भारतकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 130, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 130

९ ] हम्मीरदेवदिग्विजयवर्णनम् ८१ वारणेष्वक्षिपन् केपि प्रखरान् प्रखरा रणे । वाहनभ्युद्यतोत्साहा मंक्षु पर्याणयन् परे ॥ ११३ ॥ अबध्नंकेपि तूणीरा नगृह्लन् केपि मुद्गरान् । अकर्षन् केपि निस्रिंशा नन्वहन्के हि खेटकान् ॥ ११४ ॥ चंडदंडप्रपातेन केचित् वादान्यवीवदन् । योद्धृन् ज्ञापयितुं योद्धुं सन्निधीभवितुं रयात् ॥ ११५ ॥ धीरत्वं प्रापयन् सैन्या नथोल्लूखाननायकः । निर्ययौ स्वयमारुह्य सिंधुं सिंधुरोजसो ॥ ११६ ॥ वंशाग्रलंबितश्याम—सितचामरैकत्वान् । लग्नंगायमीलक्षं अंतरिक्षमजायत ॥ ११७ ॥ शक्राणां बाहुजानां च मिथोष्यथ निरीक्षणात् । अजागरीन्महावैरं दैत्यानां द्युसदामिव ॥ ११८ ॥ पदगः पदगं सादी सादिनं रथिनं रथी । निषादिनं निषादीचे—त्यवृण्वन् सैनिका मिथः ॥ ११९ ॥ माभूदुद्दरसच्छेदो ऽस्माकं तापनतापनात् । इतीव प्राक् भटास्तेनु र्गगने कांडमंडपं ॥ १२० ॥ अंगे लगंत प्रत्यर्थि—पत्रिणो वीरकुंजरान् । सुखयामासुरेणाक्षी—कटाक्षा इव कामिन ॥ १२१ ॥ वीरा. सर्वांगसंलग्ने रिपुक्षिप्तैः शिलीमुखैः । रेजु र्जयरामाश्लेष—सुखाद्रोमांचिता इव ॥ १२२ ॥ नीरंध्रप्रसृतैर्बाणैः कल्पिते मेघमंडले । युक्तमेवोदडीयंत हंसा हृत्सरसौजगिनां ॥ १२३ ॥ वैरिवक्त्रसरोजेषु भ्रामयित्वा शिलीमुखान् । अपाययन्मनोह्त्य तज्जीवितरसान्परे ॥ १२४ ॥ हर्षात्प्रनृत्यतां वीर—कोटीराणां रणांगणे । खङ्ङ्गाराः खड्गदंडानां कस्यासन्न मनोमुदे ॥ १२५ ॥ 11 k