हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 61, कुल 506 में से
संदर्भ में पढ़ें१६ हर्षचरितम् अत्रान्तरे स्वयंभुवोऽभ्याशे^१ समुपविष्टा देवी मूर्तिमती पीयूषफेनप- टलपाण्डरं कल्पद्रुमदुकूलवल्कलं^२ वसना, बिसतन्तुमयेनांशुकेनोभयस्त- नमध्यबद्धगात्रिकाग्रन्थिः, तपोबलनिर्जितत्रिभुवनजयपताकाभिरिव तिसृ- भिर्भस्मपुण्ड्रकराजिभिर्विराजितललाटाजिरा, स्कन्धावलम्बिना सुधौफे- नधवलेेन तपःप्रभावकुण्डलीकृतेन गङ्गास्रोतसेव^३ योगपट्टकेन विर- चितवैकक्ष्यका,^७ सव्येन ब्रह्मोत्पत्तिपुण्डरीकमुकुलमिव स्फाटिकं क- मण्डलुं करेण कलयन्ती, दक्षिणमक्षमालाकृतपरिक्षेपं कम्बुनिर्मितो- र्मिकादन्तुरितं^९ तर्जनतरङ्गिततर्जनीकमुत्क्षिपन्ती करम् , 'आः पाप, क्रोधोपहत, दुरात्मन् , अज्ञ, अनात्मज्ञ, ब्रह्मबन्धो, मुनिखेट^१०, अपसद, निराकृत^११, कथमात्मस्खलितविलक्षः सुरासुरमुनिमनुजवृन्दवन्दनीयां त्रिभुवनमातरं भगवतीं सरस्वतीं शप्तुमभिलषसि' इत्यभिदधाना, रोष- विमुक्तवेत्रासनैरोङ्कारमुखरितैर्मुखरै^१३ न्तेपदोल्यायमानजटाभारभरितैर्दिग्भिः परिकरबन्धभ्रमितकृष्णाजिर्नाटोपच्छायाश्यामायमानदिवसैरमर्षनिःश्वास- दोलाप्रेङ्खोलितब्रह्मलोकैः सोमरसमिव स्वेदविसरव्याजैन स्रवद्भिर- ग्निहोत्रपवित्रभस्मस्मेरललाटैः कुशत्तुचारु^१७ चामरचीरचीवरिभिराषा- ढिभिः प्रहरणीकृतकमण्डलुमण्डलैर्मूर्त्तिमद्भिर्वेदैः सह बृसीमपहाय सावित्री समुत्तस्थौ । अत्रान्तर इत्यादौ मूर्त्तिमद्भिर्वेदैः सह सावित्री समुत्तस्थाविति सम्बन्धः । अभ्याशे समीपे । गात्रिकाग्रन्थिर्ग्रन्थिविशेषः स्वस्तिकाकारः स्त्रीणामुत्तरीयस्य स्तनोरेशे भवति । तिलकं पुण्ड्रकं स्कन्धावंसौ वायुस्थानानि च स्कन्धाः । फेनैस्त- दृश धवलेन । 'तिर्यग्वक्षसि विक्षिप्तं वैकक्ष्यकमुदाहृतम्' । सव्येन वामेन । पुण्डरी- कमुकुलं मुकुलितं पद्मम् । कलयन्ती क्षिपन्ती, धारयन्ती वा । परिक्षेपः परिवलनम् । कम्बुः शङ्खः । ऊर्मिका वालिका । दन्तुर इव दन्तुरो व्याद्यस्तम् । तर्जनं निर्भर्त्सनम् । तरङ्गिता तर्जिता चलिता । तर्जनी प्रदेशिन्यङ्गुष्ठनिकटाङ्गुलिः क्रोधोपहतेत्यात्म- विनाशायैव ते क्रोध इत्युक्तं भवति । ब्रह्मबन्धो निकृष्टब्राह्मण । अपसदो नीचः । १. आभ्यासे । २. दुगूल । ३. विक्ष । ४. तपोनिर्जित । ५. फेनध । ६. श्गगाप । ७. वैकक्षा, । ८. स्फुरि । ९. दन्तुरं । १०. खेटापसदनि राकृत । ११. निराकृते । १२. मनुजमाननीयां । १३. मुखर । १४. आक्षेप । १५. भरित- शिरोभिः । १६. कृष्णाजिनपटच्छा । १७. कुशतम्युचामर ।