हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 93, कुल 185 में से
संदर्भ में पढ़ें४४ श्रीहम्मीरमहाकाव्ये [ सर्गः अयि पश्य पश्य पुरतो लकुचे सुकुचे कथं भ्रमति भृंगयुवा । इति विप्रलोभ्य दयितामितरो निपपौ परां सुचिरमर्द्धदृशा ॥ ६४ ॥ तरुराजितो विकसितप्रसव—प्रकरान्निधाय शिरसि प्रयतान् । गुरुझंकृतिप्रमुखरा भ्रमरा वनरक्षका इव परां रुरुधुः ॥ ६५ ॥ दधदंतरा नवतिरस्करिणीमिव तापनोदनमिषेण पटीं । वनितां विलोभ्य कितवो हृदयाधिकृतां चुचुंब गतभीरितरां ॥ ६६ ॥ उपवीजयन्निजकराग्रयित—प्रविकाशिभासिकुसुमव्यजनैः । कृतविप्रियोपि भृशमन्वनयत् सुदृशं परः स्मरकलाविदुरः ॥ ६७ ॥ तरुशृंगसंस्थितसुमग्रहणे—र्ध्वसरत्करत्वतः सुकृशादुदरात् । गलदंबराक्षणमभादपरा प्रकटीभवत्तनुकशक्तिरिव ॥ ६८ ॥ कितवेन पल्लवमिषादधरे विधृते प्रिया यदतनोद्वसितं । अभवत्तदेव किल तत्कपट—स्फुटपाटवस्य शशिभासि यशः ॥ ६९ ॥ जडगात्रवर्तनपराङ्ग्गमितां दधदेकबाहुलतया दयितां । नलिनं करेण च परेण परः शुशुभे स्मरः सशरचाप इव ॥ ७० ॥ कामिन्याः कुसुमानि चेतुमधिरोहंत्यास्तरुस्कंधकं भूमौ स्थायिनि दक्षिणे पदतले वामे च शाखास्पृशि । कृत्वा किंचन कैतवं विनमितोऽधोनाभिमूलं परो दृष्ट्वोदीरितकाम ऊर्ध्वसुरते वांच्छामतुच्छां दधौ ॥ ७१ ॥ शाखाग्रस्थमिदं ददासि कुसुमं चेत्तर्हि यद्याचसे तत्तेहं प्रददे प्रिय ध्रुवमिति प्रोक्तेऽन्यया मुग्धया । नीत्वा लग्नकतां तदालिमचिराद्दत्वा च पुष्पं छलात् आसीद्यद्धृदये द्वयोरपि तयोर्धूर्तेन तत्प्रस्तुतं ॥ ७२ ॥ करांबुजालंबितलंबशाखा मिथोपि संयोजितपादपद्माः । आंदोलनिता आलिजनैः स्वयं ता दोलातुलां शिश्रियुरंबुजाक्ष्यः ॥ ७३ ॥ कामिनीकरजकोटिविलून—स्रस्तपल्लववनावनीपीठे । पुष्पराजिभिरराजत मुक्ता—वेणिवद्विपुलविद्रुमपात्रे ॥ ७४ ॥