हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 118, कुल 506 में से
संदर्भ में पढ़ेंद्वितीय उच्छ्वासः ७३ कटितपशुबन्धप्रबन्धनानि, शुकसारिकारुद्धाध्ययनदीयमानोपाध्यायविश्रा- न्तिसुखानि, साक्षात्त्रयीतपोवनानीव चिरदृष्टानां बान्धवानां प्रीयमाणो भ्रमन्भवनानि, बाणः सुखमतिष्ठत् । तत्रस्थस्य चास्य कदाचित्कुसुमसमययुगमुपसंहरञ्जृम्भत ग्रीष्मा- भिधानः संफुल्लमल्लिकाधवलाट्टहासो महाकालः । प्रत्यग्रनिर्जितस्यास्तमु- पगतवतो वसन्तसामन्तस्य बालापत्येष्विव पयःपायिषु नवोद्यानेषु दर्शि- तस्नेहो मृदुरभूत् । अभिनवोदितश्च सर्वस्यां पृथिव्यां सकलकुसुमबन्ध- विशेषणम् । तदुक्तम्- 'लोहितसारङ्गः कृष्णसारङ्गो वा' इति; सारङ्गशब्दः शबले वर्तते । कृष्णसारा मृगा इति केचित् । तन्न । तेषां तदानुपयुक्तत्वात् । पशुबन्धा यज्ञाः । कुसुमसमयो वसन्तः, स एव युगं कल्पस्तल्लक्षणं वा युगं मासद्वयम् । समुत्फु- ल्लमल्लिकाभिर्धवला अट्टा विक्रयस्थानानि तेषां विकासो यत्र, अन्यत्र-तद्वदह- हास उद्धतं हसितं यस्य । शब्दशक्तिमूलानुरणनव्यङ्ग्यरूपो ध्वनिञ्च । प्रकृतवर्णने ऽन्यदप्यत्र प्रतीयते । न वाच्यतया । तथा च-महाकालः साट्टहासः कल्पमुप- संहरञ्जृम्भते मुखं च विदारयति । महाकालो ग्रीष्माख्यः, भैरवश्च । पयो जलम्, क्षीरं च । बालापत्यपक्षे-नवमुद्यानमुद्गमनं येषां तेषु । इदम्प्रथमतयागमनप्रवृत्ते- ष्वित्यर्थः दर्शितस्नेह इत्यनेनास्य विजिगीषुव्यवहार आरोपितः । निर्जितस्य च पुनः प्रतिष्ठापनमेव युक्तम् । स्नेहः आर्द्रता, प्रीतिश्च । मृदुरकठोरः, सदयश्च । अभिन- वोदित इति साधारणं विशेषणम् । वासन्तिकपुष्पाभिप्रायेण सकलपदबन्धनं वृन्तकारी च । प्रतपम्प्रकर्षेण तपन्; अन्यत्र, -शत्रुहृदयेषु प्रतापं जनयन् । अभिन- वोदितश्च राजा बन्धनमोक्षं करोति । उक्तं हि-'युवराजाभिषेके वा परचक्रावरो- पणे । पुत्रजन्मनि वा मोक्षो बन्धनस्य विधीयते ॥' इति । आदरप्रतिपादनाय बछड़ों को प्यार कर रहे थे। कलोल करते हुए काले छाग शावक को देखकर वहाँ पशु- बंध की तैयारी मालूम हो रही थी । शुक-सारिकाएँ स्वयं अध्ययन कराकर गुरुओं को विश्राम का सुख दे रही थीं, मानों ब्राह्मणाधिवास के वे भवन श्रयीविद्या के साक्षात् तपोवन हो रहे थे। वहाँ बाण के रहते हुए वसन्त के दो महीनों का उपसंहार करता हुआ महाकाल ग्रीष्म फूली हुई चमेली के अट्टहास के साथ जंभाई लेने लगा । अभी अभी पराजित होकर अस्तंगत होते हुए वसन्त रूपी सामन्त के दुधमुँहे बाल-बच्चों के समान जल से सींचे जाने वाले नये-नये उद्यानों पर वह ग्रीष्म स्नेह दिखलाता हुआ मृदु व्यवहार करने लगा और समस्त पृथिवी पर नवोदित होकर उसने फूलों के बन्धन खोले, जैसे राजा बन्दीगृह से