भारतकोश
हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 57, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 57

भ्यां पादपल्लवाभ्यां समुद्रासमाना, शिष्यद्वयेनेव पदक्रममुखरेण नूपुर- युगलेन वाचालितचरणयुगला, धर्मनगरतोरणस्तम्भविभ्रमं बिभ्राणा जङ्घाद्वितयं^१, सलीलमुक्तकुलहंसकुलकेलालापप्रलापिनि मेखलादाम्नि^३ विन्यस्तवामहस्तकिसलया, विद्वन्मानवनिवासलग्नेन गुणकलापेनेवाँ- सावलम्बिना ब्रह्मसूत्रेण^५ पवित्रीकृतकाया, भास्वन्मध्यनायकमनेकमु- क्तानुयातमपवर्गमार्गमिव हारमुद्वहन्ती, वदनप्रविष्टसर्वविद्यालक्तकरसेनेव पाटलेन^७ स्फुरता दशनच्छदेन विराजमाना, संक्रान्तकमलासनकृष्णाजि- नप्रतिमां मधुरगीताकर्णावतीर्णशशिहरिणामिव कपोलस्थलीं दधाना, तिर्यक्सावर्त्तङ्गुभ्रमितैकभ्रूलता, श्रोत्रमेकं विस्वरश्रवणकलुषितं प्रक्षाल- यन्तीवापाङ्गर्निगतेन लोचनाश्रुजलप्रवाहेणेतरश्रवणेन च विकसितसि- तसिन्धुवारमञ्जरीजुषा हसतेव प्रकटितविद्यामदा, श्रुतिप्रणयिभिः प्रण- वैरिव कर्णावतंसकुसुमधुकरकुलैरुपास्यमाना, सूक्ष्मविमलेन प्रज्ञाप्रता- नेनेवांशुकनाच्छादितशरीरा^१३, वाङ्मयमिव निर्मलं दिक्षु दशनज्योत्स्ना- लोकं विकिरन्ती^१४ देवी सरस्वती श्रुत्वा जहास । प्रकृत्येति । अन्यथा ब्रह्मसन्निधानेन कथमौहाक्षेपः । कथमौदृशोऽवकाश इत्याह—महातपा इति । मुनिरित्यनेनास्य ज्ञानप्राधान्यात्तद्व्यतोऽशासनमतीवो- पकारः। अत्रेस्तनय इति न केवलं महातपस्त्वेन यावदत्रितनयत्वेन ब्रह्मलोकप्राप्ति- रस्य । ततस्तारापतेरित्यादिना तथाभूतपरमप्रजापतिसम्बन्धयोग्यत्वमस्याख्यायते। द्वितीयेनेति तत्समत्वमुच्यते । कथं सामगानेऽप्यनवहित इत्याह—क्रोधान्ध इति । सर्वेष्वित्यादौ देवी सरस्वती श्रुत्वा जहासेति क्रियाप्रतिपत्तिरस्य मा भूदित्यु- त्तमप्रकृतिरत्वादन्त्येत्याद्युक्तम् । अन्येन सह्ालापलीलाकथाक्रीडया । कुमारीति । कुमारित्वेनास्या [हास्यादिकं नानुचितमिति दर्शयति । भूषितेत्यनेन दर्शनीयत्व- माह-पितामहमिति । सर्वप्राधान्यमनेनोक्तम् । निर्भर्त्सनं ताडनं तेन तदर्थं वा यत्ता- डनं रोषाद्भूमिहननं तद्वशाच्च जातरागाभ्यामिव पादपल्लवाभ्यामित्यनेनारुणत्वं सौकु- मार्यं चाह। अत एव गाढताडनेन रक्तत्वमुल्लेखितम् । ताडितो वा यं ताडितस्तत्तुल्यो

१. द्वितीयम् । २. कुलकल; कुलाकलापप्र । ३. धाम्नि । ४. नेवांशाव । ५. सहजब्रह्म । ६. हारमुरसासमु । ७. पाटलेनेव च । ८. साममधुर; समम; प्रतिबिम्बां मधुर । ९. सावर्णमु । १०. तीवाह्विनि । ११. सिन्दु । १२. संसक्तमधु; वतंसमधु । १३. तनुलता । १४. किरन्ती ।