हर्षचरितम् (महाकवि बाणभट्ट - संकेत एवं जगन्नाथ पाठक सान्वय हिन्दी व्याख्या सटीक)
Harshacharitam of Mahakavi Banabhatta with Sanket and Hindi Commentary
महाकवि बाणभट्ट द्वारा
पृष्ठ 43, कुल 184 में से
संदर्भ में पढ़ें॥ श्रीः ॥ हर्षचरितम् 'सङ्केत'-संस्कृत-हिन्दीव्याख्योपेतम् प्रथम उच्छ्वासः १नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ॥ १ ॥ ॐ सङ्केतः ॐ श्च्योतन्मदाम्बुभरनिर्भरचण्डगण्डशुण्डाग्रशौण्डपरिमण्डितभूरिभृङ्गान् । विघ्नानिवानवरतं चलगण्डतालैरुत्सारयञ्जयति जातघृणो गणेशः ॥ शङ्करनामा कश्चिच्छ्रीमत्पुण्याकरात्मजो व्यलिखत् । शिष्टोपरोधवशतः सङ्केतं हर्षचरितस्य ॥ 'सर्वकर्माणि कुर्वीत प्रणिपत्येष्टदेवताम् इति शिष्टाचारमनुपालयन् 'अपारे काव्यसंसारे कविरेव प्रजापतिः । यथास्मै रोचते विश्वं तथेद्ं परिवर्तते ॥' इति काव्यलक्षणामपूर्वां सृष्टि स्थिरां प्रवर्तयंन्नेष कविः शिवं बहुशक्तियुतमपि नियतशक्त्या- त्मकमेव स्तौति—नमस्तुङ्गेत्यादिना । न क्वचित्प्रणतो यो मूर्धा तत्स्पर्शो चन्द्र एव सितवालतुल्यप्रभाप्रसरतया स्वेदाविनाश्याद्विशिष्टस्यानस्थितश्च चामरम् । त्रैलोक्यमेव नानाभङ्गिशोभित्वात्नगरं तदारम्भे मूलस्तम्भः । नगरारम्भे हि मूलस्तम्भो भवति । त्रिभुवनरूपी नगर के निर्माण-आरम्भ के मूलस्तम्भ; (जिनके) उन्नत (कहीं भी न झुकने वाले) मस्तक पर चन्द्र के चँवर की शोभा है (उन) भगवान् शङ्कर को नमस्कार है† ॥ १ ॥ † कवि ने भगवान् शंकर को त्रिभुवन-नगर के निर्माण-आरम्भ का मूलस्तम्भ- १. जीवानन्दपाठे प्रथमः श्लोकः— चतुर्मुखमुखाम्भोजवनहंसवधूमम । मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥