनममात्यमुख्याः ॥ १०९ ॥ साम्राज्यलक्ष्मीं विरहय्य पूर्वं मुमुक्षतोऽस्मानपि संप्रतीश । खद्योतवत् तद्विरहांधकारे भाग्यानि नो यांति पुरा प्रकाशं ॥ ११० ॥ भवत्दृगलोकनमुक्तयोगं प्रपत्स्यतेऽदो नगरं नरेश । रंगत्पतंगोज्वलंबिंबडिंब—विवर्जितस्य श्रियमंबरस्य ॥ १११ ॥ वृष्ट्या सुधाया इव सौम्यदृष्ट्या सिंचन्नथैतान्निजगाद भूपः । मा कार्ष्ट कष्टं विदुषामनिष्टं कृते मम स्वात्महितं चिकीर्षोः ॥ ११२ ॥ इदं पुरव्योममदंशुमालि—प्रतारोचिश्चयशून्यशोच्यं । हंमीरचंद्रेभ्युदिते प्रकाम—श्रीकं भविष्यत्यचिरेण नूनं ॥ ११३ ॥ मद्वंशपाथोरुहराहहंसस्तैस्तै र्गुणैर्विश्वकृतप्रशंसः । संसेव्यमानोहमिव प्रसाद—दानैः सदानंदयितैष युष्मान् ॥ ११४ ॥ इत्थं सहैतान् विसृजन् अवापत् पल्लीं पुरीं यावदसौ नरेशः । लूता विनिर्गत्य पपात तावत् स्वयं च भेजे लघु देवभूयं ॥ ११५ ॥ असासहीभिर्विरहं प्रियाभिरष्टाभिरिष्टाभिरथान्वितस्य । तत्रैव संस्कारविधिर्विधिज्ञैः श्रीजैत्रसिंहाधिपते र्वितेने ॥ ११६ ॥ अथाभिषिञ्चन्नवशोकभूपं नवावतारं हृदि बाष्पपूरैः । चकार मोहग्रिहिलीकृतात्मा हम्मीरदेवः परिदेवनानि ॥ ११७ ॥ तातेति तातेति वचः प्रघोष—शुष्यद्गलस्यापि ममाऽवनीश । यद्दर्शनं न प्रददासि तत्क्वा तवौचिती संगतिमंगतीयं ॥ ११८ ॥ विश्वत्रिलोकीतिलकायमानं व्यधात् विधेयस्तव पाणिरेनं । कथं स एवास्य विनाशहेतोः प्रागल्भ्यमभ्यस्यति हे हताश ॥ ११९ ॥ हुताशनाऽसज्जनकालकूटान् परंतपोर्जीनिति को व्यधत्त । श्रीजैत्रसिंहं नृपतिं प्रणिघ्नन्नजायतास्योत्तरमद्य वेधाः ॥ १२० ॥