हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 104, कुल 506 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः ५१ अगाव दधीचमानेतुं च्यवनाश्रमपदम् । इतरा तु सखीस्नेहेन सावित्री- मपि विदितवृत्तान्तामकरोत् । उत्कण्ठाभारभृता च ताम्यता चेतसा कल्पायितं कथंकथमपि दिवसशेषमनैषीत् , अस्तमुपगते च भगवति गभस्तिमति, स्तिमिततरमवतरति तमसि, प्रहसितामिव सितां दिशं पौरंदरीं दरीमिव केसरिणि मुञ्चति चन्द्रमसि सरस्वती शुचिनि चीनां- शुकसुकुमारतरे तरङ्गिणि दुगूलकोमलशयने इव शोणसैकते समुपविष्टा स्वप्रकृतप्रार्थना पादपतनलभ्रां दधीचचरणनखचन्द्रिकामिव ललाटिकां दधाना, गण्डस्थलादर्शप्रतिबिम्बितेन 'चारुहासिनि, अयमसावाहूतो हृदयदयितो जनः' इति श्रवणसमीपवर्तिना निवेद्यमानमदनसंदेशेनेन्दुना, विकीर्यमाणनखकिरणचक्रवालेन बालव्यजनीकृतचन्द्रकलाकलापेनेव करेण वीजयन्ती स्वेदिनं कपोलपट्टम् , 'अत्र दधीचादृते न केनचित्प्र- वेष्टव्यम्' इति तिरश्चीनं चित्तभुवा पातितां विलासवेत्रलतामिव बाल- मृणालिकामधिस्तनं स्तनयन्ती कथमपि हृदयेन वहन्ती प्रतिपालया- मास । आसीच्चास्या मनसि- 'अहमपि नाम सरस्वती यत्रामुना मनो- जन्मना जानत्येव परवशीकृता । तत्र का गणनेतरासु तपस्विनीष्वति- तरलासु तरुणीषु' इति । प्रजविनेति साभिप्रायम् । अस्तमित्यादौ सरस्वती प्रतिपालयामासेति संबन्धः । गभस्तिमान्रविः । पौरंदर्यैन्द्री । दरी गुहा । चीनेत्यादि सैकतविशेषणम् । उपमा- नस्य तु दुगूलकोमल इत्युक्तम् । तरङ्गिणी प्रतिदिनं क्षीयमाणेन वारिणा कृतलेखे भङ्गियुक्ते च । चन्द्रिका कान्तिरत्र । ललाटालंकारो ललाटिका । चक्रवालं समूहः । बालव्यजनं चामरम् । स्तनमध्ये प्रवेशाभावात्तिरश्चीनमित्युक्तम् । यश्च वेत्री प्रवेश- निषेधननिमित्तं वेत्रलतां पातयति स तिरश्चीनः । स्तनयोरधिस्तनम् । विभक्त्य- र्थेऽव्ययीभावः । कुचपृष्ठ इत्यर्थः । स्तनयन्ती कलयन्ती । स्तनिः शब्दार्थश्चौरा- दिकः । 'स्तनन्ती' इति वा पाठः । तपस्विनीषु वराकीषु । तब सरस्वती उसे प्रसन्नता से घूर कर देखती हुई बोली- 'सखी मालती, मैं बहुत बात नहीं कर सकती । मैं तेरी बात मान जाती हूं। मेरे प्राणों को तू ग्रहण कर ।' मालती ने कहा-'देवि, आपकी प्रसन्नता के लिए आज्ञा शिरोधार्य्य है ।' मालती यह कह और अपने तेज घोड़े पर चढ़ सोन के उस पार चली गई और दधीच को लाने के लिए च्यवनाश्रम पहुँची । सरस्वती ने इस वृत्तान्त को सखी के स्नेह से सावित्री को भी सुना दिया । चित्त में उत्सुकता का बोझ लिए किसी-किसी प्रकार खिन्न होकर दिन को व्यतीत किया ।