हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 134, कुल 185 में से
संदर्भ में पढ़ें९ ] हम्मीरदेवदिग्विजयवर्णनम् ८५ बिंदवोपि स्फुरल्लोभ—मदेनांधंभाविष्णवः । सपत्नान्सोदरीयंति सपत्नीयंति सोदरान् ॥ १६५ ॥ प्रचिकीर्षन्नथामर्षा दंधो वैरप्रतिक्रियां । चक्रे तद्राज्यमुच्छेत्तुं स उपायान्दुराशयान् ॥ १६६ ॥ लोभदृष्टिं नृपं कृत्वा द्रविणादानवर्त्मना । स प्रजाः पीडयामास चंडदंडप्रपातनैः ॥ १६७ ॥ गृह्णन्नश्वधनेभ्योऽश्वान् धनवद्भ्यो धनानि च । क्रूरकर्मा स लोकानां क्षयकाल इवाभवत् ॥ १६८ ॥ द्रव्यैः संपूरयन्कोशं राज्ञोऽभूत् भृशवल्लभः । वेश्यानां च नृपाणां च द्रव्यदो हि सदा प्रियः ॥ १६९ ॥ प्रजादंडेने यत्तेने प्रतेने कोशवर्धनं । तत्किं स्त्रस्यैव मांसेन न स्वदेहोपबृंहणं ॥ १७० ॥ अथ स्वपदभोक्तृत्वात् बद्धवैराश्चिरं हृदि । स भुक्ताव्दव्ययादाय—शुद्धिं भोजमयाचत ॥ १७१ ॥ क्रुद्धौऽधस्फूर्तिमालोक्य भोजदेवोथ सत्वरं । गत्वा व्यजिज्ञपत् भूपं मौलिमौलीपितांजलिः ॥ १७२ ॥ देवस्य यदि मे प्राणैः कार्यं गृह्णातु तर्हि तान् । न सहे परमंधस्य वाक्यतोदकदर्थनां ॥ १७३ ॥ निजगाद नृपो यस्य मयि भक्तिरनश्वरी । न लुप्यतेऽत्र केनापि धर्मसिंहस्य शासनं ॥ १७४ ॥ स्वामीव स्वामिनां मान्यः सेवनीयो ऽनुजीविभिः । सुस्थिरस्थाणुसत्कारात् अनड्डान् किन्न पूज्यते ॥ १७५ ॥ भाषणेनामुना रौद्र—दृग्वक्त्रालोकनेन च । नृपं दुष्टाशयं ज्ञात्वा भोजदेवः स शुद्धधीः ॥ १७६ ॥ निरीहचित्तवत् तस्य सर्वस्वमपि दत्तवान् । मूलाद्विनष्टे कार्ये हि किं कुर्यात् बलवानपि ॥ १७७ ॥ युग्मं ॥