हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 123, कुल 185 में से
संदर्भ में पढ़ेंधुन्वंतः कंधराकेशान् वाजिनः स्नातनिर्गताः । आसारं तेनिरे तीरे तटिन्याः पटुक्रांतयः ॥ २२ ॥ उन्मज्जत्कुंभिकुंभा सा स्रवंती सैनिकाशयं । हरतिस्म चकोराक्षी यथा पीनोन्नमत्कुचा ॥ २३ ॥ नृपोपि निर्मितस्नानो हितदानैकतानधीः ॥ तत्रानर्च महाकालं--कालं दुष्कर्मवैरिणां ॥ २४ ॥ प्रविश्य मध्ये मेध्यश्री-विशालां तां निभालयन् । नैकशो विक्रमादित्यं सस्मार स्मेरविक्रमः ॥ २५ ॥ विनिर्वृत्तस्ततो विश्वां विशां स्वकरणात्तिनीं । सृजन् शौर्यवतां धुर्य श्चित्रकूट मकुट्टयत् ॥ २६ ॥ ततः स्फुटं नटन्मेद--पाटपाटनपाटवे । प्राप्यार्बुदाद्रिं सांद्रश्री स्तनावासान्न्यवेशयत् ॥ २७ ॥ प्रतीभबुद्ध्या बिंबान् स्वान् स्फाटिकीषु शिलास्विह । संपश्यतो ऽभवं स्तस्य सिंधुराः प्रधनोद्धुराः ॥ २८ ॥ हरिन्मणिगणस्यात्र प्रोल्लसंत्यो मरीचयः । नवदूर्वावणभ्रांतिं तद्धयानामजीजनन् ॥ २९ ॥ श्रमेण वर्मभिः सैन्यै रधिशाखं निवेशितैः । रेजिरे शैलराजस्य सुभटा इव शाखिनः ॥ ३० ॥ तत्र विश्रम्य विश्रम्य पादपानां तले तले । गीयमानानि भिल्लीभिः स्वयशांस्यशृणोन्नृपः ॥ ३१ ॥ घनधीध्याततन्भाग--प्रमोदिशिखिकूजितैः । जगाविवार्बुदो ऽमुष्य दिग्विजयप्रभवं यशः ॥ ३२ ॥ कुंभिकुंभमदांभोभि र्द्विगुणीकृतनिर्झरः । आरुह्य पृष्ठमस्याद्रे श्वारिमानमलोकत् ॥ ३३ ॥ वसतौ विमलात्मायं विमलस्याऽर्षभप्रभुं । ननाम नोत्तमानां हि चित्ते स्वपरकल्पना ॥ ३४ ॥