हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 128, कुल 185 में से
संदर्भ में पढ़ें९] हम्मीरदेवयागवर्णनम् ७९ द्विजादेशान्नृपो यज्ञ—दीक्षामीक्षाकटाक्षितः । स कृतोपनिषद्देवी वेदीपाश्र्वमशिश्रियत् ॥ ८७ ॥ मंत्राहूतत्रयस्त्रिंश—द्धनुजद्वेषिकोटयः । जुह्वति स्म बृहद्भानौ वाडवा द्रव्यमंडलं ॥ ८८ ॥ वेदमंत्रानुभावात्सा रुचिना शुचिना ऽमुना । पिपिरे सर्पिषां विप्रा—र्पिताः स्फीताः परंपराः ॥ ८९ ॥ तदर्यास्यसुधायागात् दाहभीचकिता इव । आपतंत्यपि हव्यानि तदा जगृहिरे सुराः । ९० ॥ गायत्सु मधुरं वेदी—ऋचो विप्रेषु हर्षतः । चलत्कीलावलीव्याजा ननर्तेव हुताशनः ॥ ९१ ॥ नृपपुण्यप्रभावेण निःप्रत्यूहं द्विजेश्वराः । ययुः क्रतुक्रियापारं भवपारं तपस्विवत् ॥ ९२ ॥ हाटकानां ततः कोटिं क्षोणी.. ..गसंपदं । भूदेवेभ्यो नृदेवोऽदा दक्षिणां चारुलक्षणां ॥ ९३ ॥ नृपविश्राणितस्वर्ण—कूटेपु नटतो द्विजान् । निरीक्ष्य निर्जरा मेरु—क्रोडक्रीडामदं जहुः ॥ ९४ ॥ इहैव स्वर्णदानेन तथाऽभूतूपदार्थिनः । तान्विहायोच्चकैर्दातु नृपास्यित यथार्थता ॥ ९५ ॥ रत्नराशिप्रदं केचि त्केचित्पुष्कलनिष्कदं । गजदं वाजिदं केचित् श्रीहम्मीरं तदाम्तुवन् ॥ ९६ ॥ विश्राणनं सृजन् चिंता—कल्पनाकामनातिगं । स चिंतामणिकल्पद्रु—कामकुंभेष्वधात् घृणां ॥ ९७ ॥ सितोपलामिलन्मुग्ध—दुग्धादिरसपेशलं । राज्ञा तदा मुदा तेने प्राज्यं भोज्यं द्विजन्मनां ॥ ९८ ॥ ततः पुरोहितेनाभि—युक्तो युक्तं पुरोहितं । आददे नृपतिः प्रीतो मासमेकं मुनिव्रतं ॥ ९९ ॥