हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 146, कुल 506 में से
संदर्भ में पढ़ेंद्वितीय उच्छ्वासः १०१ सीकैश्च, शोणैश्च, श्यामैश्च, श्वेतैश्च, पिङ्गरैश्च, हरिद्भिश्च, तित्तिरिकल्माषैश्च, पञ्चभद्रैश्च, मल्लिकाक्षैश्च, कृत्तिकापिञ्जरैश्च, आयतनिर्मासमुखैः, अनुत्क- टकर्णकोशैः, सुवृत्तश्लक्ष्णसुघटितघण्टिकाबन्धैः, यूपानुपूर्वीवक्रायतोदग्र- ग्रीवैः, उपचयश्वसत्स्कन्धसंधिभिः, निर्भुग्नोरःस्थलैः, अस्थूलप्रगुणप्रसृ- वर्णविशेषवर्णनम् । 'शोणः पद्मार्जुनः स्मृतः' । पिञ्जरैरीषत्कपिलैः । हरिच्छुकनिभो वर्णः । तित्तिरिः पक्षिविशेषस्तद्वच्चित्रैः । 'सिताक्ष यस्य वाजिनः शफाः समस्तकं मुखम् । स पञ्चभद्रनामको नृपस्य राज्यसौख्यदः' । शुक्लपर्यन्ते असिततारके नयने येषां ते मल्लिकाक्षाः । उक्तं च—'पृथुस्निग्धा समा चैव मल्लिकाकुसुमप्रभा । राजी यस्य तु पर्यन्ते परिक्षेप्ये तु लोचने ॥ सह यो मल्लिकाक्षस्तु दृष्टिपर्यन्ततारकः ॥' इति । तारकाः कदम्बककल्पनेकबिन्दुकल्माषितत्वचः कृत्तिकापिञ्जरा यतः । आयतेत्यादि । तदुक्तम्—'मुखं तन्वायतनातं चतुरस्रं समाहितम् । ऋजु चैवोप- पदिष्टं च परिपूर्णं च शस्यते ॥' इति । कृष्णेनाप्युक्तम्—'उज्जा अतुंगअत्यं णिम्मं संवाहिरण अच्छअणं' इति । अनुत्कटो ह्रस्वः । कोशो मध्यम् । शिरसो ग्रीवायाश्च यन्मध्यं स घण्टिकाबन्धः । यो निगाल इत्युच्यते तस्य सुवृत्तादि शस्यते । यदाह- 'ग्रीवाशिरोऽन्तरस्थितो दीर्घवृत्तः समाहितः । नोद्धतो नार्थितो नातिदुर्नाहोऽति- विधानतः ॥ सुदिग्धोऽनुपदिग्धश्च निगालो गदितः शुभः ॥' इति । यूपो यज्ञचिह्नं तस्येवानुपूर्वी यस्याः । तथा वक्रा आयता उदग्रा उद्धुरा ग्रीवा येषाम् । तदुक्तम्— 'ग्रीवा मूलम्बिनी वृत्ता दीर्घा च सुसमाहिता । गले बद्धा विदोर्वृत्ता तथा शिरसि चोद्यता ॥ निगाले स्याच्च निर्मांसा वृद्धौ साकुञ्चिता भृशम् । श्लिष्टमांसाग्रबद्धा च तुरगस्य प्रशस्यते ॥' इति । उपच्येत्यादि । तदुक्तम्—'स्कन्धः सुपरिपूर्णः स्याद्व्यक्त- मांसः पृथुत्रिकः । बहुमांसाङ्गसंश्लिष्टः स्थिरमांसश्च पूरितः ॥' इति । निर्भुग्नं स्थूल- त्वाद्बहिर्निःसृतम् । उक्तं च—'स्थूलास्थि महदच्छिद्रं पृथुलं यच्च निर्वलि । उर ईदृक्प्रशंसन्ति स्थूलक्रोडं महत्तरम् ॥' इति । निर्भुग्नमुरपन्नद्रोणिकमिति केचित् । कुछ तित्तिरकल्माष (तीतरपंखी) घोड़े थे । शुभ लक्षणों वाले घोड़े थे जैसे पञ्चभद्र (अर्थात् पञ्चकल्याण हृदय, पृष्ठ, मुख और दोनों पाश्र्वों में पुष्पित या भौंरी वाला), मल्लिकाक्ष (शुक्ल अपांग-वाला) और कृत्तिकापंजर (तारों जैसी सफेद चित्तियों वाला, चितकबरा) । उनका मुँह लम्बा और पतला था, कान छोटे छोटे थे, घंटी (सिर और गर्दन की जोड़) गोल, चिकनी और सुडौल थी, गर्दन ऊपर उठी हुई और यूप की तरह लम्बी और टेढ़ी थी, कन्धे की जोड़ मांस से फूली हुई थी, छाती निकली हुई थी, टांगें पतली और सीधी थीं, खुर लोहे की भाँति कड़े थे, वेग में टूटने के भय से मानों नाड़ियों