हर्षचरितम् (महाकवि बाणभट्ट - संकेत एवं जगन्नाथ पाठक सान्वय हिन्दी व्याख्या सटीक)
Harshacharitam of Mahakavi Banabhatta with Sanket and Hindi Commentary
महाकवि बाणभट्ट द्वारा
पृष्ठ 126, कुल 184 में से
संदर्भ में पढ़ें८४ Digitized by Arya Samaj Fहर्षचरितम् Chennai and eGangotri वृत्तय इव वनमयूरपिच्छचयानुच्चिन्वन्तः, सप्रयाणगुञ्जा इव शिञ्जान- जरत्करञ्जमञ्जरीबीजजालकैः सप्ररोहा इवातपातुरवनमहिषनासानिकुञ्ज- स्थूलनिःश्वासैः, सापत्या इवोड्डीयमानजवनवातहरिणपरिपाटीपेटकैः, स- भ्रुकुटय इव दह्यमानखलधानबुसकूटकुटिलधूमकोटिभिः, सावीचीवीचय इव महोष्ममुक्तिभिः, लोमशा इव शीर्यमाणशाल्मलिफलतूलतन्तुभिः, दद्रुणा इव शुष्कपत्रप्रकराकृष्टिभिः, शिराला इव तृणवेणीविकरणैः उच्छ्र- मश्व इव धूयमाननवयवशूकशकलशङ्कुभिः, दंष्ट्राला इव चलितशलल- आवृत्तयः । यदाह मुनिः—'यदा नृत्तवशादङ्गं भूयोभूयो निवर्तते । तत्राद्यमभिनेयं स्याच्छेषं नृत्ते नियोजयेत् ॥' इति । मण्डलीनृत्तं हल्लीशकम् । यदाह—'मण्डलेन तु यन्नृत्तं हल्लीशकमिति स्मृतम् । एकस्तत्र तु नेता स्याद्गोपस्त्रीणां तथा हरिः ॥' इति । रेचकास्त्रयः—कटीरेचकः, हस्तरेचकः, ग्रीवारेचकश्चेति । रासलक्षणम्— 'अष्टौ षोडशद्वात्रिंशद्यत्र नृत्यन्ति नायकाः । पिण्डीबन्धानुसारेण तन्नृत्तं रासकं स्मृतम् ॥' इति । अस्यैव तु हल्लीमकाद्या विशेषाः । क्षपणकवृत्तय इवेति । क्षपण- काश्च मषीमलिना बर्हिपिच्छानि शास्त्रचोदनया वहन्ति । उन्मत्तपक्षे—निर्विवेक- तया मयूरपिच्छचय इत्युक्तं प्राक् । गुञ्जन्तोति गुञ्जा ढक्काभेदाः । उन्मत्तानां नृत्ता- वसरे सर्वं एव करतलादि वादयन्ति । शिञ्जानाः शब्दायमानाः । करञ्जो वृक्षभेदः । प्ररोहोऽङ्कुरः । उन्मत्ता अपि खेदान्निःश्वसन्ति । सापत्या इवेति । उन्मत्ता अपि श्वभ्रादिपतनभयादपत्यानि न त्यजन्ति । पेटकैर्यूथैः । सभ्रुकुटय इवेति । दह्यमाना- मिप्रायेणोक्तम् । उन्मत्ता अपि क्रोधप्राया एव । क्रोधस्य भृकुट्यादयोऽनुभावाः । खलधानं क्षोदादिदेशः । क्षुद्यमानं धान्यमित्यन्ये । सस्यस्य ज्वालाभावाद् धूमवर्णनं समुचितम् । कुटिलपदेन च भृकुटीसादृश्यमाह । अवीचिनंरकभेदस्तस्य वीचय इव वीचयो ज्वालाः । महोष्मेति । उन्मत्ता अपि खेदादिवशादूष्मायन्ते । लोमशा इवेति । उन्मत्ता अपि क्षुरकर्म विना लोमशाः । तूलं कार्पासः । दद्रूः कुष्ठविकारः । साऽस्यास्तीति दद्रुणः । 'दद्रूवा ह्रस्वत्वं च' इति नः । उन्मत्ता अप्युद्वर्तनं विना दाव से जली हुई भूमियों में रगड़ मारने से हवा स्याह हो गई थी। पवनों ने मानों मलिन वेश धारण किये हुए जैन साधुओं के आचार सीख कर वन-मयूरों के पंख ग्रहण करना आरम्भ कर दिया । करंज नामक वृक्ष की मंजरियों के बीज हवा से इस प्रकार बजने लगे मानों प्रस्थान का ढक्का बज उठा हो । घाम से पीड़ित वनैले भैसों की माला से मोटे निश्वास इस तरह निकल रहे थे मानों उस हवा के प्ररोह फूट रहे हों । तेज दौड़ने वाले वातहरिण के यूथ इस प्रकार उड़ने लगे मानों पवन के बच्चे हों । भूसे की जलती हुई ढेर की टेढ़ी धूमरेखा से ऐसा लगता था मानों हवा ने अपनी भौंहें टेढ़ी की हों। गर्मी इस तरह बरसती थी मानों अवीचि नामक नरक की ज्वाला हो । सेमल के ढोढों के फटने से रुई बिखर रही थी, मानों हवा के रोंगटे हों। दाद के रोगी की भाँति हवा सूखे CC-0.Panini Kanya Maha Vidyalaya Collection.