भारतकोश
हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 133, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 133

८८ हर्षचरितम् करणं लक्ष्मीः, कृपणोपकरणमैश्वर्यम्, द्विजोपकरणं सर्वस्वम्, सुकृतसं- स्मरणोपकरणं हृदयम्, धर्मोपकरणमायुः, साहोपकरणं शरीरम्, असिलतोपकरणं पृथिवी, विनोदोपकरणं राजकम्, प्रतापोपकरणं प्रति- पक्षः । नास्याल्पपुण्यैरवाप्यते सर्वातिशायिसुखरसप्रसूतिः पादपल्लव- च्छाया' इति । श्रुत्वा च तमेव चन्द्रसेनं समादिशत्—'कृतकशिपुं विश्रा- न्तसुखिनमेनं कारय' इति । अथ गते तस्मिन्, पर्यस्ते च वासरे, संघट्टमानरक्तपङ्कजसंपुटपीय- मान इव क्षयिणि क्षामतां व्रजति बालवायसास्यारुणेऽपराह्नातपे, शिथि- लितनिजवाजिजवे जपापीडपाटलिम्न्यस्ताचलशिखरस्खलिते खञ्जतीव लक्ष्यादि किंचिदपेक्ष्यन्ते । प्रभुत्वमिति । तस्य प्रभुत्वं सेवकादीनां दानसंपादनादि । यथाह—'यथाकालं प्रवर्तन्ते पण्डिताः' इत्यादिद्वैदग्ध्यमात्रापेक्षया पण्डितानां कृपणादिवदर्थादनपेक्षितया हि तेषामौचित्यं न प्रतीयते । अनेन पण्डितसामान्यात्त- दभिप्रायेण स्वस्य समुचितमेव हेवाकमभिव्यनक्ति । वैदग्ध्यापेक्षित्त्वं दर्शयतीति यावत् । बान्धवाः कुल्याः । लक्ष्मीश्छत्रचामरादिप्रतिपत्तिरूपा छत्रादिवत्तुल्या एव लभन्तेऽन्येषामनर्हत्वात्। कृपणेत्यादि । कृपणानां पोषणमेव समुचितम् । तत्र चैश्वर्य- मेव हेतुः। ऐश्वर्यमर्थवत्ता । न तु द्विजातिवदेते सर्वस्वमर्हन्ति । सर्वशब्देन दारा अप्यु- च्यन्ते । एवमादि तु द्विजा एव लभन्ते । तद्व्यतिरेकेणान्येषामनर्हत्वात् । एवं हृद यादि । तत्तदभिप्रायेण विचारणीयम् । सुखमेवास्वाद्यतया रस इव रसः सुखरसः । छाया कान्तिः । यद्वा,—छायावत्त्वमेषां सर्वस्य कस्यचिदाश्रयणीयत्वादुपचर्यते । अल्पैरित्यादि । अभिप्रायेण पादयोः कल्पवृक्षतुल्यत्वमभिव्यज्यते । पुण्यवशात्तद- वाप्तेः। एतत्पक्षे छायाऽऽतपप्रतिपक्षजातिः । 'भोजनाच्छादने सद्भिरुभे कशिपुरुच्यते' । वायसः काकः । जपा रविप्रियं पुष्पम् । आपीडः स्तबकः । कोऽत्रास्तेत्यादि- वैदग्ध्य को विद्वानों का उपकारक मानता है, धन-वैभव को बन्धु-बान्धवों का उपकारक मानता है, अपने सर्वस्व को ब्राह्मणों का उपकारक मानता है, उसका हृदय पुण्य के स्मरण करने में उपकरण है, उसकी आयु धर्म का उपकरण बन गई है, उसका शरीर साहस का उपकरण है, खड्गबल से पृथिवी को अपने अधीन रखता है, राज- समूह उसके विनोद का साधन है और शत्रु उसके प्रताप के साधन हैं । जिनका पुण्य अल्प है ऐसे लोग इसके पाद-पल्लव की आनन्ददायिनी छाया नहीं प्राप्त करते ।' इतना सुनकर बाण ने उसी चन्द्रसेन को आज्ञा दी—'मेखलक को भोजन-आसन का प्रबन्ध करके आराम से ठहराओ ।' मेखलक चला गया । दिन भी ढल चुका था । अपराह्न का आतप क्षीण हो रहा था