भारतकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 120, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 120

हम्मीरदेवराज्याप्तिवर्णनम् ७१ धातर्विगर्हादभितोपि लोका—पवादतो यद्यपि नासि भीतः । तयापि पाणी कथमत्सहेतां नृरत्नमेनं तव हंत हंतुम् ॥ १२१ ॥ केनापि शंके पविशैलसाराण्यादाय चक्रे हृदयं विधातुः । क्रंदत्यपीत्थं मयि मुक्तकंठं नाद्यापि यत्तत्करुणा रुणद्धि ॥ १२२ ॥ कंठस्य हाहेति वचांसि दृष्टगो रक्तं कपोलस्य कराब्जक्रोडाः । चित्तस्य शोकः शरणं हम्मीर—देवस्य तत्राहान जायते स्म ॥ १२३ ॥ इत्थं महाशोकसमुद्रमग्नं उद्धर्तुमेनं जनताहिताय । अकर्णधारायतविप्रवीणैत्राजदित्यादिभिर्ब्रह्मविदां वरेण्यैः ॥ १२४ ॥ जगाम तातो निधनं ममेति वृथा कृथा मा क्षितिपाल खेदं । कस्याप्यवंध्या निधनस्य शस्य दृष्टाः श्रुता वा पितरो च विश्वे ॥ १२५ ॥ श्वासावधि स्यात्खलु जीवितव्यं श्वासः प्रसिद्धः स तु वायुरेव । वायोरिहान्यत्तरलं न किंचिद्यज्जीव्यते तन्महदेव चित्रम् ॥ १२६ ॥ क्रीडां करिष्यति कियच्चिरमेष हंसः स्निग्धोल्लसत्कलरवोत्न शरीरवाप्यां । कालारघट्टघटिकावलिपीयमान मायूर्जलं झगिति शोषमुपैति यस्मात् ॥ १२७ ॥ इयं मायारात्रिर्बहलतिमिरा मोहललितैः कृताज्ञाना लोकास्तदिह निपुणं जाग्रत जनाः । अलक्ष्यः संहर्तु ननु तनुभृतां जीवितधना- न्ययं कालश्चौरो भ्रमति भुवनांतः प्रतिदिनं ॥ १२८ ॥ लंकाभर्तुर्निधनरुचिना चापहस्तेन येन क्षिप्तास्तास्ताः पितृपतिमुखे कोटयो राक्षसानां । सोपि स्फूर्जद्दिवसरजनीघोरवक्त्रेण राम- स्ताम्यन्मूर्तिर्झगिति गिलितः कालनक्तंचरेण ॥ १२९ ॥ सूनोर्मन्मन्भाषितानि शिशुता हृदयस्य जीवादिशे- त्युक्तौर्यौवनगस्य यस्तव पिता माधुर्यधुर्याण्यपात् ।