हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 186, कुल 506 में से
संदर्भ में पढ़ेंतृतीय उच्छ्वासः १४१ हर्षचरितादभिन्नं प्रतिभाति हि मे पुराणमिदम् ॥ ३ ॥ वंशानुगमविवादि स्फुटकराणं भरतमार्गभजनगुरु । श्रीकण्ठविनिर्यातं गीतमिव हर्षराज्यमिव ॥ ४ ॥ तच्छ्रुत्वा बाणस्य चत्वारः पितामहमुखपद्मा इव वेदाभ्यासपवित्रित- मूर्तयः, उपाया इव सामप्रयोगललितमुखाः, गणपतिः, अधिपतिः, तारा- पतिः, श्यामल इति पितृव्यपुत्रा भ्रातरः, प्रसन्नवृत्तयः, गृहीतवाक्याः, कृतगुरूपदन्यासाः, न्यायवादिनः, सुकृतसंग्रहाभ्यासगुरवो लब्धसाधु- भरतमुनिकृतो ग्रन्थः । श्रीकण्ठः श्रीयुक्तः कण्ठः वैस्वर्यादिदोषाभावात् । यद्वा,- श्रीकण्ठो हर एव सर्वविद्यानां तत एवोत्पत्तेः । हर्षराज्यमपीदृशमेव । तथा च वंशं कुलमनुगच्छत्यनुसरति यत्तद्वंशानुगम् । तथाविद्यमाना विवादिनो यत्र तद्विवादि सौराज्यम् । न केचित्तत्र विवदन्ते । करणमधिकरणं यत्र विद्यापरीक्षा धर्मनिर्णयो वा क्रियते, व्यापारो वा । भरतो नाम पूर्वं राजाभूत् । श्रीकण्ठो देश- भेदः। गीतमपि हर्षस्य प्रमोदस्त्य राज्यमिव । तस्य विजृम्भमाणत्वात् । तच्छ्रुत्वेत्यादौ। बाणस्य चत्वारो भ्रातरः परस्परस्य मुखानि व्यलोकयन्निति संबन्धः । तच्छ्रु- त्वेत्यादिनास्य प्रकरणस्य प्रकृतानुगुणत्वं दर्शितम् । तेषां च प्रस्ताववेदित्वम् । मुखपद्मा अपि चत्वारः सामवेदभेदाः । सान्त्वं च मुखमारम्भोऽपि । प्रसन्ना शुद्धा, सुबोद्धा च । वृत्तिर्वर्तनम् , सूत्रविवरणं च । गृहीतमादृतम् , ज्ञातार्थं च । वाक्यं विवरणम् , वार्तिकं च । यत्करणात्कात्यायनो वार्तिककार उच्यते । कृतो गुरूणां संबन्धिनि पदे स्थाने न्यासः स्थितियेषां ते । सर्वेणोपदेष्टृपदे स्थापितास्त इत्यर्थः । यद्वा;—कृतो गुरुणि पदे न्यासो यैः । महति पदे स्थिता इत्यर्थः । अन्यत्र,-कृतोऽ भ्यस्तो गुरुपदे दुर्बोधशब्दे न्यासो वृत्तिविवरणं यैः । न्यायो युक्तम् , उपपत्य- नुपपत्तिविचारश्च । सुकृतं पुण्यम् , सुष्ठु विहितं च । संग्रहः संचयः, व्याकरणे पवित्र भी हैं, फिर भी यह पुराण मेरी समझ में हर्षचरित से अभिन्न ही प्रतीत हो रहा है॥३॥ यह गीत हर्ष के राज्य के समान है । गीत वंशी वाद्य से अनुगत तथा राज्य वंश- परम्परागत है । गीत में दो परस्पर विरोधी गान्धार और निषाद स्वर नहीं हैं तथा राज्य में कोई विवाद करने वाला विद्रोही नहीं है । गीत के ताल और लय बिलकुल स्पष्ट हैं तथा राज्य के करण अर्थात् विद्यापरीक्षा या धर्मनिर्णय के स्थान प्रसिद्ध हैं । गीत संगीतशास्त्र के रचयिता भरत मुनि द्वारा प्रदर्शित मार्ग के अनुसार होने से महनीय है तथा राज्य भरत नामक प्राचीन राजा की नीति का अनुसरण करने से महनीय है । गीत मधुर कंठ से निकला हुआ है तथा राज्य श्रीकंठ नामक स्थान से निकला हुआ है ॥४॥ दोनों आर्याओं को सुन कर बाण के चचेरे भाई—गणपति, अधिपति, तारापति