हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 274, कुल 506 में से
संदर्भ में पढ़ेंचतुर्थ उच्छ्वासः २२६ यन्ति पल्लविकाः । स्वप्ना इव मिथ्यादर्शनैरसद्बुद्धिं जनयन्ति विप्रल- म्भकाः । गीतनृत्यहसितैरुन्मत्ततामावहन्त्यपेक्षिता विकारा इव वातिकाः । चातका इव तृष्णावन्तो न शक्यन्ते ग्रहीतुमकुलीनाः । मानसे मीनमिव स्फुरन्तमेवाभिप्रायं गृह्णन्ति जालिकाः । यमपट्टिका इवाम्बरे चित्रमालि- खन्त्युद्गीतकाः । शल्यं हृदये निक्षिपन्त्यतिमार्गणाः । यतः सर्वैरेभिर्दोषा- भिषङ्गैरसंगतौ बहुधोपधाभिः परीक्षितौ शुची विनीतौ विक्रान्तावभिरूपौ मालवराजपुत्रौ भ्रातरौ भुजाविव मे शरीराद्व्यतिरिक्तं कुमारगुप्तमाधव- चित्तरञ्जनां कृत्वा, आसाद्य च प्रकृतिं स्वभावम्, शरीरं च । पल्लविका विटाः, किसलयानि च । मिथ्यादर्शनैरसदागमैः, अलीकवस्तुप्रकाशनैश्च । असतीमशोभनां बुद्धिम्, असत्यविद्यमाने च बुद्धिः । विप्रलम्भकाः प्रतारकाः । वातिका धूर्ताः, वातोत्थिताश्च । तृष्णा धनगर्धा, पिपासा च । ग्रहीतुमावर्जयितुम्, अवलब्धुं च । अकुलीना अकुलोद्गताः । को भूमौ न निलीनाश्चाकाशचारित्वात् । मानसे चित्ते, सरोभेदे च । स्फुरन्तमुत्पद्यमानम् । अनुत्पन्नाभिभवमिति यावत् । सति कार्ये हि सर्व एवाभिप्रायं लक्षयति । एतेऽत्र प्रागेव । अन्यत्र, -च चलन्तम् । जालिकाः कौसृतिकाः, कैवर्ताश्च । यमपट्टिका गृहीतपट्टलिखितसपरिवारधर्मराजाः । अम्बर आकाशे, वस्त्रे चाम्बरे । चित्रमालिखन्तीति । असंभाव्यमानानर्थानारभन्त इति यावत् । अन्यत्र,-चित्रमालेख्यम् । उद्गीतका उच्चतरत्वादुच्चैर्गीतं येषां ते च । शल्यमिव शल्यं पीडा, फलिका च । अतिमार्गणा अतिक्रम्य ये संश्रयन्ते, अन्यथा महाभागिनोऽस्य वक्तुरनुचितेयमुक्तिः स्यात् । तेनानुरूपसंभवमविच्छिन्नं च । मार्गणमतिमार्गणम्, मार्गणाः शराश्च । हृदये शल्यं फलिकामर्पयन्ति । अभिषङ्गः संपर्कः । उपधा भृत्यस्य धर्मादिविषयः परीक्षणोपायः । उक्तं च—'उपेत्याधीयते यस्मादुपधेति ततः स्मृता । उपाय उपधा ज्ञेया तया भृत्यान्परीक्षयेत् ॥' इति । विक्रान्तौ शूरौ । अभिरूपौ सुन्दरौ । डालते हैं । अपेक्षित होने पर वायुजन्य व्याधि के समान ये धूर्त नाच, गाना और हँसी-मजाक से पागल बना देते हैं । चातकों के समान धन के प्यासे ये ऐरे-गैरे लोग साथ नहीं देते । ये चालबाज लोग मानस में मत्स्य के ससान ऊपर की ओर उचकते ही अभिप्राय पकड़ लेते हैं । यमदूतों के समान ये उचकें लोग आकाश में चित्रकारी करते हैं अर्थात् बिना किसी सम्भावना के एकाएक अनिष्ट कर बैठते हैं । बाणों के समान छिद्रान्वेषी प्रकृति के ये लोग हृदय में पीड़ा उत्पन्न करते हैं। इसलिए इन सब दोषों के लगाव से सर्वथा दूर रहने वाले, बहुत प्रकार के उपायों से परीक्षित, पवित्र, विनम्र,