भारतकोश
हर्षचरितम् (महाकवि बाणभट्ट - संकेत एवं जगन्नाथ पाठक सान्वय हिन्दी व्याख्या सटीक)

हर्षचरितम् (महाकवि बाणभट्ट - संकेत एवं जगन्नाथ पाठक सान्वय हिन्दी व्याख्या सटीक)

Harshacharitam of Mahakavi Banabhatta with Sanket and Hindi Commentary

महाकवि बाणभट्ट द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 43, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 43

॥ श्रीः ॥ हर्षचरितम् 'सङ्केत'-संस्कृत-हिन्दीव्याख्योपेतम् प्रथम उच्छ्वासः १नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ॥ १ ॥ ॐ सङ्केतः ॐ श्च्योतन्मदाम्बुभरनिर्भरचण्डगण्डशुण्डाग्रशौण्डपरिमण्डितभूरिभृङ्गान् । विघ्नानिवानवरतं चलगण्डतालैरुत्सारयञ्जयति जातघृणो गणेशः ॥ शङ्करनामा कश्चिच्छ्रीमत्पुण्याकरात्मजो व्यलिखत् । शिष्टोपरोधवशतः सङ्केतं हर्षचरितस्य ॥ 'सर्वकर्माणि कुर्वीत प्रणिपत्येष्टदेवताम् इति शिष्टाचारमनुपालयन् 'अपारे काव्यसंसारे कविरेव प्रजापतिः । यथास्मै रोचते विश्वं तथेद्ं परिवर्तते ॥' इति काव्यलक्षणामपूर्वां सृष्टि स्थिरां प्रवर्तयंन्नेष कविः शिवं बहुशक्तियुतमपि नियतशक्त्या- त्मकमेव स्तौति—नमस्तुङ्गेत्यादिना । न क्वचित्प्रणतो यो मूर्धा तत्स्पर्शो चन्द्र एव सितवालतुल्यप्रभाप्रसरतया स्वेदाविनाश्याद्विशिष्टस्यानस्थितश्च चामरम् । त्रैलोक्यमेव नानाभङ्गिशोभित्वात्नगरं तदारम्भे मूलस्तम्भः । नगरारम्भे हि मूलस्तम्भो भवति । त्रिभुवनरूपी नगर के निर्माण-आरम्भ के मूलस्तम्भ; (जिनके) उन्नत (कहीं भी न झुकने वाले) मस्तक पर चन्द्र के चँवर की शोभा है (उन) भगवान् शङ्कर को नमस्कार है† ॥ १ ॥ † कवि ने भगवान् शंकर को त्रिभुवन-नगर के निर्माण-आरम्भ का मूलस्तम्भ- १. जीवानन्दपाठे प्रथमः श्लोकः— चतुर्मुखमुखाम्भोजवनहंसवधूमम । मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥