भारतकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 91, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 91

४२ श्रीहम्मीरमहाकाव्ये [सर्गः घनसारसारमृगनाभिमिलन्—मलयद्रुनागरजःप्रकरैः । कृतदेवनो वनविनोदचिकी—रवरोधवंधुरवधूमधुरः ॥ ३९ ॥ प्रचलदलावलिलसत्पवनं तरुराजिराजितपुरोपवनं । प्रययौ स यौवनवयः सवयः—परिहासभासुरतरास्यशशी ॥ ४० ॥ चतुर्भिः कलापकं तरुणा लसन्नवनवाभरणा अय चेलुरर्हन्तमचेलभृतः । मदकृन्मधूत्सवकृते मदनो—द्यमदीप्तदीप्तिमुतनूभिरमा ॥ ४१ ॥ कृतभूष्यापि वदनांबुरुहः सखि सांप्रतं तव रुषोदिषया । कृतमेहि सत्वरममुं दयितं सुतरां प्रसाद्य जहि वैरिमुदं ॥ ४२ ॥ इति काचन प्रियसखीवचनैः सुचिरं विमृश्य हृदये निपुणं । परिहृत्य मानमुपगत्य पतिं विशदप्रसादललितं व्यतनोत् ॥ ४३ ॥ युग्मं अनुनेतुमन्यतर इंदुमुखीं विविधेंगितानि विदधन्निपुणं । परिरभ्यतेस्म तरसैव तया सपूर्वसूचिततदिंगितया ॥ ४४ ॥ प्रचलालिकाननमितः कितवो विरहा तवांग स किमातनुते । प्रविलोकयाव इति कांपि मिषादुपनीय तां प्रियतमाय ददौ ॥ ४५ ॥ अनुनेतुमंबुजदृशः पदयोः पतितस्य कस्यचन वेणिरभात् । इदमीयमानमभिपाटयितुं कुसुमायुधस्य तरवारिरिव ॥ ४६ ॥ अयि पश्य शस्यवदने मधुरा मधुवासरा झटिति यांति कथं । अधुनापि मानमिममादधती स्वपराहिलं किमु चिकीर्षसि हा ॥ ४७ ॥ इति कश्चन प्रकुपितां दयिता मनुनीय योषिदनुनीतिचणः । उपगूहनं प्रतिपदं वितरन्नचलन्मधूत्सवकृते सुकृती ॥ ४८ ॥ न विलोकसे न च ददासि वचः कथमेष जीवतु तवानुचरः । इति पीतवल्लभतचा इतरा मदपानतोप्यधिकमाप मदं ॥ ४९ ॥ नवपल्लवाङ्गुतकरां मधुपा—वलिवेणिमिद्धसुमगुच्छकुचां । नववल्लभाभिव विलोक्य वनीं दधुरुत्सुकत्वमथ रंतुममी ॥ ५० ॥