भारतकोश
संग्रह पर लौटें

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

हठयोगप्रदीपिका १५३ उन्मनीभावनायाः कालनियमाभावमाह—दिवा नेति । दिवा सूर्य- संचारे लिङ्गं सर्वकारणमात्मानम् । ‘एतस्मादात्मन आकाशः संभूतः’ (Tai. Up., II. 1. 1) इत्यादिश्रुतेः । न पूजयेत् न भावयेत् । ध्यानमेवात्मपूजनम् । तदुक्तं वासिष्ठे— ‘ध्यानेोपहार एवात्मा ध्यानमस्य महर्चनम् । विना तेनेतरेणात्मा लभ्यत एव नो ॥’ इति । रात्रौ चन्द्रसंचारे च नैव पूजयेन्नैव भावयेत् । चन्द्रसूर्यसंचारे चित्तस्थैर्याभावात् । ‘चले वाते चलं चित्तम्’ (II. 2) इत्युक्तत्वात् । दिवारात्रिनिरोधतः सूर्यचन्द्रौ निरुध्य । ल्यब्लोपे पञ्चमी । तस्यास्तसिल् । सर्वदा सर्वस्मिन् काले लिङ्गम् आत्मानं पूजयेद् भावयेत् । सूर्यचन्द्रयोर्निरोधे कृते सुषुम्नान्तर्गते प्राणे मनःस्थैर्यात् । तदुक्तम्—‘सुषुम्नान्तर्गते वायौ मनःस्थैर्यं प्रजायते’ इति ॥ ४२ ॥ अथ खेचरी— सव्यदक्षिणनाडीस्थो मध्ये चरति मारुतः । तिष्ठते खेचरी मुद्रा तस्मिन् स्थाने न संशयः ॥ ४३ ॥ खेचरीमाह—सव्येति । सव्यदक्षिणनाडीस्थो वामतदितरनाडीस्थो मा- रुतो वायुर्यत्र मध्ये चरति यस्मिन् मध्यप्रदेशे गच्छति तस्मिन् स्थाने तस्मिन् प्रदेशे खेचरी मुद्रा तिष्ठते स्थिरा भवति । ‘प्रकाशनस्थेयाख्ययोश्च’ (Pāṇ. 1. 3. 32) इत्यात्मनेपदम् । न संशयः उक्तेऽर्थे संदेहो नास्तीत्यर्थः ॥ ४३ ॥ इडापिङ्गलयोर्मध्ये शून्यं चैवानिलं ग्रसेत् । तिष्ठते खेचरी मुद्रा तत्र सत्यं पुनः पुनः ॥ ४४ ॥

१५४ हठयोगप्रदीपिका इडापिङ्गलयोरिति । इडापिङ्गलयोः सव्यदक्षिणनाड्योर्मध्ये यच्छून्यं खं कर्तृ अनिलं प्राणवायुं यत्र ग्रसेत् । शून्ये प्राणस्य स्थिरीभाव एव ग्रासः । तत्र तस्मिन् शून्ये खेचरी मुद्रा तिष्ठते । पुनः पुनः सत्यमिति योजना ॥ ४४ ॥ सूर्याचन्द्रमसोर्मध्ये निरालम्बान्तरे पुनः । संस्थिता व्योमचक्रे या सा मुद्रा नाम खेचरी ॥ ४५ ॥ सूर्याचन्द्रमसोरिति । सूर्याचन्द्रमसोरिडापिङ्गलयोर्मध्ये निरालम्बं यदन्त- रमवकाशस्तत्र । पुनः पादपूरणे । व्योम्नां खानां चक्रे समुदाये । भ्रूमध्ये सर्वखानां समन्वयात् । तदुक्तं ‘पञ्चस्रोतः समन्वितम्’ (III. 53) इति । या संस्थिता सा मुद्रा खेचरी नाम ॥ ४५ ॥ सोमाद् यत्रोदिता धारा साक्षात् सा शिववल्लभा । पूरयेदतुलां दिव्यां सुषुम्नां पश्चिमे मुखे ॥ ४६ ॥ सोमादिति—सोमाच्चन्द्राद् यत्र यस्यां खेचर्यां धारा अमृतधारा उदितोद्गता सा खेचरी साक्षाच्छिववल्लभा शिवस्य प्रियेति पूर्वेणान्वयः । अतुलां निर्मलां निरुपमां दिव्यां सर्वनाड्युत्तमां सुषुम्नां पश्चिमे मुखे पूरयेत् । जिह्वयेति शेषः ॥ ४६ ॥ पुरस्ताच्चैव पूर्येत निश्चिता खेचरी भवेत् । अभ्यस्ता खेचरी मुद्राप्युन्मनी संप्रजायते ॥ ४७ ॥ पुरस्ताच्चैवेति । पुरस्ताच्चैव पूर्वत एव पूर्येत । सुषुम्नां प्राणेनेति शेषः । यदि तर्हि निश्चितासंदिग्धा खेचरी खेचर्याख्या मुद्रा भवेदिति । यदि तु पुरस्तात् प्राणेन न पूर्येत जिह्वामात्रेण पश्चिमतः पूर्येत तर्हि मूढावस्थाजनिका न

हठयोगप्रदीपिका १५५ निश्चिता खेचरी स्यादिति भावः । खेचरीमुद्राप्यभ्यस्ता सती उन्मनी संप्रजायते चित्तस्य ध्येयाकारावेशात् तुर्यावस्था भवतीत्यर्थः ॥ ४७ ॥ भ्रुवोर्मध्ये शिवस्थानं मनस्तत्र विलीयते । ज्ञातव्यं तत्पदं तुर्यं तत्र कालो न विद्यते ॥ ४८ ॥ भ्रुवोरिति । भ्रुवोर्मध्ये भ्रुवोरन्तराले शिवस्थानं शिवस्येश्वरस्य स्थानं शिवस्य सुखरूपस्यात्मनो वा स्थानमस्तीति शेषः । तत्र तस्मिन् शिवे मनो लीयते । शिवाकारवृत्तिप्रवाहवद् भवति तच्चित्तलयरूपं तुर्यं पदं जाग्रत्स्वप्नसुषुप्तिभ्यश्चतुर्था- वस्थाख्यं ज्ञातव्यम् । तत्र तस्मिन् पदे कालो मृत्युर्न विद्यते । यद्वा सूर्यचन्द्र- योर्निरोधादायुःक्षयकारकः कालः समयो न विद्यत इत्यर्थः । तदुक्तम्— ‘भोक्त्री सुषुम्ना कालस्य’ (IV. 17) इति ॥ ४८ ॥ अभ्यसेत् खेचरीं तावद् यावत् स्याद् योगनिद्रितः । संप्राप्तयोगनिद्रस्य कालो नास्ति कदाचन ॥ ४९ ॥ अभ्यसेदिति । तावत् खेचरीं मुद्रामभ्यसेत, यावद्योगनिद्रितः । योगः सर्ववृत्तिनिरोधः सैव निद्रा योगनिद्रास्य संजाता इति योगनिद्रितः तादृशः स्यात् । संप्राप्ता योगनिद्रा येन स संप्राप्तयोगनिद्रस्तस्य कदाचन कस्मिंश्चिदपि समये कालो मृत्युर्नास्ति ॥ ४९ ॥ निरालम्बं मनः कृत्वा न किंचिदपि चिन्तयेत् । सबाह्याभ्यन्तरे व्योम्नि घटवत् तिष्ठति ध्रुवम् ॥ ५० ॥ निरालम्बमिति । यो निरालम्बमालम्बनशून्यं मनः कृत्वा किंचिदपि न चिन्तयेत् खेचरीमुद्रायां जायमानायां ब्रह्माकारामपि वृत्तिं परवैराग्येण परित्य- जेदित्यर्थः । स योगी बाह्याभ्यन्तरे बाह्ये बहिर्भवे आभ्यन्तरेऽन्तर्भवे च

१५६ हठयोगप्रदीपिका व्योम्याकाशे घटवत् तिष्ठति। ध्रुवं निश्चितमेतत्। यथाकाशे घटो बहिरन्त- श्चाकाशपूर्णो भवति तथा खेचर्यामालम्बनपरित्यागेन योगी ब्रह्मणा पूर्णस्ति- ष्ठतीत्यर्थः ॥ ५० ॥ बाह्यवायुर्यथा लीनस्तथा मध्यो न संशयः। स्वस्थाने स्थिरतामेति पवनो मनसा सह ॥ ५१ ॥ बाह्येति। बाह्यो देहाद् बहिर्भवो वायुर्यथा लीनो भवति खेचर्याम्। तस्यान्तःप्रवृत्त्यभावात्। तथा मध्यो देहमध्यवर्ती वायुर्लीनो भवति। तस्य बहिःप्रवृत्त्यभावात्। न संशयः, अस्मिन्नर्थे संदेहो नास्तीत्यर्थः। स्थीयते स्थिरीभूयतेऽस्मिन्निति स्थानं स्वस्य प्राणस्य स्थानं स्थैर्याधिष्ठानं ब्रह्मरन्ध्रं तत्र मनसा चित्तेन सह पवनः प्राणः स्थिरतां निश्चलतामेति प्राप्नोति ॥ ५१ ॥ एवमभ्यस्यतस्तस्य वायुमार्गे दिवानिशम्। अभ्यासाज्जीर्यते वायुर्मनस्तत्रैव लीयते ॥ ५२ ॥ एवमुक्तप्रकारेण वायुमार्गे प्राणमार्गे सुषुम्नायामित्यर्थः। दिवानिशं रात्रिंदिवमभ्यस्यतोऽभ्यासं कुर्वतो योगिनोऽभ्यासाद् यत्र यस्मिन्नाधारे वायुः प्राणो जीर्यते क्षीयत लीयत इत्यर्थः। तत्रैव वायोर्लयाधिष्ठाने मनश्चित्तं लीयते जीर्यत इत्यर्थः ॥ ५२ ॥ अमृतैः प्लावयेद् देहमापादतलमस्तकम्। सिद्ध्यत्येव महाकायो महाबलपराक्रमः ॥ ५३ ॥ इति खेचरी ॥ अमृतैरिति। अमृतैः सुषिरनिर्गतैः पादतलं च मस्तकं च पादतलमस्तकम्। 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' (Pāṇ. II. 4. 2) इत्येकवद्भावः। पादतल-

हठयोगप्रदीपिका १५७ मस्तकमभिव्याप्येत्यापादतलमस्तकं देहमाप्लावयेदाप्लावितं कुर्यात् । महानुत्कृष्टः कायो यस्य स महाकायः महान्तौ बलपराक्रमौ यस्येत्येतादृशो योगी सिद्धयत्येव, अमृताप्लावनेन सिद्धो भवत्येव ॥ ५३ ॥ शक्तिमध्ये मनः कृत्वा शक्तिं मानसमध्यगाम् । मनसा मन आलोक्य धारयेत् परमं पदम् ॥ ५४ ॥ शक्तिरिति । शक्तिः कुण्डलिनी तस्या मध्ये मनः कृत्वा तस्यां मनो धृत्वा तदाकारं मनः कृत्वेत्यर्थः । शक्तिं मानसमध्यगां कृत्वा । शक्तिध्यानावेशाच्छक्ति- मनसोरत्यन्तैक्यं कृत्वा तेन कुण्डलीं बोधयित्वेति यावत् । 'प्रबुद्धा वह्नियोगेन मनसा मरुता सह ' इति गोरक्षोक्तेः (31) । मनसान्तःकरणेन मनः आलोक्य बुद्धिं मनसोऽवलोकनेन स्थिरीकृत्येत्यर्थः । परमं पदं सर्वोत्कृष्टं स्वरूपं धारयेद् धारणाविषयं कुर्यादित्यर्थः ॥ ५४ ॥ खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु । सर्वं च खमयं कृत्वा न किंचिदपि चिन्तयेत् ॥ ५५ ॥ खमध्य इति । खमिव पूर्णं ब्रह्म खं तन्मध्ये आत्मानं स्वस्वरूपं कुरु । ब्रह्माहमिति भावयेत्यर्थः । आत्ममध्ये स्वस्वरूपे च खं पूर्णं ब्रह्म कुरु । अहं ब्रह्मेति च भावयेत्यर्थः । सर्वं च खमयं कृत्वा ब्रह्ममयं विभाव्य किमपि न चिन्तयेत् । अहं ब्रह्मेति ध्यानमपि परित्यजेदित्यर्थः ॥ ५५ ॥ अन्तः शून्यो बहिः शून्यः शून्यः कुम्भ इवाम्बरे । अन्तः पूर्णो बहिः पूर्णः पूर्णः कुम्भ इवार्णवे ॥ ५६ ॥ एवं समाहितस्य स्वरूपे स्थितिमाह—अन्तःशून्य इति । अन्तः अन्तःकरणे शून्यः । ब्रह्मातिरिक्तवृत्तेरभावाद् द्वितीयशून्यः । बहिरन्तःकरणाद्

३. तृतीय उपदेश: मुद्रा, बन्ध व कुण्डलिनी-जागरण

१५८ हठयोगप्रदीपिका बहिरपि शून्यः । द्वितीयादर्शनात् । अम्बरे आकाशे कुम्भो घटो यथान्तर्बहिः- शून्यस्तद्वदन्तः अन्तःकरणे हृदाकाशे वा पूर्णः व्याप्तत्वाद् ब्रह्माकारवृत्तेः सद्भावाद् ब्रह्मसत्त्वाद्वा । बहिःपूर्णोऽन्तःकरणाद् बहिर्हृदाकाशाद् बहिर्वा पूर्णः । सत्त्या ब्रह्मातिरिक्तवृत्तेर्भावाद् ब्रह्मपूर्णत्वाद्वा । अर्णवे समुद्रे कुम्भो घटो यथा सर्वतो जलपूर्णो भवत्येवं समाधिनिष्ठो योगी ब्रह्मपूर्णो भवतीत्यर्थः ॥ ५६ ॥ बाह्यचिन्ता न कर्तव्या तथैवान्तरचिन्तनम् । सर्वचिन्तां परित्यज्य न किंचिदपि चिन्तयेत् ॥ ५७ ॥ बाह्यचिन्तेति । समाहितेन योगिनेत्यध्याहारः । बाह्यचिन्ता बाह्यविषय- चिन्ता न कर्तव्या । तथैव बाह्यचिन्ताकरणवदान्तरचिन्तनमान्तराणां मनसा परिकल्पितानामाशामोदकसौधवाटिकादीनां चिन्तनं न कर्तव्यमिति लिङ्गवि- परिणामेनान्वयः । सर्वचिन्तां बाह्याभ्यन्तरचिन्तनं परित्यज्य किंचिदपि न चिन्तयेत् परवैराग्येणात्माकारवृत्तिमपि परित्यजेत् । तत्यागे स्वरूपावस्थितिरूपा जीवन्मुक्तिर्भवतीति भावः ॥ ५७ ॥ संकल्पमात्रकलनैव जगत् समग्रं संकल्पमात्रकलनैव मनोविलासः । संकल्पमात्रमतिमुत्सृज निर्विकल्प- माश्रित्य निश्चयम्वाप्नुहि राम शान्तिम् ॥ ५८ ॥ बाह्याभ्यन्तरचिन्तापरित्यागे शान्तिश्च भवतीत्यत्र वसिष्ठवाक्यं प्रमाण- यति—संकल्पेति । संकल्पो मानसिको व्यापारः स एव संकल्पमात्रं तस्य कलनैव रचनैवेदं दृश्यमानं समग्रं जगत् । बाह्यप्रपञ्चो मनोमात्रकल्पित इत्यर्थः । मनसो मानसस्य विलासो नानाविषयाकारकल्पना आशामोदकसौधवाटिकादि-

हठयोगप्रदीपिका १५९ कल्पनारूपो विलासः संकल्पमात्रकलनैव । मानसः प्रपञ्चोऽपि संकल्पमात्ररचनै- वेत्यर्थः । संकल्पमात्रे बाह्याभ्यन्तरप्रपञ्चे या मतिः सत्यत्वबुद्धिस्तामुत्सृज त्यज । तर्हि किं कर्तव्यमित्यत आह—निर्विकल्पेति । विशिष्टः कल्पो विकल्पः । आत्मनि कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वसजातीयविजातीयस्वगतभेददेशकालवस्तुपरिच्छेद - कल्पनारूपः, तस्मान्निष्क्रान्तो निर्विकल्पः आत्मा तमाश्रित्य धारणादिविषयं कृत्वा हे राम निश्चयमसंदिग्धं शान्तिं परमोपरतिमवाप्नुहि । ततः सुखमपि प्राप्स्यसीति भावः । तदुक्तं भगवता व्यतिरेकेण । 'न चाभावयतः शान्ति- रशान्तस्य कुतः सुखम्' (B.G. II. 66) इति ॥ ५८ ॥ कर्पूरमनले यद्वत् सैन्धवं सलिले यथा । तथा संधीयमानं च मनस्तत्त्वे विलीयते ॥ ५९ ॥ कर्पूरमिति । यद्वद् यथा अनलेऽग्नौ संधीयमानं संयोज्यमानं कर्पूरं विली- यते विशेषेण लीयते लीनं भवति । अग्न्याकारं भवति । यथा सलिले जले संधीय- मानं सैन्धवं लवणं विलीयते लवणाकारं परित्यज्य जलाकारं भवति तथा तद्वत् तत्त्वे आत्मनि संधीयमानं धार्यमाणं मनो विलीयते आत्माकारं भवति ॥ ५९ ॥ ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते । ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था द्वितीयकः ॥ ६० ॥ मनसो विलये जाते द्वैतमपि लीयत इत्याह त्रिभिः—ज्ञेयमिति । सर्वं सकलं ज्ञेयं ज्ञानाहं प्रतीतं च ज्ञातं च ज्ञानं च इदं सर्वं मन उच्यते । सर्वस्य मनःकल्पनामात्रत्वान्मनःशब्देनोच्यते । ज्ञानं ज्ञेयं च समं मनसो विलये मनसा सार्धं नष्टं यदि तर्हि द्वितीयकः द्वितीय एव द्वितीयकः पन्था मनोविषयो नास्ति । द्वैतं नास्तीति फलितार्थः ॥ ६० ॥

१६० हठयोगप्रदीपिका मनोदृश्यमिदं सर्वं यत्किंचित् सचराचरम् । मनसो ह्युन्मनीभावाद् द्वैतं नैवोपलभ्यते ॥ ६१ ॥ मनोदृश्यमिति । इदमुपलभ्यमानं यत्किंचिद् यत्किमपि चरं जङ्गममचरं स्थावरं चरं चाचरं च चराचरे ताभ्यां सह वर्तत इति सचराचरं यज्जगत् तत्सर्वं मनोदृश्यं मनसा दृश्यम् । मनःसंकल्पमात्रमित्यर्थः । मनःकल्पनासत्त्वे प्रतीतेस्तदभावे चाप्रतीतेर्भ्रम एव सर्वं जगत् । भ्रमस्य प्रातीतिकशरीरत्वात् । न च बौद्धमतप्रसङ्गः । भ्रमाधिष्ठानस्य ब्रह्मणः सत्यत्वाभ्युपगमात् । मनस उन्मनीभावाद् विलयाद् द्वैतं भेदः नैवोपलभ्यते नैव प्रतीयते । द्वैतभ्रमहेतोर्मनःसंकल्पस्याभावात् । हीति हेतावव्ययम् ॥ ६१ ॥ ज्ञेयवस्तुपरित्यागाद् विलयं याति मानसम् । मनसो विलये जाते कैवल्यमवशिष्यते ॥ ६२ ॥ ज्ञेयेति । ज्ञेयं ज्ञानविषयं यद्वस्तु सर्वं चराचरं यद् दृश्यं तस्य परित्यागान्नामरूपात्मकस्य तस्य परिवर्जनाद् मानसं विलयं याति सच्चिदानन्द- रूपात्माकारं भवति । मनसो विलये जाते सति कैवल्यं केवलस्यात्मनो भावः कैवल्यमवशिष्यते । अद्वितीयात्मस्वरूपमेव शिष्टं भवतीत्यर्थः ॥ ६२ ॥ एवं नानाविधोपायाः सम्यक् स्वानुभवान्विताः । समाधिमार्गाः कथिताः पूर्वाचार्यैर्महात्मभिः ॥ ६३ ॥ एवमिति । एवम् 'अन्तर्लक्ष्यं बहिर्दृष्टिः' (IV. 36) इत्याद्युक्त- प्रकारेण महान् समाधिपरिशीलनशुद्ध आत्मान्तःकरणं येषां ते महात्मान- स्तैर्महात्मभिः पूर्वे च ते आचार्याश्च पूर्वाचार्या मत्स्येन्द्रादयस्तैः समाधे- श्चित्तवृत्तिनिरोधस्य मार्गाः प्राप्त्युपायाः कथिताः । कीदृशाः समाधिमार्गाः ?

हठयोगप्रदीपिका १६१ नानाविधोपायाः नानाविधा उपायाः साधनानि येषां ते तथा सम्यक् समीचीनतया संशयविपर्ययराहित्येन यः स्वानुरूप आत्मानुभवस्तेनान्विता युक्ताः ॥ ६३ ॥ सुषुम्नायै कुण्डलिन्यै सुधायै चन्द्रजन्मने । मनोन्मन्यै नमस्तुभ्यं महाशक्त्यै चिदात्मने ॥ ६४ ॥ सुषुम्नादिभ्यः कृतकृत्यस्ताः प्रणमति—सुषुम्नायै इति । सुषुम्ना मध्यनाडी तस्यै कुण्डलिन्यै आधारशक्त्यै चन्द्राद् भ्रूमध्यस्थाज्जन्म यस्यास्तस्यै सुधायै पीयूषाय मनोन्मन्यै तुर्यावस्थायै चिच्चैतन्यमात्मा स्वरूपं यस्याः सा तथा तस्यै महती जडानां कायेन्द्रियमनसां चैतन्यसंपादकत्वात् सर्वोत्तमा या शक्तिश्चिच्छक्तिः पुरुषरूपा तस्यै । तुभ्यमिति प्रत्येकं संबध्यते । नमः प्रह्वीभावोऽस्तु ॥ ६४ ॥ अशक्यतत्त्वबोधानां मूढानामपि संमतम् । प्रोक्तं गोरक्षनाथेन नादोपासनमुच्यते ॥ ६५ ॥ नानाविधान् समाध्युपायानुक्त्वा नादानुसंधानरूपं मुख्योपायं प्रतिजा- नीते—अशक्येति । अव्युत्पन्नत्वादशक्यस्तत्त्वबोधस्तत्त्वज्ञानं येषां ते तथा तेषां मूढानामनधीतानां संमतम् । अपिशब्दात् किमुताधीतानामिति गम्यते । गोरक्षनाथेन प्रोक्तमित्यनेन महदुक्तत्वादुपादेयत्वं गम्यते । नादस्यानाहत- ध्वनेरुपासनमनुसंधानरूपं सेवनमुच्यते कथ्यते ॥ ६५ ॥ श्रीआदिनाथेन सपादकोटिलयप्रकाराः कथिता जयन्ति । नादानुसंधानकमेकमेव मन्यामहे मुख्यतमं लयानाम् ॥ ६६ ॥ 11

१६२ हठयोगप्रदीपिका श्रीआदिनाथेनेति । श्रीआदिनाथेन शिवेन कथिताः प्रोक्ताः पादेन चतुर्थांशेन सह वर्तमानाः कोटिसंख्याका लयप्रकाराश्चित्तलयसाधनभेदा जयन्ति, उत्कर्षेण वर्तन्ते । वयं तु नादानुसंधानकं नादानुचिन्तनमेव एकं केवलं लयानां लयसाधनानां मध्ये मुख्यतममतिशयेन मुख्यं मन्यामहे जानीमहे । उत्कृष्टांनां लयसाधनानां मध्ये उत्कृष्टतमत्वाद् गोरक्षाभिमतत्वादस्मदभिमतत्वाच्च नादानुसंधानमेव अवश्यं विधेयमिति भावः ॥ ६६ ॥ मुक्तासने स्थितो योगी मुद्रां संधाय शांभवीम् । शृणुयाद् दक्षिणे कर्णे नादमन्तस्थमेकधीः ॥ ६७ ॥ शांभवीमुद्रया नादानुसंधानमाह—मुक्तासन इति । मुक्तासने सिद्धासने स्थितो योगी शांभवीं मुद्राम् ‘ अन्तर्लक्ष्यं बहिर्दृष्टिः' (IV. 36) इत्यादिनोक्तां संधाय कृत्वा । एकधीरेकाग्रचित्तः सन् दक्षिणे कर्णेऽन्तस्थं सुषुम्ना- नाड्यां सन्तमेव नादं शृणुयात् । तदुक्तं त्रिपुरासारसमुच्चये— ‘ आदौ मत्तालिमालाजनितरवसमस्तारझंकारकारी नादोऽसौ वांशिकस्यानिलभरितलसद्वंशनिःस्वानतुल्यः । घण्टानादानुकारी तदनु च जलधिध्वानधीरो गभीरो गर्जत्पर्जन्यघोषः पर इह कुहरे वर्तते ब्रह्मनाड्याः ॥ ’ इति ॥ ६७ ॥ श्रवणपुटनयनयुगलघ्राणमुखानां निरोधनं कार्यम् । शुद्धसुषुम्नासरणी स्फुटममलः श्रूयते नादः ॥ ६८ ॥ षण्मुखीमुद्रया नादानुसंधानमाह—श्रवणेति । श्रवणपुटे नयन- योर्न्नेत्रयोर्युगलं युग्मं घ्राणशब्देन घ्राणपुटे मुखमास्यम् । एषां द्वन्द्वे प्राण्यङ्गत्वा-

हठयोगप्रदीपिका १६३ द्येकवद्भावे प्राप्तेऽपि सर्वस्यापि द्वन्द्वैकवद्भावस्य वैकल्पिकत्वान्न भवति । तेषां निरोधनं कराङ्गुलीभिः कार्यम् । निरोधनं चेत्थम्— ‘ अङ्गुष्ठाभ्यामुभौ कर्णौ तर्जनीभ्यां च चक्षुषी । नासापुटौ तथान्याभ्यां प्रच्छाद्य करणानि च ॥’ इति । चकारात् तदन्याभ्यां मुखं प्रच्छाद्येति समुच्चीयते । शुद्धा प्राणायामैर्मलरहिता या सुषुम्नासरणिः सुषुम्नापद्धतिस्तस्याममलो नादः स्फुटं व्यक्तं श्रूयते ॥ ६८ ॥ आरम्भश्च घटश्चैव तथा परिचयोऽपि च । निष्पत्तिः सर्वयोगेषु स्यादवस्थाचतुष्टयम् ॥ ६९ ॥ अथ नादस्य चतस्रोऽवस्थाः प्राह—आरम्भश्चेति । आरम्भावस्था घटावस्था परिचयावस्था निष्पत्त्यवस्था इति । सर्वयोगेषु सर्वेषु चित्तवृत्तिनिरोधो- पायेषु शाम्भव्यादिषु अवस्थांचतुष्टयं स्यात् । चचैवतथापिचाः पादपूर- णार्थाः ॥ ६९ ॥ अथारम्भावस्था— ब्रह्मग्रन्थेर्भवेद्भेदो ह्यानन्दः शून्यसंभवः । विचित्रः क्वणको देहेऽनाहतः श्रूयते ध्वनिः ॥ ७० ॥ तत्रारम्भावस्थामाह—ब्रह्मग्रन्थेरिति । ब्रह्मग्रन्थेरनाहतचक्रे वर्तमानाया भेदः प्राणायामाभ्यासेन भेदनं यदा भवेत् तदेति; यत्तदोरध्याहारः । आनन्दयतीत्यानन्दः आनन्दजनकः शून्ये हृदाकाशे संभवतीति शून्यसंभवो हृदाकाशोत्पन्नो विचित्रो नानाविधः क्वणो भूषणनिनदः स एव क्वणकः । भूषणनिनदसदृश इत्यर्थः । ‘भूषणानां तु शिञ्जितम् । निक्वाणो निक्कणः क्वाण

१६४ हठयोगप्रदीपिका क्कणः क्वणनमित्यपि' (I. 7. 3) इत्यमरः । अनाहतो ध्वनिरनाहतो निर्ह्रादो देहे देहमध्ये श्रूयते श्रवणविषयो भवतीत्यर्थः ॥ ७० ॥ दिव्यदेहश्च तेजस्वी दिव्यगन्धस्त्वरोगवान् । संपूर्णहृदयः शून्य आरम्भे योगवान् भवेत् ॥ ७१ ॥ दिव्यदेह इति । शून्ये हृदाकाशे य आरम्भो नादारम्भस्तस्मिन् सति हृदाकाशविशुद्धयाकाशशून्यमध्याकाशाः शून्यातिशून्यमहाशून्यशब्दैर्व्यवह्रियन्ते योगिभिः । संपूर्णहृदयः प्राणवायुना सम्यक् पूर्णं हृदयं यस्य स तथा आनन्देन पूर्णे हृदये योगवान् योगी दिव्यो रूपलावण्यबलसंपन्नो देहो यस्य सः दिव्यदेहः तेजस्वी प्रतापवान् दिव्यगन्धः दिव्य उत्तमो गन्धो यस्य स तथा अरोगवान् रोगरहितो भवेदिति संबन्धः ॥ ७१ ॥ अथ घटवस्था— द्वितीयायां घटीकृत्य वायुर्भवति मध्यगः । दृढासनो भवेद् योगी ज्ञानी देवसमस्तदा ॥ ७२ ॥ घटवस्थामाह—द्वितीयायामिति । द्वितीयायां घटवस्थायां वायुः प्राणः घटीकृत्य आत्मना सहापानं नादबिन्दू चैकीकृत्य मध्यगो मध्यचक्रगतः कण्ठस्थाने मध्यचक्रम् । तदुक्तमत्रैव जालंधरबन्धे—' मध्यचक्रमिदं ज्ञेयं षोडशाधारबन्धनम्' (III. 73) इति । यदा भवेदित्यध्याहारः । तदास्यामव- स्थायां योगी योगाभ्यासी दृढमासनं यस्य स दृढासनः स्थिरासनो ज्ञानी पूर्वापेक्षया कुशलबुद्धिर्देवसमो रूपलावण्याधिक्याद् देवतुल्यो भवेत् । तदुक्त- मीश्वरोक्ते राजयोगे—

हठयोगप्रदीपिका १६५ 'प्राणापानौ नादबिन्दू जीवात्मपरमात्मनोः । मिलित्वा घटते यस्मात् तस्मात् स घट उच्यते ॥ ' इति ॥ ७२ ॥ विष्णुग्रन्थेस्ततो भेदात् परमानन्दसूचकः । अतिशून्ये विमर्दश्च भेरीशब्दस्तदा भवेत् ॥ ७३ ॥ विष्णुग्रन्थेरिति । ततो ब्रह्मग्रन्थिभेदनानन्तरं विष्णुग्रन्थेः कण्ठे वर्तमानाया भेदात् कुम्भकैर्भेदानात् परमानन्दस्य भाविनो ब्रह्मानन्दस्य सूचको ज्ञापकः । अतिशून्ये कण्ठावकाशे विमर्दोऽनेकनादसंमर्दो भेर्याः शब्द इव शब्दो भेरीशब्दो भेरीनादश्च तदा तस्मिन् काले भवेत् ॥ ७३ ॥ तृतीयायां तु विज्ञेयो विहायोमर्द्दलध्वनिः । महाशून्यं तदा याति सर्वसिद्धिसमाश्रयम् ॥ ७४ ॥ परिचयावस्थामाह सार्द्धद्वाभ्याम्—तृतीयायामिति । तृतीयायां परिचया- वस्थायां विहायोमर्द्दलध्वनिर्विहायसि भ्रूमध्याकाशे मर्द्दलस्य वाद्यविशेषस्य ध्वनिरिव ध्वनिुर्विज्ञेयो विशेषेण ज्ञानार्हो भवति । तदा तस्यामवस्थायां सर्वसिद्धिसमाश्रयं सर्वासां सिद्धीनामणिमादीनां समाश्रयं स्थानम् । तत्र संयमादणिमादिप्राप्तेः महाशून्यं भ्रूमध्याकाशं याति गच्छति प्राण इति शेषः ॥ ७४ ॥ चित्तानन्दं तदा जित्वा सहजानन्दसंभवः । दोषदुःखजराव्याधिक्षुधानिद्राविवर्जितः ॥ ७५ ॥ चित्तानन्दमिति । चित्तानन्दं नादविषयान्तःकरणवृत्तिजन्यं सुखं जित्वाभि- भूय सहजानन्दसंभवः सहजानन्दः स्वाभाविकमात्मसुखं तस्य संभव आविर्भावः सः, दोषा वातपित्तकफा दुःखं तज्जन्या वेदना आध्यात्मिकापि च जरा

१६६ हठयोगप्रदीपिका वृद्धावस्था व्याधिर्ज्वरादिः क्षुधा बुभुक्षा निद्रा स्वाप एताभिर्विवर्जितो रहितस्तदा योगी भवतीति ॥ ७५ ॥ रुद्रग्रन्थिं यदा भित्त्वा शर्वपीठगतोऽनिलः । निष्पत्तौ वैष्णवः शब्दः क्वणद्वीणाक्वणो भवेत् ॥ ७६ ॥ तदा, कदेत्यपेक्षायामाह—रुद्रेति । यदा रुद्रग्रन्थिं भित्त्वा, आज्ञाचक्रे रुद्रग्रन्थिः शर्वस्येश्वरस्य पीठं स्थानं भ्रूमध्यं तत्र गतः प्राप्तोऽनिलः प्राणो भवति, तदा निष्पत्त्यवस्थामाह—निष्पत्ताविति । निष्पत्तौ निष्पत्त्यवस्थायाम् । ब्रह्मरन्ध्रे गते प्राणे निष्पत्त्यवस्था भवति । वैष्णवः वेणोरयं वैष्णवो वंशसंबन्धी शब्दो निनादः क्वणन्ती शब्दायमाना या वीणा तस्याः क्वणः शब्दो भवेत् ॥ ७६ ॥ एकीभूतं तदा चित्तं राजयोगाभिधानकम् । सृष्टिसंहारकर्तासौ योगीश्वरसमो भवेत् ॥ ७७ ॥ तदा तस्यामवस्थायां चित्तमन्तःकरणमेकीभूतमेकविषयीभूतम् । विषय- विषयिणोरभेदोपचारात् । तद्राजयोगाभिधानकं राजयोग इत्यभिधानं यस्य तद्राजयोगाभिधानकं चित्तस्यैकाग्रतैव राजयोग इत्यर्थः । सृष्टिसंहारेति । असौ नादानुसंधानपरो योगी सृष्टिसंहारकर्ता सृष्टिं संहारं च करोतीति तादृशः । अत एवेश्वरसम ईश्वरतुल्यो भवेत् ॥ ७७ ॥ अस्तु वा मास्तु वा मुक्तिरत्रैवाखण्डितं सुखम् । लयोद्भवमिदं सौख्यं राजयोगादवाप्यते ॥ ७८ ॥ राजयोगमजानन्तः केवलं हठकर्मिणः । एतानभ्यासिनो मन्ये प्रयासफलवर्जितान् ॥ ७९ ॥ अस्तु वेति । राजयोगमिति । उभौ प्राग् व्याख्यातौ ॥ ७८-७९ ॥

हठयोगप्रदीपिका १६७ उन्मन्यवाप्तये शीघ्रं भ्रूध्यानं मम संमतम् । राजयोगपदं प्राप्तुं सुखोपायोऽल्पचेतसाम् । सद्यः प्रत्ययसंधायी जायते नादजो लयः ॥ ८० ॥ उन्मन्यवाप्तय इति । शीघ्रं त्वरितमुन्मन्या उन्मन्यवस्थाया अवाप्तये प्राप्यर्थं भ्रूध्यानं भ्रुवोर्ध्यानं भ्रूमध्ये ध्यानं मम स्वात्मारामस्य संमतम् । राज- योगो योगानां राजा तदेव पदं राजयोगपदं तुर्यावस्थाख्यं प्राप्तुं लब्धुं पूर्वोक्त- भ्रूध्यानरूपः सुखोपायः सुखसाध्य उपायः सुखोपायः अल्पचेतसामल्पबुद्धीना- मपि । किमुतान्येषामित्यभिप्रायः । नादजः नादाज्जातो लयश्चित्तविलयः सद्यः शीघ्रं प्रत्ययं प्रतीतिं संदधातीति प्रत्ययसंधायी प्रतीतिकरो जायते प्रादुर्भवति ॥ ८० ॥ नादानुसंधानसमाधिभाजां योगीश्वराणां हृदि वर्धमानम् । आनन्दमेकं वचसामगम्यं जानाति तं श्रीगुरुनाथ एकः ॥ ८१ ॥ नादानुसंधानेति । नादस्यानाहतध्वनेरनुसंधानमनुचिन्तनं तेन समाधि- श्चित्तैकाग्र्यं तं भजन्तीति नादानुसंधानसमाधिभाजस्तेषाम् । योगिषु योगयुक्तेष्वी- श्वराः समर्थास्तेषाम् । हृदि हृदये वर्धत इति वर्धमानस्तं वर्धमानम् । वचसां वाचामगम्यम् इदमिति वक्तुमशक्यं तं योगशास्त्रप्रसिद्धमेकं मुख्यमानन्द- माह्लादमेकोऽनन्यः श्रीगुरुनाथः श्रीमान् गुरुरेव नाथो जानाति वेत्ति । एतेन नादानुसंधानानन्दो गुरुगम्य एवेति सूचितम् ॥ ८१ ॥ कर्णौ पिधाय हस्ताभ्यां यं शृणोति ध्वनिं मुनिः । तत्र चित्तं स्थिरीकुर्याद् यावत् स्थिरपदं व्रजेत् ॥ ८२ ॥ नादानुसंधानात् प्रत्याहारादिक्रमेण समाधिमाह—कर्णावित्यादिभिः । मुनिर्मननशीलो योगी हस्ताभ्यामित्यनेन हस्ताङ्गुष्ठौ लक्ष्येते । ताभ्यां कर्णौ

१६८ हठयोगप्रदीपिका श्रोत्रे विधाय । हस्ताङ्गुष्ठौ श्रोत्रविवरयोः कृत्वेत्यर्थः । यं ध्वनिमाहतनिःस्वनं शृणोत्याकर्णयति तत्र तस्मिन् ध्वनौ चित्तं स्थिरीकुर्यात्स्थिरं स्थिरं संपद्यमानं कुर्यात् । यावत् स्थिरं पदं स्थिरपदं तुर्याख्यं गच्छेत् । तदुक्तम् । ‘तुर्यावस्थाचिदमिव्यञ्जकनादस्य वेदनं प्रोक्तम्’ इति नादानुसंधानेन वायु- स्थैर्यमणिमादयोऽपि भवन्ति । उक्तं च त्रिपुरासारसमुच्चये— ‘विजितो भवतीह तेन वायुः सहजो यस्य समुत्थितः प्रणादः । अणिमादिगुणा भवन्ति तस्यामितपुण्यं च महागुणोदयस्य ॥ सुरराजतनूजवैरिरन्ध्रे विनिरुध्य स्वकराङ्गुलिद्वयेन । जलघेरिव धीरनादमन्तः प्रसरन्तं सहसा शृणोति मर्त्यः ॥’ इति । सुरराज इन्द्रस्तस्य तनूजोऽर्जुनस्तस्य वैरी कर्णस्तद्रन्ध्रे । स्पष्टमन्यत् ॥ ८२ ॥ अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिम् । पक्षाद् विक्षेपमखिलं जित्वा योगी सुखी भवेत् ॥ ८३ ॥ अभ्यस्यमान इति । अभ्यस्यमानोऽनुसंधीयमानोऽयं नादोऽनाहताख्यो बाह्यं ध्वनिं बहिर्भवं शब्दमावृणुते श्रुत्योरविषयं करोति । योगी नादाभ्यासी पक्षान्मासार्धादखिलं सर्वं विक्षेपं चित्तचाञ्चल्यं जित्वाऽभिभूय सुखी स्वानन्दी भवेत् ॥ ८३ ॥ श्रूयते प्रथमाभ्यासे नादो नानाविधो महान् । ततोऽभ्यासे वर्धमाने श्रूयते सूक्ष्मसूक्ष्मकः ॥ ८४ ॥ श्रूयत इति । प्रथमाभ्यासे पूर्वाभ्यासे नानाविधोऽनेकविधो महान् जलधिजीमूतभेर्यादिसदृशो नादोऽनाहतस्वनः श्रूयते आकर्ण्यते । ततोऽनन्तर-

हठयोगप्रदीपिका १६९ -मभ्यासे नादानुसंधानाभ्यासे वर्धमाने सति सूक्ष्मसूक्ष्मतः सूक्ष्मः सूक्ष्म एव श्रूयते श्रवणविषयो भवति ॥ ८४ ॥ आदौ जलधिजीमूतभेरीझर्झरसंभवाः । मध्ये मर्दलशङ्खोत्था घण्टाकाहलजास्तथा ॥ ८५ ॥ नानाविधं नादमाह द्वाभ्याम्—आदाविति । आदौ वायोर्ब्रह्मरन्ध्रगम- नसमये जलधिः समुद्रो जीमूतो मेघो भेरी वाद्यविशेषः, 'भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः (I. 8. 6) । झर्झरो वाद्यविशेषः । 'वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः । मर्दलः पणवो ऽन्येऽपि—' इत्यमरः (I. 8. 8) जलधिप्रमुखेभ्यः संभव इव संभवो येषां ते तथा मध्ये ब्रह्मरन्ध्रे वायोः स्थैर्यान्तरं मर्दलो वाद्यविशेषः शङ्खो जलजस्ताभ्यामुत्था इव मर्दलशङ्खोत्थाः । घण्टाकाहलौ वाद्यविशेषौ ताभ्यां जाता इव घण्टाकाहलजाः ॥ ८५ ॥ अन्ते तु किंकिणीवंशवीणाभ्रमरनिःस्वनाः । इति नानाविधा नादाः श्रूयन्ते देहमध्यगाः ॥ ८६ ॥ अन्ते त्विति । अन्ते तु प्राणस्य ब्रह्मरन्ध्रे बहुस्थैर्यान्तरं तु किंकिणी क्षुद्रघण्टिका वंशो वेणुः वीणा तन्त्री भ्रमरो मधुपः तेषां निःस्वना इव निःस्वनाः इति पूर्वोक्ता नानाविधा अनेकप्रकारका देहस्य मध्ये गताः प्राप्ताः श्रूयन्ते ॥ ८६ ॥ महति श्रूयमाणेऽपि मेघभेर्यादिके ध्वनौ । तत्र सूक्ष्मात् सूक्ष्मतरं नादमेव परामृशेत् ॥ ८७ ॥

१७० हठयोगप्रदीपिका महतीति । मेघश्च भेरी च ते आदी यस्य स मेघभेर्यादिकस्तस्मिन् । मेघभेरीशब्दौ तज्जन्यनिर्घोषपरौ । महति बृहति ध्वनौ निनादे श्रूयमाणे आकर्ण्यमाने सत्यपि तत्र तेषु नादेषु सूक्ष्मात् सूक्ष्मतरमतिसूक्ष्मं नादमेव परामृशेत् चिन्तयेत् । सूक्ष्मस्य नादस्य चिरस्थायित्वात् तत्रासक्तं चित्तं चिरं स्थिरीभवेदिति भावः ॥ ८७ ॥ घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने । रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत् ॥ ८८ ॥ घनमिति । घनं महान्तं नादं मेघभेर्यादिकमुत्सृज्य त्यक्त्वा सूक्ष्मे किंकिणीअमरादिस्वने वा सूक्ष्ममुत्सृज्य घने वा नादे रममाणं घन- सूक्ष्मान्यतरनादग्रहणपरित्यागाभ्यां क्रीडन्तमपि क्षिप्तं रजसात्यन्तचञ्चलं मनोऽन्यत्र विषयान्तरे न चालयेन्न प्रेरयेत् । क्षिप्तं मनो विषयान्तरासक्तं न समाधीयते, नादेष्वेव रममाणं तु समाधीयत इति भावः ॥ ८८ ॥ यत्रकुत्रापि वा नादे लगति प्रथमं मनः । तत्रैव सुस्थिरीभूय तेन सार्धं विलीयते ॥ ८९ ॥ यत्रेति । वा अथवा यत्रकुत्रापि नादे यस्मिन्कस्मिंश्चिद्धने सूक्ष्मे वा नादे प्रथमं पूर्वं मनो लगति लग्नं भवति तत्रैव तस्मिन्नेव नादे सुस्थिरीभूय सम्यक् स्थिरं भूत्वा तेन नादेन सार्धं साकं विलीयते लीनं भवतीत्यर्थः । अत्र पूर्ववाक्येन प्रत्याहारो द्वितीयेन धारणा तृतीयेन ध्यानद्वारा समाधिरुक्तः ॥ ८९ ॥ मकरन्दं पिबन् भृङ्गो गन्धं नापेक्षते यथा । नादासक्तं तथा चित्तं विषयान् नहि काङ्क्षते ॥ ९० ॥

हठयोगप्रदीपिका १७१ मकरन्दमिति । मकरन्दं पुष्परसं पिबन् धयन् भृङ्गो भ्रमरो गन्धं यथा नापेक्षते नेच्छति तथा नादासक्तं नाद आसक्तं चित्तमन्तःकरणं विषयान् विसिन्वन्त्यवबध्नन्ति प्रमातारं स्वसङ्गेनेति विषयाः स्रक्चन्दनवनितादयस्तान् न काङ्क्षते नेच्छति । हीति निश्चये ॥ ९० ॥ मनोमत्तगजेन्द्रस्य विषयोद्यानचारिणः । समर्थोऽयं नियमने निनादनिशिताङ्कुशः ॥ ९१ ॥ मन इति । विषयः शब्दादिरेवोद्यानं वनं तत्र चरतीति विषयोद्यानचारी तस्य मन एव मत्तगजेन्द्रो दुर्निवारत्वात् । तस्य निनाद एवानाहतध्वनिरेव निशिताङ्कुशः तीक्ष्णाङ्कुशः नियमने परावर्तने समर्थः शक्तः । एतैःश्लोकैः इन्द्रियाणां विषयेभ्यः प्रत्याहरणं प्रत्याहारः— 'चरतां चक्षुरादीनां विषयेषु यथाक्रमम् । यत्प्रत्याहरणं तेषां प्रत्याहारः प्रकीर्तितः ॥' इत्युक्तलक्षणः प्रत्याहारः प्रोक्तः ॥ ९१ ॥ बद्धं तु नादबन्धेन मनः संत्यक्तचापलम् । प्रयाति सुतरां स्थैर्यं छिन्नपक्षः खगो यथा ॥ ९२ ॥ बद्धं त्विति । नाद एव बन्धः बध्यतेऽनेनेति बन्धः बन्धनसाधनं तेन स्वशक्त्या स्वाधीनकरणेन बद्धं बन्धनमिव प्राप्तम् । नादधारणा- दावासक्तमित्यर्थः । अतएव सम्यक् त्यक्तं चापलं क्षणे क्षणे विषयग्रहण- परित्यागरूपं येन तत्तथा मनः सुतरां स्थैर्यं प्रयाति नितरां धारणामेति । तत्र दृष्टान्तमाह । छिन्नौ पक्षौ यस्य तादृशः खे गच्छतीति खगः पक्षी यथा । एतेन—

१७२ हठयोगप्रदीपिका ' प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम् । वशीकृत्य ततः कुर्याच्चित्तस्थानं शुभाश्रये ॥' शुभाश्रये चित्तस्थापनं धारणेत्युक्तलक्षणा धारणा प्रोक्ता ॥ ९२ ॥ सर्वचिन्तां परित्यज्य सावधानेन चेतसा । नाद एवानुसंधेयो योगसाम्राज्यमिच्छता ॥ ९३ ॥ सर्वचिन्तामिति । सर्वेषां बाह्याभ्यन्तरविषयाणां या चिन्ता चिन्तनं तां परित्यज्य त्यक्त्वा सावधानेनैकाग्रेण चेतसा योगानां साम्राज्यं सम्राजो भावः । योगशब्दोऽर्श आद्यजन्तः । राजयोगित्वमिति यावत् । इच्छता वाञ्छता पुंसा नाद एवानाहतध्वनिरेवानुसंधेयोऽनुचिन्तनीयः । नादाकारवृत्तिप्रवाहः कर्तव्य इत्यर्थः । एतेन— ' तद्रूपप्रत्ययैकाग्र्यसंततिश्चान्यनिस्पृहा । तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप ॥' तत्र 'प्रत्ययैकतानता ध्यानम्' (Yo. Sū., III. 2) इत्युक्तलक्षणं ध्यानमुक्तम् ॥ ९३ ॥ नादोऽन्तरङ्गसारङ्गबन्धने वागुरायते । अन्तरङ्गकुरङ्गस्य वधे व्याधायतेऽपि च ॥ ९४ ॥ नादोऽन्तरङ्गेति । नादः अन्तरङ्गं मन एव सारङ्गो मृगस्तस्य बन्धने चाञ्चल्यहरणे वागुरायते वागुरेवाचरति । वागुरा जालम् । यथा वागुरा बन्धनेन सारङ्गस्य चाञ्चल्यं हरति तथा नादोऽन्तरङ्गस्य स्वशक्त्या चाञ्चल्यं हरतीत्यर्थः । अन्तरङ्गं मन एव कुरङ्गो हरिणस्तस्य वधे नानावृत्त्युत्पादनापनयनमेव मनसो वधस्तस्मिन् व्याधायते व्याध इवाचरति । यथा व्याधो वागुराबद्धं मृगं हन्ति एवं नादोऽपि स्वासक्तं मनो हन्तीत्यर्थः ॥ ९४ ॥