भारतकोश
हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 64, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 64

प्रथम उच्छ्वासः १५ महातपोभारवैवधिकता, क पुरोभागित्वम् ? अतिरोषणश्चक्षुष्मानन्ध एव जनः । नहि कोपकलुषिता विमृशति मतिः कर्तव्यमकर्तव्यं वा । कुपि- तस्य प्रथममन्धकारीभवति विद्या, ततो भ्रुकुटिः । आदाविन्द्रियाणि रागः समास्कन्दति, चरमं चक्षुः । आरम्भे तपो गलति, पश्चात्स्वेदसलिलम् । पूर्वमयशः स्फुरति, अनन्तरमधरः । कथं लोकविनाशाय ते विषपाद- पस्येव जटावल्कलानि जातानि । अनुचित। खल्वस्य मुनिवेषस्य हारय- ष्टिरिव वृत्तमुक्ता चित्तवृत्तिः । शैलूष इव वृथा वहसि कृत्रिममुपशमशून्येन चेतसा तापसाकल्पम् । अल्पमपि न ते पश्यामि कुशलजातम् । अनेना- तिलङ्घिनाऽव्याप्नुपर्य्येव प्लवसे ज्ञानोदन्वतः । न खल्वनेडमूकः एडा जडा वा सर्व एते महर्षयः । रोपदोशनिपष्टे स्वहृदये निग्राहे किमर्थमसि निगृहीतवाननागसं सरस्वतीम् । एतानि तान्यात्मप्रमादस्खलितवैल- क्ष्याणि, यैरार्यतां यात्यविदग्धो जनः' इत्युक्त्वा पुनराह—'वत्से सरस्वति, विषादं मा गाः । एषा त्वामनुयास्यति सावित्री । विनोद्- यिष्यति चास्मद्विरहदुःखिताम् । आत्मजमुखकमलावलोकनावधिश्च ते शापोऽयं भविष्यति' इति । एतावदभिधाय विसर्जितसुरासुरमुनिमनुज- मण्डलः ससंभ्रमोपगतनारदस्कन्धविन्यस्तहस्तः समुचिताह्निककरणा- योदतिष्ठत् । सरस्वत्यपि शप्ता किंचिदधोमुखी धवलकृष्णशारां कृष्णा- जिनलेखामिव दृष्टिमुरसि पातयन्ती सुरभिनिःश्वासपरिमललग्नैर्मूर्त्तैः शापाक्षरैरिव षट्चरणचक्रैराकृष्यमाणा शापशोकशिथिलितहस्ताऽधो- मुखीभूतेनोपदिश्यमानमर्त्यलोकावतरणमार्गेव नखमयूखजालेन नूपुर- व्याहाराहूतैर्भवनकलहंसकुलैर्ब्रह्मलोकनिवासिहृदयैरिवानुगम्यमाना समं सावित्र्या गृहमगात् ।

अथेत्यादौ भगवान्पितामहः सुधीरमुवाचेति सम्बन्धः । तथेति । तेन प्रकारेण । निरपराधां सरस्वतीमित्यर्थः । धवलयशोवतीनिमिति । प्रशंसायां नित्ययोगे वा मत्व- र्थीयः । ‘बिसकिसलयच्छेदपाथेयवन्तः' इतिवत् । अन्यथा कर्मधारये कृते मत्वर्थीय एकबुद्धयनुमितो बहुव्रीहौ प्रतिपत्तिर्भवतीति । इतरत्र तु बुद्धिद्वयमिति लघुत्वाच्च- क्रमस्येत्युक्तम् । उद्रच्छन्नखाङ्गुलीयरमकरतस्य मयूखलताकलापो यस्य तेन करेण । आपीडः समूहः । पातं विन्यासम् । पातयन्कुर्वन् । अत्र हि धात्वर्थगतानुष्ठानमात्र- वृत्तिः क्रिया । यथा-‘संवस्ते बालिते क्ते’ इति । पन्था व्यवहारः, मार्गश्च ।