हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 90, कुल 185 में से
संदर्भ में पढ़ें५ ] वसंतवर्णनम् ४१ भृशलीनषट्चरणचक्रवशा ऽधिकनीलनीरजदले सरसि । . कमलै रलंभिविलसत्कमलैर्गगने नवोदितशशांकरुचिः ॥ २६ ॥ मलिनांबुबिंदुतुलनां कलय—न्विकसत्पलाशकुसुमवृंतमभात् । शिरसाऽग्निसाधनतपो रचय न्निव मालतीविरहतोऽलियुवा ॥ २७ ॥ कृतवेलनामलयदिक्पवनै र्धनवलयो रुरुचिरेऽतितरां । उपगूहनानि चिरकालभवन् मिथः प्रविरतं - - त्य इव ॥ २८ ॥ सकलत्रिलोकविजयप्रभवं श्रमवारिसंगतमनंगपतिं । इव वीजयंत्यभिबभौ सुरभौ कदलीदलै रनिलसंगचलैः ॥ २९ ॥ हृदयेश्वरं भजत मानममुं त्यजताशु नैति समयो हि गतः । इति बोधयन्निव कुरंगदृशो रुचिरं चिकूज परपुष्टयुवा ॥ ३० ॥ किमु चुंबनं किमथवा मधुरं मधु इत्यसाविव विवेचनकृत् । क्षणमंबुजं क्षणमथ भ्रमरी—वदनं चुचुंब मधुकृत्प्रवणः ॥ ३१ ॥ विलसद्विलासिनि वसंतऋतौ कुसुमानि कानिचिदिहाविदुषां । इदमीददेतदिदमित्यवदन् इव झंकृतैर्मधुकराः कतिचित् ॥ ३२ ॥ विधुतत्वराणि विदधन्नितरां युवमानसानि दयितानुनये । चटुकूजितैः कलरवो मदयन् दयितां चुचुंब परिरभ्य मुहुः ॥ ३३ ॥ विकसत्सुमस्तबकचारुकुचा नवपल्लवाद्भुतकरक्रमणाः । मधुमागताः समवलोकयितुं वनदेवता इव लता व्यरुचन् ॥ ३४ ॥ अधिकाधिकं तनुविलेपविधौ प्रमदाभिराद्रियत वह्निशिखं । उपकारकारि सुचिरोपनतं सहसैव हेयमिह वस्तु कथं ॥ ३५ ॥ पथिकांगनाजनपरासनजै र्गुरुपाततैकैरिव नितांतचिताः । हविराचिताऽजनघनद्युतयो भ्रमरा बभुः प्रतिवनभ्रमिराः ॥ ३६ ॥ इति वीक्ष्य वीक्षणयुगप्रसभा—हृतसंमदं सुरभिकालमिमं । परिपृच्छय जैत्रजगतीदयितं सहि वीरमाग्रजकुमारवरः ॥ ३७ ॥ अदसीयरूपविलुलोचयिषा—नुग्रहाधिरूढललनावदनैः । दिवसेपि विस्फुरदनेकसुधा—करबिंबमंबरतलं जनयन् ॥ ३८ ॥ 6 k