भारतकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 89, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 89

४० श्रीहम्मीरमहाकाव्ये [ सर्गः यदि पुष्पिताहमिह तत्कियतीं श्रियमुद्वहंतु लतिका इतराः । किमिदं विचिंत्य कृपया सुरभौ विचकास नाभिनवजातिलता ॥ १३ ॥ विकसत्प्रसूननिचयाः शुचयः प्रतिकाननं शुशुभिरे तरुषु । प्रथिता हसा इव वनीयुवते र्निजजीवितेशमृतुराजमनु ॥ १४ ॥ जलदागमे स्वमहिमोल्लसिते रवधीदसौ पथिकलोकवधूः । इति पंक्तिबाह्यविहितेव मधौ नवमालती न सुमनस्स्वविशत् ॥ १५ ॥ मदनोऽधुनापि परदेशजुषां हृदि नष्टशल्यमभिहंतुमिव । कुसुमानि वृंतसुषिराणि भृशं विरचय्य कांडफलतामनयत् ॥ १६ ॥ मम नाम नालिकशरा यदि मास्तः सहेत कतरे स्पृशतीः । किमितीह नाद्रियत जातिलता कलिकां मधौ मधुसखः स्फुटतीः ॥ १७ ॥ विकसत्प्रियालतरुमंजरिका—रजसारुणैरपि मृगीनयनैः । मधुसीधुपानघनरागजुषः सुदृशां दृशः सदृशतां न जहुः ॥ १८ ॥ परिसंचरन्मलयदिक्पवन—प्रविकंपिपल्लवकरांबुरुहैः । उपगूहनाय वनराजिवधू र्निजकांतमाह्वयदिर्तुपतिं ॥ १९ ॥ मधुपानतः शिथिलितभ्रमरा भ्रमिरा बभुः प्रतिवनं तरुषु । गुलिकास्त्रकाभ्यसनमुन्नयतो गुलिका इव प्रसवचापविभोः ॥ २० ॥ प्रविलोकनादपि वियोगवशा विदधदृशा विधृतकंपरसाः । अनयत्पलाशशिखरी तरसा चरितार्थतां जगति नाम निजं ॥ २१ ॥ पदसंगमात्र उपजाततृषो मम निष्प्रजन्नुरिमिकाः प्रसभं । गतभर्तृका इति सकोप इवा—ज्वरयन्मुहुर्मुहुरशोकतरुः ॥ २२ ॥ परिलोभयन् मधुकरप्रकरान् मधुसंगमेन मधुरै र्मधुभिः । तिलकद्रुमस्तिलकवन्निखिले—ष्वपि भूरुहेषु लभतेस्म रुचिं ॥ २३ ॥ अपि तन्मुखाभिषवसेकमृते श्रियमुद्वहन्नतिवचोविषयां । अधरीचकार सुदृशामखिला मपि मानसंस्थितिं मगो बकुलः ॥ २४ ॥ निजकालिमोल्लसितसंजनिता ऽसमयक्षपालिषु वनीततिषु । अलभंत चंपकतरोः कलिकाः स्मरराजदीपकलिकोपमितिं ॥ २५ ॥

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास) · पृष्ठ 89, कुल 185 में से · BharatKosha