हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 135, कुल 185 में से
संदर्भ में पढ़ें८६ श्रीहम्मीरमहाकाव्ये [ सर्गः तथाप्येषोभिजातत्वा दजहन् स्वामिभक्ततां । योगीव परमं ब्रह्म भोजो भूपमसेवत ॥ १७८ ॥ अन्येद्युर्नृपतिर्वैज - नाथयात्रामुपागतः । दृष्ट्वा पृष्ठस्थितं भोज मन्योक्त्येदमभाषत ॥ १७९ ॥ संख्येयांत्र पदे पदेपि बहवः क्षुद्रा निकामं खगा नो कुत्रापि समोस्ति गर्ह्य इतरः काकाद्धराकात्परं । क्रोधाविष्ट पटिष्ट घूकनिकरास्याग्रोत्थकोटिक्षतै- स्नुत्यत्पक्षचयोपि यत्तरूतटं नापत्रपः प्रोज्झति ॥ १८० ॥ अनयाऽन्योक्तिकौमुद्या भोजोऽम्भोजमिवास्तरूक् । वेश्मागत्य रहः पीथ - सिंहं सोदरमब्रवीत् ॥ १८१ ॥ देवोद्यकल्प उत्पश्य वचनैर्दुर्मनायितः । सेवा हेवाकिनोप्यस्मा न्तृणान्यापि मन्यते ॥ १८२ ॥ अवाप्तामेयसाम्राज्य -- मदमोहितमानसाः । यदि वा पार्थिवा नैव क्वचिदेकांतवत्सलाः ॥ १८३ ॥ यात्राव्याजेन तद्यामो दिनानि कतिचित् बहिः । कालक्षेपोऽशुभे श्रेयान् नीतिविद्भि र्जगे यतः ॥ १८४ ॥ संमंत्र्य सोदरेणैवं भूपं गत्वा व्यजिज्ञपत् । काश्यां व्रजामि यात्रायै यद्यादिशति भूपतिः ॥ १८५ ॥ जगाद भूपति र्यासि परतः परतो न किं । विना भवंतमप्येवं पुरं संशोभते पुरा ॥ १८६ ॥ इत्याकृष्टोपि कौलिन्या त्क्षमामेव क्षमापतौ । बिभ्राणः प्रचचालैषो ऽनुकाशीं सपरिच्छदः ॥ १८७ ॥ तस्मिन् गते क्षितिपतिः प्रसरत्प्रमोद- र्दण्डनायकपदे रतिपालवीरं । युक्त्याभिषिच्य जगदेकहितत्रिवर्ग- संसर्गतोतिसरसान् दिवसाननैषीत् ॥ १८८ ॥