भारतकोश
हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 241, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 241

१६६ हर्षचरितम् लाभृत्तेजस्विभूनन्दनप्रायो ग्रहगण इवोदयस्थानात् महाभारवाहनयोग्यः सागर इव सगरप्रभावात्, दुर्जयबलसनाथो हरिवंश इव शूराभ्र्जेगाम राजवंशः । यस्मादविनष्टधर्मधवलाः प्रजासर्गा इव कृतमुखात्, प्रतापा- क्रान्तभुवनाः किरणा इव तेजोनिधेः, विग्रहव्याप्तदिश्रुखा गिरय इव भूसृत्प्रवरात्, धरणिधारणक्षमा दिग्गजा इव ब्रह्मकरात्, उदधीन्पातुमु- द्यता जलधरा इव घनागमात्, इच्छाफलदायिनः कल्पतरव इव नन्द- नात्, सर्वभूताश्रया विश्वरूपप्रकारा इव श्रीधरादजायन्त राजानः । वन्तो गीतादिज्ञाः । तेजस्विनः शूराः । भूनन्दना राजानः; इतरत्र,-गुरुर्बृहस्पतिः । उदयः प्रभावोऽपि । महाभारो भूपालनरूपो विजयरूपो वा तस्य निर्वहणे योग्यः । सगरवत्प्रभावो यस्य तस्माद्राज्ञः, सगराणां च यः प्रभावस्तस्मात् । 'प्रभवात्' इति पाठे सगरवत्प्रकृष्टो भव उत्पत्तिर्यस्य तस्मात्; अन्यत्र,-सगरस्य यः प्रभवस्तस्मा- दिति व्याख्या । दुर्जयो दुरभिभवः । बलं प्राणाः सैन्यं वा तेन युक्तः । ततः कर्म- धारयः; अन्यत्र,-दुर्जयोऽजितो विष्णुः, बलो हलधरः, ताभ्यां सनाथा । शूराद्वि- क्रान्तात्, शूरश्च यदूनां राजा तस्मात् । अविनष्टेन पूर्णेन । धवलाः शुक्लाः । अवि- नष्टधर्मान्धवांश्चाम्तितीति वा । कृतमुखात्संसकृतात्, कृतयुगादेश्च । प्रताप आतपः, रिपुभयजननी वार्ता च । विग्रहो विरोधः, देहश्च । भूभृतां राज्ञाम्, भूधराणां च । धारणं पालनम्, उद्वहनं च । ब्रह्म करोतीति ब्रह्माकरस्तस्मात् । सामानि गायतो ब्रह्मणः करात्करिण उत्पन्ना इति वार्ता । पातुं रक्षितुम्, ग्रासीकर्तुं च । घन आगम उपदेशो यस्य, घनागमश्च वर्षाकालः । नन्दयतीति नन्दनः, देवोद्यानं च । सर्वेषां भूतानां प्राणिनामाश्नया आश्रयणीयाः, सर्वस्य वा भूतस्याश्रयाः, सर्वेषां वा भूताः पारमार्थिका अत एवाश्रयणीयाः । श्रीधरो हरिरपि । तेजस्वी (सूर्य), भूनन्दन (मंगल) आदि ग्रहों का समुदाय निकला (उपदेश देने वाले गुरु, विद्वान्, कवि, कलावन्त, शूर और पृथिवी को आनन्दित करने वाले राजाओं आदि से युक्त राजवंश) निकला । जैसे राजा सगर के प्रभाव से भारवान् वस्तुओं का वहन करने वाला सागर (पृथिवी के पालनरूप महान् भार का वहन करने वाला राजवंश) निकला । जैसे शूर नामक यदुराज से दुर्जय अर्थात् विष्णु और बल अर्थात् बलराम से युक्त हरिवंश (अजेय सैन्य-बल वाला राजवंश) निकला । वैसे ही पुष्पभूति से एक राजवंश^१ चला । विनष्ट न होने वाले धर्म द्वारा उज्ज्वल प्रजा के निर्माण जैसे सतयुग से हुए, अपने प्रताप से सारे संसार को आक्रान्त करने वाली किरणें जैसे सूर्य से हुईं, अपने विस्तार में सारी दिशाओं में फैलने वाले पर्वत जैसे प्रधान पर्वत से हुए, पृथिवी के धारण १. राजवंश के पक्ष मे घटित होनेवाले श्लिष्ट शब्दों के अर्थ कोष्ठक में दिए गए हैं।