हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 136, कुल 185 में से
संदर्भ में पढ़ें९ ] हम्मीरदेवदिग्विजयवर्णनम् ८७ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरम- हाकाव्ये वीराङ्के हम्मीरदेवदिग्विजयवर्णनोनाम नवमः सर्गः ॥ ॥ अथ दशमः सर्गः ॥ धरणीरमणापमानना दथ भोजः सशिरोरुहामगतः । परिभाव्य मुहुः स्वदुर्दशा मभिमानेन हृदीयचिंतयत् ॥ १ ॥ विततान विनापि कारणं नरनाथो मम यां तिरस्क्रियां । विदधे यदि तत्प्रतिक्रियां न तदा केव मनस्विनां गतिः ॥ २ ॥ गुणवानपि वक्रतां गतः पुरुषश्चाप इवातिभीषणः । स शरैरिव दुर्जनैर्नयतो गुणमुक्तैस्तनुतेऽतिपीडनं ॥ ३ ॥ अपमानपरेपि यो नरे शममेव प्रयतोऽवलंबते । अपि शूकशिखा ततो वरं व्यथयत्यंघ्रिमसौ तदाऽहता ॥ ४ ॥ अपकारपरान्सहोदरान् अपि हन्यान्निल नास्ति पातकं । अभिमानवतां नयोन्मुखैः स्थितिरेशा जगदे सनातनी ॥ ५ ॥ सुहृदां यदि वा विरोधिनां क्रिययैव क्रियते परीक्षणं । सुहृदप्यपकारकृत् द्विष न्नुपकारी तु सुहृद्विपन्नपि ॥ ६ ॥ सहतेऽरिकृतं पराभवं ननु यः क्लीबमना मनागपि । जनिरेव जनिष्ट तस्य मा जननी यौवनगर्वगर्हिणी ॥ ७ ॥ परिपृच्छय ततः सहोदरं पिथर्म सन्मतिवासमंदिरे । अगमल्लघुयोगिनीपुरं यवनानां समगच्छदीश्वरं ॥ ८ ॥ तादृक्कुलीनोपि तदा स भोज - देवोऽधुनाऽङ्गीकृतवान्यदेवं । तन्म्लेच्छभूजृंभितमेव तस्मात् सतां न तद्रूरपि वासयोग्या ॥ ९ ॥ तत्समागममहर्षवशात्मा ऽल्लावदीननृपतिः स ततोऽस्मै । वस्त्रनिर्वपणपूर्वमयच्छ न्मुद्गलेशनगरीं जगरां तां ॥ १० ॥ तत्र चित्ररुचिभाजि स भोजः सोदरं स्वमदरं परिमुच्य । छाग् स्वयं पुनरुपेत्य च दिल्हीं सेवतेस्म शकनायकमॆव ॥ ११ ॥