हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 124, कुल 185 में से
संदर्भ में पढ़ें९ ] हम्मीरदेवदिग्विजयवर्णनम् ७५ तत्र श्रीवस्तुपालस्य कीर्तनं कलिकर्त्तनं । दृष्ट्वासौ विस्मितो नैक-वेलं मौलिमकंपयत् ॥ ३५ ॥ प्रणम्य महतीभक्तिः सर्वदामर्त्तुदां ततः । आश्रमेऽरुंधतीजाने र्विशश्राम क्षणं नृपः ॥ ३६ ॥ मंदाकिन्यां विधायोच्चैः क्षपनं शमनं रुजां । अपूजयज्जगत्पूज्य मथासावचलेश्वरम् ॥ ३७ ॥ साक्षाद्धनंजयस्येह धारातर्षस्य धन्वितां । निरीक्ष्य नृपतिर्जज्ञे विस्मयोत्तानलोचनः ॥ ३८ ॥ प्रचलद्धलपाथोधि-मैनाकीकृतवैरिणः । अत्राभूत्सर्वदो गर्वः सर्वदोस्यार्बुदेश्वरः ॥ ३९ ॥ ततोवतीर्य वर्यश्री र्निधनं वर्धनं पुरं । चंगामपि गलद्रंगां चक्रे चक्रेरिविक्रमः ॥ ४० ॥ अजयोपपदं मेरुं मध्ये कृत्य स कृत्यवित् । पुष्करं तीर्थमाराद्य दुष्करं पुण्यमर्जयत् ॥ ४१ ॥ आनर्च भूपस्तत्रादि-वराहाख्याधरं हरिं । चित्रं दशावतारोपि न यो दाहात्मतां गत ॥ ४२ ॥ प्रयाणपटहध्वान-प्रतिध्वनितकंदरान् । पश्यन्स्वकीर्तिगानैक-तानानिव धराधरान् ॥ ४३ ॥ ततः शाकंभरीद्वारि वारस्त्रीवारलोचनेः । अभून्निपीतलावण्य-सर्वस्वो वसुधेश्वरः ॥ ४४ ॥ अदसीयरिपुस्त्रीण-गलल्लोचनवारिभिः । तदादिलवणस्येह मन्ये खानिरजायत ॥ ४५ ॥- धस्तराष्ट्रं महाराष्ट्रं खंडिल्लं खंडितप्रभं । चंपां च विस्फुरत्कंपां भूपस्तदनु तेनिवान् ॥ ४६ ॥ ककरालं करालश्रि कृत्वाथास्यात्र तस्युप । श्रीमांस्त्रिभुवनाद्रींद्रो मिलद्दत्तमहोपदः ॥ ४७ ॥