भारतकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 122, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 122

९ ] हम्मीरदेवदिग्विजयवर्णनम् ७३ प्रखरप्रस्फुरत्पक्षा आरूढपुरुषोत्तमाः । चेलुस्तार्क्ष्याः परोलक्षाः प्रत्यक्षास्तार्क्षका इव ॥ ९ ॥ उच्चैर्घर्जालीबिभ्राणैः प्रशस्तस्पंदनैस्तथा । यथा तदंतर्वििक्षिप्तै स्तिलैर्भजे न भूतलं ॥ १० ॥ वियत्कुक्षिंभरिस्फार—हुंकारमुखराननाः । पत्तयो वल्गु वल्गंतो नृपचित्तममूमूदन् ॥ ११ ॥ वात्याव्यतिकराक्रांत—पताकार्पितदृष्टयः । मिथो हहेति जल्पाका रेजिरे वैजयंतिकाः ॥ १२ ॥ पदप्रपातोद्भूतै रभितोपि रेजोव्रजैः । छायार्थमिव सैन्यस्य प्रतेने दिवि मंडपः ॥ १३ ॥ केचिद्गजानां केचिच्च पत्तीनां केपि वाजिनां । रथानां केच नावोचन् सैन्ये तस्य प्रभूततां ॥ १४ ॥ परःसहस्रैर्गंधर्वैः परो लक्षैश्च पत्तिभिः । क्रमात्क्रामन्धरां धीरो प्रापद्भीमसरं पुरं ॥ १५ ॥ तत्र श्रिताभ्यमित्रत्वं गर्जन्नर्जुनभूपतिं । कुट्टयित्वासिदण्डेन स्वनिदेशवशं व्यधात् ॥ १६ ॥ ततो मंडलकृत् दुर्गा त्करमादाय सत्वरं । ययौ धारां धरासारं वारांराशिर्महौजसां ॥ १७ ॥ परमारान्वयप्रौढो भोजो भोज इवापरः । तत्रांभोजमिवानेन राज्ञा म्लानिमनीयत ॥ १८ ॥ ततोति बलभारेण कासारितमहीतलः । व्यधादवंतीं दंतींद्र—मदाक्रांतकाननां ॥ १९ ॥ शिप्रां विप्रंजलिमुक्तैः सिक्तवप्रां पयःकणैः । दृष्ट्वा तस्यामभवन् सैन्याः सज्जा मज्जनहेतवे ॥ २० ॥ विमुक्तबंधनास्तत्र कृतमज्जनकौतुकाः । नासन् रेवानदीरोवा—हेवाकिहृदया गजाः ॥ २१ ॥ 10 k