हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
श्रीः हठयोगप्रदीपिका ज्योत्स्नायुता प्रथमोपदेशः श्रीआदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या । विभ्राजते प्रोन्नतराजयोगमारोढुमिच्छोरधिरोहिणीव ॥ १ ॥ श्रीगणेशाय नमः ॥ गुरुं नत्वा शिवं साक्षाद्ब्रह्मानन्देन तन्यते । हठप्रदीपिकाज्योत्स्ना योगमार्गप्रकाशिका ॥ इदानींतनानां सुबोधार्थमस्याः सुविज्ञाय गोरक्षसिद्धान्तहार्दम् । मया मेरुशास्त्रिप्रमुख्याभियोगात् स्फुटं कथ्यतेऽत्यन्तगूढोऽपि भावः ॥ मुमुक्षुजनहितार्थं राजयोगद्वारा कैवल्यफलां हठप्रदीपिकां विधित्सुः परमकारुणिकः स्वात्मारामयोगीन्द्रस्तत्प्रत्यूहनिवृत्तये हठयोगप्रवर्तक.श्रीमदादिनाथ- नमस्कारलक्षणं मङ्गलं तावदाचरति—श्रीआदिनाथायेत्यादिना । तस्मै श्रीआदि- नाथाय नमोऽस्त्वित्यन्वयः । आदिश्चासौ नाथश्च आदिनाथः सर्वेश्वरः । शिव इत्यर्थः । श्रीमानादिनाथः तस्मै श्रीआदिनाथाय । श्रीशब्द आदिर्यस्य सः
२ हठयोगप्रदीपिका श्रीआदिः, श्रीआदिश्चासौ नाथश्च श्रीआदिनाथः, तस्मै श्रीआदिनाथाय । श्रीनाथाय विष्णव इति वार्थः । श्रीआदिनाथायेत्यत्र यणभावस्तु, ‘अपि माषं मषं कुर्याच्छन्दोभङ्गं त्यजेद्गिराम्’ इति छन्दोविदां संप्रदायादुच्चारणसौष्ठवाच्चेति बोध्यम् । वस्तुतस्तु असंहितपाठस्वीकारापेक्षया श्रीआदिनाथायेति पाठस्वीकारेऽप्र- वृत्तनित्यविध्युद्देश्यतावच्छेदकानाक्रान्तत्वेन परिनिष्ठितत्वसंभवात् संप्रत्युदाहृत- दृष्टान्तद्वयस्यापीदृग्विषयवैषम्यात्, नित्यसाहित्यभङ्गजनितदोषस्य शाब्दिकाननुमत- त्वाच्चासंमृष्टविधेयांशतारूपदोषस्य साहित्यकारैरुक्तत्वेऽपि क्वचित् तैरप्यस्वीकृत- त्वेन शाब्दिकाचार्यैरेकाजित्यादौ कर्मधारयस्वीकारेण सर्वथानादृतत्वाच्च लाघ- वातिशय इति सुधियो विभावयन्तु । नमः प्रह्लीभावोऽस्तु । प्रार्थनायां लोट् । तस्मै; कस्मै इत्यपेक्षायामाह—येनेति । येन आदिनाथेन उपदिष्टा गिरिजायै हठयोगविद्या हश्च ठश्च हठौ सूर्यचन्द्रौ तयोर्योगो हठयोगः, एतेन हठशब्दवाच्ययोः सूर्यचन्द्राख्ययोः प्राणापानयोरैक्यलक्षणः प्राणायामो हठयोग इति हठयोगस्य लक्षणं सिद्धम् । तथा चोक्तं गोरक्षनाथेन सिद्धसिद्धान्तपद्धतौ— ‘हकारः कीर्तितः सूर्यष्ठकारश्चन्द्र उच्यते । सूर्याचन्द्रमसोर्योगाद्धठयोगो निगद्यते ॥’ इति । तत्प्रतिपादिका विद्या हठयोगविद्या, हठयोगशास्त्रमिति यावत् । गिरिजायै आदिनाथकृतो हठविद्योपदेशो महाकालयोगशास्त्रादौ प्रसिद्धः । प्रकर्षेण उन्नतः प्रोन्नतः । मन्त्रयोगहठयोगादीनामधरभूमीनामुत्तरभूमित्वाद्वाजयोगस्य प्रोन्नतत्वम् । राजयोगश्च सर्ववृत्तिनिरोधलक्षणोऽसंप्रज्ञातयोगः । तमिच्छोर्मुमुक्षो- रधिरोहिणीव, अधिरुह्यतेऽनयेत्यधिरोहिणी निःश्रेणीव विभ्राजते विशेषेण आजते शोभते । यथा प्रोन्नतसौधमारोढुमिच्छोरधिरोहिण्यनायासेन सौधप्रापिका भवति, एवं हठदीपिकापि प्रोन्नतराजयोगमारोढुमिच्छोरनायासेन राजयोगप्रापिका भवती- ति । उपमालंकारः । इन्द्रवज्राख्यं वृत्तम् ॥ १ ॥
हठयोगप्रदीपिका ३ प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना । केवलं राजयोगाय हठविद्योपदिश्यते ॥ २ ॥ एवं परमगुरुनमस्कारलक्षणं मङ्गलं कृत्वा विघ्नबाहुल्ये मङ्गलबाहुल्यस्या- प्यपेक्षितत्वात् स्वगुरुनमस्कारात्मकं मङ्गलमाचरन्नस्य ग्रन्थस्य विषयप्रयोजनादीन् प्रदर्शयति—प्रणम्येति । श्रीमन्तं गुरुं श्रीगुरुं नाथं श्रीगुरुनाथं, स्वगुरुमिति यावत् । प्रणम्य प्रकर्षेण भक्तिपूर्वकं नत्वा स्वात्मारामेण योगिना योगोऽस्या- स्तीति तेन । केवलं राजयोगाय केवलं राजयोगार्थं हठविद्योपदिश्यत इत्यन्वयः । हठविद्याया राजयोग एव मुख्यं फलं न सिद्धय इति केवलपदस्याभिप्रायः । सिद्धयस्त्वानुषङ्गिक्यः । एतेन राजयोगफलसहितो हठयोगोऽस्य ग्रन्थस्य विषयः । राजयोगद्वारा कैवल्यं चास्य फलम् । तत्कामश्चाधिकारी । ग्रन्थविषययोः प्रतिपाद्यप्रतिपादकभावः संबन्धः । ग्रन्थस्य कैवल्यस्य च प्रयोज्यप्रयोजकभावः संबन्धः । ग्रन्थाभिधेयस्य सफलयोगस्य कैवल्यस्य च साध्यसाधनभावः संबन्ध इत्युक्तम् ॥ २ ॥ भ्रान्त्या बहुमतध्वान्ते राजयोगमजानताम् । हठप्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ॥ ३ ॥ ननु मन्त्रयोगसगुणध्याननिर्गुणध्यानमुद्रादिभिरेव राजयोगसिद्धौ किं हठविद्योपदेशेनेत्याशङ्क्य व्युत्थितचित्तानां मन्त्रयोगादिभिः राजयोगासिद्धेर्हठयोगा- देव राजयोगसिद्धिं वदन् ग्रन्थं प्रतिजानीते—भ्रान्त्येति । मन्त्रयोगादिबहुमतरूपे ध्वान्ते गाढान्धकारे या भ्रान्तिर्भ्रमस्तया । तैस्तैरुपायै राजयोगार्थं प्रवृत्तस्य तत्र तत्र तदलाभात् । वक्ष्यति च—'हठं विना राजयोगः' (II. 76) इत्यादिना । तथा राजयोगमजानतां न जानन्तीत्यजानन्तः तेषामजानतां पुंसां, राजयोगज्ञानायेति शेषः । करोतीति करः कृपायाः करः कृपाकरः, कृपाया
४ हठयोगप्रदीपिका आकर इति वा तादृशः । अनेन हठप्रदीपिकाकरणे अज्ञानुकम्पैव हेतुरित्युक्तम् । स्वात्मन्यारमते इति स्वात्मारामः । हठस्य हठयोगस्य प्रदीपिकेव प्रकाशकत्वात् हठप्रदीपिका ताम् । अथवा हठ एव प्रदीपिका राजयोगप्रकाशकत्वात् , तां धत्ते विधत्ते, करोतीति यावत् । स्वात्माराम इत्यनेन ज्ञानस्य सप्तमभूमिकां प्राप्तो ब्रह्मविद्वरिष्ठ इत्युक्तम् । तथा च श्रुतिः—‘आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः' इति (Mund. Up., III. 1. 4) । सप्त भूमयश्चोक्ता योगवासिष्ठे— ‘ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता । विचारणा द्वितीया स्यात् तृतीया तनुमानसा ॥ सत्त्वापत्तिश्चतुर्थी स्यात् ततोऽसंसक्तिनामिका । पदार्थभाविनी षष्ठी सप्तमी तुर्यगा स्मृता ॥' अस्यार्थः । शुभेच्छा इत्याख्या यस्याः सा शुभेच्छाख्या । विवेकवैराग्ययुता शमादिपूर्विका तीव्रमुमुक्षा प्रथमा ज्ञानस्य भूमिः भूमिका उदाहृता कथिता, योगि- भिरिति शेषः । १ । विचारणा श्रवणमननात्मिका द्वितीया ज्ञानभूमिः स्यात् । २ । अनेकार्थग्राहकं मनो यदानेकार्थान् परित्यज्य सदेकार्थवृत्तिप्रवाहवद्भवति तदा तनु मानसं यस्यां सा तनुमानसा निदिध्यासनरूपा तृतीया ज्ञानभूमिः स्यादिति शेषः । ३ । इमास्तिस्रः साधनभूमिकाः । आसु भूमिषु साधक इत्युच्यते । तिसृभिर्भूमिकाभिः शुद्धसत्त्वेऽन्तःकरणेऽहं ब्रह्मास्मीत्याकारि- कापरोक्षवृत्तिरूपा सत्त्वापत्तिनामिका चतुर्थी ज्ञानभूमिः स्यात् । चतुर्थीयं फलभूमिः । अस्यां योगी ब्रह्मविदित्युच्यते । इयं संप्रज्ञातयोगभूमिका । ४ । वक्ष्यमाणास्तिस्रोऽसंप्रज्ञातयोगभूमयः । सत्त्वापत्तेरनन्तरा सत्त्वापत्तिसंज्ञिकायां भूमावुपस्थितासु सिद्धिषु असंसक्तस्यासंसक्तिनामिका पञ्चमी ज्ञानभूमिः स्यात् । अस्यां योगी स्वयमेव व्युत्तिष्ठते । एतां भूमिं प्राप्तो ब्रह्मविद्वर इत्युच्यते । ५ ।
हठयोगप्रदीपिका ५ परब्रह्मातिरिक्तमर्थं न भावयति यस्यां सा परार्थाभाविनी षष्ठी ज्ञानभूमिः स्यात् । अस्यां योगी परप्रबोधित एव व्युत्थितो भवति । एतां प्राप्तो ब्रह्मविद्वरीयानित्युच्यते । ६ । तुर्यगा नाम सप्तमी भूमिः स्मृता । अस्यां योगी स्वतः परतो वा न व्युत्थानं प्राप्नोति । एतां प्राप्तो ब्रह्मविद्वरिष्ठ इत्युच्यते । ७ । तत्र प्रमाणभूता श्रुतिरत्रैवोक्ता पूर्वम् । अयमेव जीवन्मुक्त इत्युच्यते, स एवात्र स्वात्मारामपदेनोक्त इत्यलं बहूक्तेन ॥ ३ ॥ हठविद्यां हि मत्स्येन्द्रगोरक्षाद्या विजानते । स्वात्मारामोऽथवा योगी जानीते तत्प्रसादतः ॥ ४ ॥ महत्सेवितत्वाद्धठविद्यां प्रशंसन् स्वस्यापि महत्सकाशाद्धठविद्यालाभाद्गौरवं द्योतयति—हठविद्यां हीति । हीति प्रसिद्धम् । मत्स्येन्द्रश्च गोरक्षश्च तौ आद्यौ येषां ते मत्स्येन्द्रगोरक्षाद्याः । आद्यशब्देन जालंधरनाथभर्तृहरिगोपीचन्दप्रभृतयो ग्राह्याः । ते हठविद्यां हठयोगविद्यां विजानते विशेषेण साधनलक्षणभेदफलैर्जानन्तीत्यर्थः । स्वात्मारामः स्वात्मारामनामा । अथवाशब्दः समुच्चये । योगी योगवान् तत्प्रसादतः गोरक्षप्रसादाज्जानीत इत्यन्वयः । परममहता ब्रह्मणापीय विद्या सेवितेत्यत्र योगियाज्ञवल्क्यस्मृतिः । ‘हिरण्यगर्भो योगस्य वक्ता नान्यः पुरा- तनः’ । वक्तृत्वं च मानसव्यापारपूर्वकं भवतीति मानसो व्यापारोऽर्थादागतः । तथाच श्रुतिः—‘यन्मनसा ध्यायति तद्वाचा वदति’ इति । भगवतेयं विद्या भागवतानुद्धवादीन् प्रत्युक्ता । शिवस्तु योगी प्रसिद्ध एव । एवं च सर्वोत्त- मैर्ब्रह्मविष्णुशिवैः सेवितेयं विद्या । न च ब्रह्मसूत्रकृता व्यासेन योगो निराकृत इति शङ्कनीयम् । प्रकृतिस्वातन्त्र्यचिद्भेदंशमात्रस्य निराकरणात् । न तु भावना- विशेषरूपयोगस्य । भावनायाश्च सर्वसंमतत्वात् तां विना सुखस्याप्यसंभवात् । तथोक्तं भगवद्गीतासु—
६ हठयोगप्रदीपिका 'नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥' इति । (II. 66) नारायणतीर्थैरप्युक्तम् । 'स्वातन्यसत्यत्वमुखं प्रधाने सत्यं च चिद्भेदगतं च वाक्यैः । व्यासो निराचष्ट न भावनाख्यं योगं स्वयंनिर्मितब्रह्मसूत्रैः ॥' 'अपि चात्मप्रदं योगं व्याकरोन्मतिमान् स्वयम् । भाषादिषु ततस्तत्र आचार्यप्रमुखैर्मतः ॥ मतो योगो भगवता गीतायामधिकोऽन्यतः । कृतः शुकादिभिस्तस्मादत्र सन्तोऽतिसादराः ॥' इति । 'वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥' इति भगवदुक्तेः (B. G., VIII. 28) । किं बहुना । 'जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते' इति वदता भगवता (B. G., VI. 44) योगजिज्ञासोरप्यौ- त्कृष्ट्यं वर्णितं किमुत योगिनः । नारदादिभक्तश्रेष्ठैर्यज्ञवल्क्यादिज्ञानिमुख्यैश्चास्याः सेवनाद् भक्तज्ञानिनामप्यविरुद्धेत्युपरम्यते ॥ ४ ॥ श्रीआदिनाथमत्स्येन्द्रशाबरानन्दभैरवाः । चौरङ्गीमीनगोरक्षविरूपाक्षबिलेशयाः ॥ ५ ॥ हठयोगे प्रवृत्तिं जनयितुं हठविद्यया प्राप्तैश्वर्यान् सिद्धानाह— श्रीआदिनाथेत्यादिना । आदिनाथः शिवः सर्वेषां नाथानां प्रथमो नाथः । ततो नाथ- संप्रदायः प्रवृत्त इति नाथसंप्रदायिनो वदन्ति । मत्स्येन्द्राख्यश्च आदिनाथशिष्यः । अत्रैवं किंवदन्ती—कदाचिदादिनाथः कस्मिंश्चिद् द्वीपे स्थितः तत्र विजनमिति मत्वा गिरिजायै योगमुपदिष्टवान् । तीर समीपनीरस्थः कश्चन मत्स्यः तं योगोपदेशं
श्रुत्वा एकाग्रचित्तो निश्चलकायोऽवतस्थे । तं तादृशं दृष्ट्वानेन योगः श्रुत इति तं मत्वा कृपालुरादिनाथो जलेन प्रोक्षितवान् । स च प्रोक्षणमात्राद्दिव्यकायो मत्स्येन्द्रः सिद्धोऽभूत् । तमेव मत्स्येन्द्रनाथ इति वदन्ति । शाबरनामा कश्चित् सिद्धः । आनन्दभैरवनामान्यः । एतेषामितरेतरद्वन्द्वः । छिन्नहस्तपादं पुरुषं हिन्दुस्थान- भाषायां चौरङ्गीति वदन्ति । कदाचिदादिनाथाल्लब्धयोगस्य भुवं पर्यटतो मत्स्येन्द्र- नाथस्य कृपावलोकनमात्रात् कुत्रचिदरण्येस्थितश्चौरङ्गश्चङ्कुरितहस्तपादो बभूव । स च तत्कृपया संजातहस्तपादोऽहमिति मत्वा तत्पादयोः प्रणिपत्य ममानुग्रहं कुर्विति प्रार्थितवान् । मत्स्येन्द्रोऽपि तमनुगृहीतवान् । तस्यानुग्रहाच्चौरङ्गीति प्रसिद्धः सिद्धः सोऽभूत् । मीनो मीननाथः, गोरक्षो गोरक्षनाथः, विरूपाक्षनामा बिलेशयनामा च । चौरङ्गीप्रभृतीनां द्वन्द्वसमासः ॥ ५ ॥ मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः । कोरण्टकः सुरानन्दः सिद्धपादश्च चर्षटिः ॥ ६ ॥ मन्थानः, भैरवः । योगीति मन्थानप्रभृतीनां सर्वेषां विशेषणम् ॥ ६ ॥ कानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः । कपाली विन्दुनाथश्च काकचण्डीश्वराह्वयः ॥ ७ ॥ काकचण्डीश्वर इत्याह्वयो नाम यस्य स तथा । अन्ये स्पष्टाः ॥ ७ ॥ अल्लामः प्रभुदेवश्च घोडाचोली च टिण्टिणिः । भानुकी नारदेवश्च खण्डः कापालिकस्तथा ॥ ८ ॥ तथाशब्दः समुच्चये ॥ ८ ॥ इत्यादयो महासिद्धा हठयोगप्रभावतः । खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते ॥ ९ ॥
८ हठयोगप्रदीपिका इति पूर्वोक्ता आदयो येषां ते तथा । आदिशब्देन तारानाथादयो ग्राह्याः । महान्तश्च ते सिद्धाश्च अप्रतिहतैश्वर्या इत्यर्थः । हठयोगस्य प्रभावात् सामर्थ्यादिति हठयोगप्रभावतः । पञ्चम्यास्तसिल् । कालो मृत्युः तस्य दण्डनं दण्डः देहप्राणवियोगानुकूलो व्यापारः तं खण्डयित्वा छित्त्वा मृत्युं जित्वेत्यर्थः । ब्रह्माण्डमध्ये विचरन्ति विशेषेणाव्याहतगत्या चरन्तीत्यर्थः । तदुक्तं भागवते । ‘ योगेश्वराणां गतिमाहुरन्तर्बहिखिलोक्याः पवनान्तरात्मनाम्’ इति ॥ ९ ॥ अशेषतापतप्तानां समाश्रयमठो हठः । अशेषयोगयुक्तानामाधारकमठो हठः ॥ १० ॥ हठस्याशेषतापनाशकत्वमशेषयोगसाधकत्वं च मठकमठरूपकेणाह— अशेषेति । अशेषाः आध्यात्मिकाधिभौतिकाधिदैविकभेदेन त्रिविधाः । तत्रा- ध्यात्मिकं द्विविधम् । शारीरं मानसं च । तत्र शारीरं दुःखं व्याधिजं, मानसं दुःखं कामादिजम् । आधिभौतिकं व्याघ्रसर्पादिजनितम् । आधिदैविकं ग्रहादिजनितम् । ते च ते तापाश्च तैस्तप्तानां संतप्तानां पुंसां हठो हठयोगः । सम्यगाश्रयत इति समाश्रयः, आश्रयः आश्रयभूतो मठः मठ इव । तथा हठः अशेषयोगयुक्तानाम्, अशेषयोगयुक्ताः मन्त्रयोगकर्मयोगादियुक्तास्तेषामाधारभूतः कमठः कमठ इव । यथा तरणिकिरणतापतप्तानां पुंसामाश्रयो मठः । एवं त्रिविधतापतप्तानां पुंसा- माश्रयो हठः । यथा च विश्वाधारः कमठः एवं निखिलयोगिनामाधारो हठ इत्यर्थः ॥ १० ॥ हठविद्यां परं गोप्या योगिना सिद्धिमिच्छता । भवेद् वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥ ११ ॥ अथाखिलविद्यापेक्षया हठविद्याया अतिगोप्यत्वमाह—हठविद्येति । सिद्धिमणिमाद्यैश्वर्यमिच्छता यद्वा सिद्धिं कैवल्यसिद्धिमिच्छता वाञ्छता योगिना
हठयोगप्रदीपिका ९ हठयोगविद्या परमत्यन्तं गोप्या गोपनीया गोपनार्हास्तीति । तत्र हेतुमाह । यतो गुप्ता हठविद्या वीर्यवत्यप्रतिहतैश्वर्यजननसमर्था स्यात् । कैवल्यजननसमर्था कैवल्यसिद्धिजननसमर्था वा स्यात् । प्रकाशिता प्रसिद्धिं गमिता तु निर्वीर्या । दीर्घकालसेवितापि अप्रतिहतैश्वर्यजननासमर्था कैवल्यसिद्धिजननासमर्था वा स्यात् । अथ योगाधिकारी । 'जिताक्षाय शान्ताय सक्ताय मुक्तौ विहीनाय दोषैरसक्ताय भुक्तौ । अहीनाय दोषैतरुक्तकर्त्रे प्रदेयो न देयो हठश्चेतरस्मै ॥' याज्ञवल्क्यः । 'विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः । यमैश्च नियमैर्युक्तः सर्वसङ्गविवर्जितः ॥' 'कृतविद्यो जितक्रोधः सत्यधर्मपरायणः । गुरुशुश्रूषणरतः पितृमातृपरायणः । स्वाश्रमस्थः सदाचारो विद्वद्भिंश्च सुशिक्षितः ॥' इति । 'शिश्नोदररतायैव न देयं वेषधारिणे' इति कुत्रचित् । अत्र योगचिन्ता- मणिकाराः—यद्यपि 'ब्राह्मणक्षत्रियविशां स्त्रीशूद्राणां च पावनम् । शान्तये कर्मणामन्यद्योगान्नास्ति विमुक्तये ॥' इत्यादि पुराणवाक्येषु प्राणिमात्रस्य योगेऽधिकार उपलभ्यते, तथापि मोक्षरूप- फलवति योगे विरक्तस्यैव अधिकार उचितः । तथा च वायुसंहितायाम्— 'दृष्टे तथानुश्रविके विरक्तं विषये मनः । यस्य तस्याधिकारोऽस्मिन् योगे नान्यस्य कस्यचित् ॥'
१० हठयोगप्रदीपिका सुरेश्वराचार्याः— ' इहामुत्र विरक्तस्य संसारं प्रजिहासतः । जिज्ञासोरेव कस्यापि योगेऽस्मिन्नधिकारिता ॥' इत्याहुः । वृद्धैरप्युक्तम्— ' नैतद्देयं दुर्विनीताय जातु ज्ञानं गुह्यं तद्धि सम्यक्फलाय । अस्थाने हि स्थाप्यमानैव वाचां देवी कोपान्निर्दहेन्नोऽचिराय ' इति ॥ ११ ॥ सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे । धनुःप्रमाणपर्यन्तं शिलाग्निजलवर्जिते । एकान्ते मठिकामध्ये स्थातव्यं हठयोगिना ॥ १२ ॥ अथ हठाभ्यासयोग्यं देशमाह सार्धेन—सुराज्य इति । राज्ञः कर्म भावो वा राज्यं तच्छोभनं यस्मिन् स सुराज्यः, तस्मिन् सुराज्ये । ' यथा राजा तथा प्रजाः' इति महदुक्तेः, राज्ञः शोभनत्वात् प्रजानामपि शोभनत्वं सूचितम् । धार्मिके धर्मवति । अनेन हठाभ्यासिनोऽनुकूलाहारादिलाभः सूचितः । सुभिक्ष इत्यनेना- नायासेन तल्लाभः सूचितः । निरुपद्रवे चौरव्याघ्राद्युपद्रवरहिते । एतेन देशस्य दीर्घकालवासयोग्यता सूचिता । धनुषः प्रमाणं धनुःप्रमाणं चतुर्हस्तमात्रं, तत्पर्यन्तम् । शिलाभिजलवर्जिते शिला प्रस्तरः अग्निर्वह्निः जलं तोयं तैर्वर्जिते रहिते । यत्रासनं ततश्चतुर्हस्तमात्रे शिलाग्निजलानि न स्युरित्यर्थः । तेन शीतोष्णादिविकाराभावः सूचितः । एकान्ते विजने । अनेन जनसमागमाभावात् कलहाद्यभावः सूचितः । जनसंमर्दे तु कलहादिकं स्यादेव । तदुक्तं भागवते—' वासे बहूनां कलहो भवेद्वार्ता द्वयोरपि' इति । तादृशे मठिकामध्ये । अल्पो मठो मठिका । अल्पीयसि कन् । तस्याः मध्ये हठयोगिना हठाभ्यासी योगी हठयोगी तेन । शाकपार्थि-
हठयोगप्रदीपिका ११ द्वादिवत् समासः । स्थातव्यं स्थातुं योग्यम् । मठिकामध्ये इत्यनेन शीतातपादिजनि- तक्लेशाभावः सूचितः । अत्र 'युक्ताहारविहारेण हठयोगस्य सिद्धये' इत्यर्धं केनचित्क्षिप्तवान्न व्याख्यातम् । मूलश्लोकानामेव व्याख्यानम् । एवमग्रेऽपि ये मया न व्याख्याता श्लोका हठप्रदीपिकायामुपलभ्येरन् ते सर्वे क्षिप्ता इति बोद्धव्यम् ॥ १२ ॥ अल्पद्वारमरन्ध्रगर्तविवरं नात्युच्चनीचायतं सम्यग्गोमयसान्द्रलिप्तममलं निःशेषजन्तूज्झितम् । बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितं प्रोक्तं योगमठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः ॥ १३ ॥ अथ मठलक्षणमाह—अल्पद्वारमिति । अल्पं द्वारं यस्मिन् तत्तादृशम् । रन्ध्रो गवाक्षादिः, गर्तो निम्नप्रदेशः, विवरो मूषकाहिबिलं ते न सन्ति यस्मिन् तत्तादृशम् । अत्युच्चं च तन्नीचं चात्युच्चनीचं, तच्च तदायतं चात्युच्चनीचायतम् । 'विशेषणं विशेष्येण बहुलम्' (Pāṇ., II. 1. 57) इत्यत्र बहुलग्रहणाद्विशेष- णानां कर्मधारयः । ननूच्चनीचायतशब्दानां भिन्नार्थकानां कथं कर्मधारयः । 'तत्पुरुषः समानाधिकरणः कर्मधारयः' (Pāṇ., I. 2. 42) इति तल्लक्षणादिति चेन्न । मठे तेषां सामानाधिकरण्यसंभवात् । न अत्युच्चनीचायतं नात्युच्चनीचायतं, नशब्देन समासान्नलोपाभावः, नेति पृथक्पदं वा । अत्युच्चे आरोहणे श्रमः स्यादतिनीचेऽवरोहणे श्रमो भवेत् । अत्यायते दूरं दृष्टिर्गच्छेत् तन्निराकरणार्थमुक्तं नात्युच्चनीचायतमिति । सम्यक् समीचीनतया गोमयेन गोपुरीषेण सान्द्रं यथा भवति तथा लिप्तम् । अमलं निर्मलम् । निःशेषा निखिला ये जन्तवो मशकम- त्कुणाद्यास्तैरुज्झितं त्यक्तं रहितम् । बाह्ये मठाद्बहिःप्रदेशे । मण्डपः- शाला- विशेषः, वेदिः परिष्कृता भूमिः, कूपो जलाशयविशेषः, तै रुचिरं रमणीयम् ।
१२ हठयोगप्रदीपिका प्राकारेण वरणेन सम्यग्वेष्टितं परितोभित्तियुक्तमित्यर्थः । हठाभ्यासिभिः हठयोगा- भ्यसनशीलैः सिद्धैः । इदं पूर्वोक्तमल्पद्वारादिकं योगमठस्य लक्षणं स्वरूपं प्रोक्तं कथितम् । नन्दिकेश्वरपुराणे त्वेवं मठलक्षणमुक्तम्— ‘ मन्दिरं रम्यविन्यासं मनोज्ञं गन्धवासितम् । धूपामोदादिसुरभि कुसुमोत्करमण्डितम् ॥ मुनितीर्थनदीवृक्षपद्मिनीशैलशोभितम् । चित्रकर्मनिबद्धं च चित्रभेदविचित्रितम् ॥ कुर्याद् योगगृहं धीमान् सुरम्यं शुभवर्त्मना । दृष्ट्वा चित्रगतांश्शान्तान् मुनीन् याति मनः शमम् ॥ सिद्धान् दृष्ट्वा चित्रगतान् मतिरभ्युद्यमे भवेत् । मध्ये योगगृहस्याथ लिखेत् संसारमण्डलम् ॥ इमशानं च महाघोरं नरकांश्च लिखेत् क्वचित् । तान् दृष्ट्वा भीषणाकारान् संसारे सारवर्जिते ॥ अनवसादो भवति योगी सिद्धयभिलाषुकः । पश्यंश्च व्याधितान् जन्तून् नतान् मतांश्चलुङ्कणान् ॥’ १३ ॥ एवंविधे मठे स्थित्वा सर्वचिन्ताविवर्जितः । गुरूपदिष्टमार्गेण योगमेव सदाभ्यसेत् ॥ १४ ॥ मठलक्षणमुक्त्वा मठे यत्कर्तव्यं तदाह—एवंविध इति । एवं पूर्वोक्ता विधा प्रकारो यस्य स तथा पूर्वोक्तलक्षण इत्यर्थः । तस्मिन् स्थित्वा स्थितिं कृत्वा सर्वा याश्चिन्तास्ताभिर्विशेषेण वर्जितो रहितोऽशेषचिन्तारहितः । गुरुणोपदिष्टो यो मार्गः हठाभ्यासप्रकाररूपस्तेन सदा नित्यं योगमेवाभ्यसेत् । एवशब्देनाभ्यासान्तरस्य योगे विघ्नकरत्वं सूचितम् । तदुक्तं योगबीजे—
हठयोगप्रदीपिका १३ 'मरुज्जयो यस्य सिद्धस्तं सेवेत गुरुं सदा । गुरुवक्त्रप्रसादेन कुर्यात् प्राणजयं बुधः ॥' राजयोगे— 'वेदान्ततर्कोक्तिभिरागमैश्च नानाविधैः शास्त्रकदम्बकैश्च । ध्यानादिभिः सत्करणैर्न गम्यश्चिन्तामणिर्ह्येकगुरुं विहाय ॥' स्कन्दपुराणे— 'आचार्ययोगसर्वस्वमवाप्य स्थिरधीः स्वयं । यथोक्तं लभते तेन प्राप्नोत्यपि च निर्वृतिम् ॥' सुरेश्वराचार्यः— 'गुरुप्रसादाल्लभते योगमष्टाङ्गसंयुतम् । शिवप्रसादाल्लभते योगसिद्धिं च शाश्वतीम् ॥' श्रुतिश्च— 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः' इति। (Śv. Up., VI. 23) 'आचार्यवान् पुरुषो वेद' इति च (Ch. Up., VI. 14. 2) ॥ १४ ॥ अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः । जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ॥ १५ ॥ अथ योगाभ्यासप्रतिबन्धकानाह—अत्याहार इति । अतिशयित आहारोऽत्याहारः, क्षुधापेक्षयाधिकभोजनम् । प्रयासः श्रमजननानुकूलो व्यापारः । प्रकृष्टो जल्पः प्रजल्पो बहुभाषणम् । शीतोदकेन प्रातःस्नाननक्तभोजनफलाहारादि- रूपनियमस्य ग्रहणं नियमाग्रहः । जनानां सङ्गो जनसङ्गः । कामादिजनकत्वात् ।
१४ हठयोगप्रदीपिका लोलस्य भावः लौल्यं चाञ्चल्यम् । षड्भिरत्याहारादिभिरभ्यासप्रतिबन्धाद् योगो विनश्यति विशेषेण नश्यति ॥ १५ ॥ उत्साहात् साहसाद् धैर्यात् तत्त्वज्ञानाच्च निश्चयात् । जनसङ्गपरित्यागात् षड्भिर्योगः प्रसिद्ध्यति ॥ १६ ॥ अथ योगसिद्धिकरानाह—उत्साहादिति । विषयप्रवणं चित्तं निरो- त्स्याम्येवेत्युद्यम उत्साहः । साध्यत्वासाध्यत्वे अपरिभाव्य सहसा प्रवृत्तिः साहसम् । यावज्जीवनं सेत्स्यत्येवेत्यखेदो धैर्यम् । विषया मृगतृष्णाजलवदसन्तः ब्रह्मैव सत्य- मिति वास्तविकं ज्ञानं तत्त्वज्ञानं, योगानां वास्तविकं ज्ञानं वा । शास्त्रगुरुवाक्येषु विश्वासो निश्चयः, श्रद्धेति यावत् । जनानां योगाभ्यासप्रतिकूलानां यः सङ्गस्तस्य परित्यागात् । षड्भिरेभिर्योगः प्रकर्षेणाविलम्बेन सिध्यतीत्यर्थः ॥ १६ ॥ अथ यमनियमाः— [अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा धृतिः । दयार्जवं मिताहारः शौचं चैव यमा दश ॥ तपः संतोष आस्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तवाक्यश्रवणं ह्रीमती च जपो हुतम् ॥ नियमा दश संप्रोक्ता योगशास्त्रविशारदैः ।] हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते । कुर्यात् तदासनं स्थैर्यमारोग्यं चाङ्गलाघवम् ॥ १७ ॥ आदावासनकथने संगतिं सामान्यतस्तत्फलं चाह—हठस्येति । हठस्य
- आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा । अथ नादानुसंधानम्' इति वक्ष्यमाणानि (I. 56) चत्वार्यङ्गानि । प्रत्याहारादिसमाध्यन्तानां नादानु-
हठयोगप्रदीपिका १५ संधानेऽन्तर्भावः । तन्मध्ये आसनस्य प्रथमाङ्गत्वात् पूर्वमासनमुच्यत इति संबन्धः । तदासनं स्थैर्यं देहस्य मनसश्चाञ्चल्यरूपरजोधर्मनाशकत्वेन स्थिरतां कुर्यात् । 'आसनेन रजो हन्ति' इति वाक्यात् । आरोग्यं चित्तविक्षेपकरोगा- भावः । रोगस्य चित्तविक्षेपकत्वमुक्तं पातञ्जलसूत्रे— 'व्याधिस्त्यानसंशयप्रमादा- लस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ' इति (I. 30) । अङ्गानां लाघवं लघुत्वम् । गौरवरूपतमोधर्मनाशकत्वमप्येते- नोक्तम् । चकारात् क्षुद्वृद्ध्यादिकमपि बोध्यम् ॥ १७ ॥ वसिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः । अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया ॥ १८ ॥ वसिष्ठादिसंमतासनमध्ये श्रेष्ठानि मयोच्यन्त इत्याह—वसिष्ठाद्यैरिति । वसिष्ठ आद्यो येषां याज्ञवल्क्यादीनां तैर्मुनिभिर्मननशीलैः । चकारान्मन्त्रादिपरैः । मत्स्येन्द्र आद्यो येषां जालन्धरनाथादीनां तैः । योगिभिः हठाभ्यासिभिः । चकारान्मुद्रादिपरैः । अङ्गीकृतानि चतुरशीत्यासनानि तन्मध्ये कानिचित् श्रेष्ठानि मया कथ्यन्ते । यद्यप्युभयोरपि मननहठाभ्यासौ स्तस्तथापि वसिष्ठादीनां मननं मुख्यं मत्स्येन्द्रादीनां हठाभ्यासो मुख्य इति पृथग्ग्रहणम् ॥ १८ ॥ जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे । ऋजुकायः समासीनः स्वस्तिकं तत् प्रचक्षते ॥ १९ ॥ तत्र सुकरत्वात् प्रथमं स्वस्तिकासनमाह—जानूर्वोरिति । जानु च ऊरुश्च । अत्र जानुशब्देन जानुसंनिहितो जङ्घाप्रदेशो ग्राह्यः । जङ्घोर्वोरिति पाठस्तु साधीयान् । तयोरन्तरे मध्ये उभे पादयोस्तले तलप्रदेशौ कृत्वा ऋजुकायः समकायः यत्र समासीनो भवेत् तदासनं स्वस्तिकं स्वस्तिकाख्यं प्रचक्षते वदन्ति, योगिन इति शेषः । श्रीश्वरेणोक्तम्—
१६ हठयोगप्रदीपिका ' ऊरूजङ्घान्तराधाय प्रपदे जानुमध्यगे । योगिनो यदवस्थानं स्वस्तिकं तद्विदुर्बुधाः ॥' १९ ॥ सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृति ॥ २० ॥ गोमुखासनमाह—सव्य इति । सव्ये वामे पृष्ठस्य पार्श्वे संप्रदायात् कटेरधोभागे दक्षिणं गुल्फं नितरां योजयेत् । गोमुखस्याकृतिर्यस्य तत्तादृशं गोमुखसंज्ञकमासनं भवेत् ॥ २० ॥ एकं पादं तथैकस्मिन् विन्यसेदूरुणि स्थिरम् । इतरस्मिंस्तथा चोरुं वीरासनमितीरितम् ॥ २१ ॥ वीरासनमाह—एकमिति । एकं दक्षिणं पादम् । तथा पादपूरणे । एकस्मिन् वामोरुणि स्थिरं विन्यसेत् । इतरस्मिन् वामे पादे ऊरुं दक्षिणं विन्यसेत् । तद्वीरासनमितीरितं कथितम् ॥ २१ ॥ गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः । कूर्मासनं भवेदेतदिति योगविदो विदुः ॥ २२ ॥ कूर्मासनमाह—गुदमिति । गुल्फाभ्यां गुदं निरुध्य नियम्य व्युत्क्रमेण यत्र सम्यगाहितः स्थितो भवेत् , एतत् कूर्मासनं भवेत् , इति योगविदो विदुरित्यन्वयः ॥ २२ ॥ पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ । निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ २३ ॥ कुक्कुटासनमाह—पद्मासनं त्विति । पद्मासनं तु ऊर्वोरुपरि उत्तान- चरणस्थापनरूपं सम्यक् स्थापयित्वा । जानुपदेन जानुसंनिहितो जङ्घाप्रदेशः ।
हठयोगप्रदीपिका १७ तच्च ऊरूश्च जानूरू, तयोरन्तरे मध्ये करौ निवेश्य भूमौ संस्थाप्य । करावित्य- त्रापि संबध्यते । व्योमस्थं स्वस्थं पद्मासनसदृशं यत्तत् कुक्कुटासनम् ॥ २३ ॥ कुक्कुटासनबन्धस्थो दोभ्यां संबध्य कन्धराम् । भवेत् कूर्मवदुत्तान एतदुत्तानकूर्मकम् ॥ २४ ॥ उत्तानकूर्मासनमाह—कुक्कुटासनेति । कुक्कुटासनस्य यो बन्धः पूर्वश्लोकोक्तस्तस्मिन् स्थितः दोभ्यां बाहुभ्यां कन्धरां ग्रीवां संबध्य कूर्मवदुत्तानो यस्मिन् भवेदेतदासनमुत्तानकूर्मकं नाम ॥ २४ ॥ पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षणं कुर्याद् धनुरासनमुच्यते ॥ २५ ॥ धनुरासनमाह—पादाङ्गुष्ठौ त्विति । पाणिभ्यां पादयोरङ्गुष्ठौ गृहीत्वा श्रवणावधि कर्णपर्यन्तं धनुष आकर्षणं यथा भवति तथा कुर्यात् । गृहीताङ्गुष्ठ- मेकं पाणिं प्रसारितं कृत्वा गृहीताङ्गुष्ठमितरं पाणिं कर्णपर्यन्तमाकुञ्चितं कुर्यादित्यर्थः । एतद् धनुरासनमुच्यते ॥ २५ ॥ वामोरुमूलार्पितदक्षपादं जानोर्बहिर्वेष्टितवामपादम् । प्रगृह्य तिष्ठेत् परिवर्तिताङ्गः श्रीमत्स्यनाथोदितमासनं स्यात् ॥ मत्स्येन्द्रासनमाह—वामोरुमूलेऽर्पितः स्थापितो यो दक्षपादः तं संप्रदायात् पृष्ठतोगतवामपाणिना गुल्फस्योपरिभागे परिगृह्य । जानोर्दक्षिणपाद- जानोर्बहिःप्रदेशे वेष्टितो यो वामपादस्तं वामपादजानोर्बहिर्वेष्टितदक्षिणपाणि- नाङ्गुष्ठे प्रगृह्य । परिवर्तिताङ्गः वामभागेन पृष्ठतो मुखं यथा स्यादेवं परिवर्तितं परावर्तितमङ्गं येन स तथा तादृशो यत्र तिष्ठेत् स्थितिं कुर्यात् तदासनं मत्स्येन्द्र- नाथेनोदितं कथितं स्यात् । तदुदितत्वात् तन्नामकमेव वदन्ति । एवं दक्षोरुमूला- 2
१. प्रथम उपदेश: आसन विधि व यौगिक नियम (स्वस्तिकासन से मयूरासन)
१८ हठयोगप्रदीपिका र्पितवामपादं पृष्ठतोगतदक्षिणपाणिना प्रगृह्य वामजानोर्बहिर्वेष्टितदक्षपादं दक्षिण- पादजानोर्बहिर्वेष्टितवामपाणिना प्रगृह्य, दक्षभागेन पृष्ठतो मुखं यथा स्यादेवं परिवर्तिताङ्गश्चाभ्यसेत् ॥ २६ ॥ मत्स्येन्द्रपीठं जठरप्रदीप्तिं प्रचण्डरुग्मण्डलखण्डनास्त्रम् । अभ्यासतः कुण्डलिनीप्रबोधं चन्द्रस्थिरत्वं च ददाति पुंसाम् ॥ मत्स्येन्द्रासनस्य फलमाह— मत्स्येन्द्रेति । प्रचण्डं दुःसहं रुजां रोगाणां मण्डलं समूहः तस्य खण्डने छेदनेऽस्त्रमस्त्रमिव तादृशं मत्स्येन्द्रपीठं मत्स्येन्द्रा- सनम् । अभ्यासतः प्रत्यहमावर्तनरूपादभ्यासात् पुंसां जठरस्य जठराग्नेः प्रकृष्टां दीप्तिं वृद्धिं ददाति । तथा कुण्डलिन्या आधारशक्तेः प्रबोधं निद्राभावं तथा चन्द्रस्य तालुन उपरिभागे स्थितस्य नित्यं क्षरतः स्थिरत्वं क्षरणाभावं च ददातीत्यर्थः ॥ २७ ॥ प्रसार्य पादौ भुवि दण्डरूपौ दोर्भ्यां पदाग्रद्वितयं गृहीत्वा । जानूपरि न्यस्तललाटदेशो वसेदिदं पश्चिमतानमाहुः ॥ २८ ॥ पश्चिमतानासनमाह— प्रसार्येति । भुवि भूमौ दण्डस्य रूपमिव रूपं ययोस्तौ दण्डाकारौ श्लिष्टगुल्फौ प्रसार्य प्रसारितौ कृत्वा । दोर्भ्यामाकुञ्चित- तर्जनीभ्यां भुजाभ्यां पदोः पदयोश्चाग्रेऽग्रभागौ तयोर्द्वितयं द्वयमङ्गुष्ठप्रदेशयुग्मं बलादाकर्षणपूर्वकं यथा जान्वधोभागस्य भूमेरुत्थानं न स्यात् तथा गृहीत्वा । जानोरुपरि न्यस्तो ललाटदेशो येन तादृशो यत्र वसेत् । इदं पश्चिमताननामक- मासनमाहुः ॥ २८ ॥ इति पश्चिमतानमासनाग्र्यं पवनं पश्चिमवाहिनं करोति । उदयं जठरानलस्य कुर्यादुदरे कार्श्यमरोगतां च पुंसाम् ॥२९॥
हठयोगप्रदीपिका १९ अथ तत्फलम्—इतीति । इति पूर्वोक्तमासनेष्वग्र्यं मुख्यं पश्चिमतानं पवनं प्राणं पश्चिमवाहिनं पश्चिमेन पश्चिममार्गेण सुषुम्नामार्गेण वहतीति पश्चिमवाही तं तादृशं करोति । जठरानलस्य जठरे योऽनलोऽग्निस्तस्योदयं वृद्धिं कुर्यात् । उदरे मध्यप्रदेशे कार्श्यं कृशत्वं कुर्यात् । आरोगतामारोग्यं चकारान्नाडीवलनादि- साम्यं कुर्यात् ॥ २९ ॥ धरामवष्टभ्य करद्वयेन तत्कूर्परस्थापितनाभिपार्श्वः । उच्चासनो दण्डवदुत्थितः खे मायूरमेतत् प्रवदन्ति पीठम् ॥३०॥ अथ मयूरासनमाह—धरामिति । करद्वयेन करयोर्द्वयं युग्मं तेन धरां भूमिं अवष्टभ्यावलम्ब्य प्रसारिताङ्गुली भूमिसंलग्नतलौ संनिहितौ करौ कृत्वेत्यर्थः । तस्य करद्वयस्य कूर्परयोर्भुजमध्यसंधिभागयोः स्थापिते धृते नाभेः पार्श्वे पार्श्व- भागौ येन स उच्चासन. उच्चमुन्नतमासनं यस्यैतादृशः खे शून्ये दण्डवद् दण्डेन तुल्यमुत्थित ऊर्ध्वं स्थितो यत्र भवति, तन्मायूरं मयूरस्येदं तत्संबन्धित्वात् तन्नामकं प्रवदन्ति योगिन इति शेषः ॥ ३० ॥ हरति सकलरोगानाशु गुल्मोदरादी- नभिभवति च दोषानासनं श्रीमयूरम् । बहु कदशनभुक्तं भस्म कुर्यादशेषं जनयति जठराग्निं जारयेत् कालकूटम् ॥ ३१ ॥ मयूरासनगुणानाह—हरतीति । गुल्मो रोगविशेषः उदरं जलोदरं ते आदी येषां प्लीहादीनां ते तथा तान् सकलरोगान् सकला ये रोगास्तानाशु झटिति हरति नाशयति । श्रीमयूरासनमिति सर्वत्र संबध्यते । दोषान् वातपित्तकफा- नालस्यदांश्चाभिभवति तिरस्करोति । बहुतिशयितं कदशनं कदन्नं यद्भुक्तं तदशेषं
२० हठयोगप्रदीपिका समस्तं भस्म कुर्यात् पाचयेदित्यर्थः । जठराग्निं जठरानलं जनयति प्रादुर्भावयति । कालकूटं विषं कालकूटवदपकारकान्नं समस्तं जारयेज्जीर्णं कुर्यात् पाचये- दित्यर्थः ॥ ३१ ॥ उत्तानं शववद् भूमौ शयनं तच्छवासनम् । शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम् ॥ ३२ ॥ शवासनमाहार्धेन—उत्तानमिति । शवेन मृतशरीरेण तुल्यं शववदुत्तानं भूमिसंलग्नं पृष्ठं यथा स्यात् तथा शयनं निद्रायामिव संनिवेशो यत् तच्छवासनं शवाख्यमासनम् । शवासनप्रयोजनमाह उत्तरार्धेन । शवासनं श्रान्तिहरं श्रान्तिं हठाभ्यासश्रमं हरतीति श्रान्तिहरं चित्तस्य विश्रान्तिर्विश्रामस्तस्याः कारकम् ॥ ३२ ॥ चतुरशीत्यासनानि शिवेन कथितानि च । तेभ्यश्चतुष्कमादाय सारभूतं ब्रवीम्यहम् ॥ ३३ ॥ वक्ष्यमाणासनचतुष्टयस्य श्रेष्ठत्वं वदन्नाह—चतुरशीतीति । शिवेनेश्वरेण चतुरधिकाशीतिसंख्याकान्यासनानि कथितानि, चकाराच्चतुरशीतिलक्षाणि च । तदुक्तं गोरक्षनाथेन— ‘आसनानि च तावन्ति यावन्त्यो जीवजातयः । एतेषामखिलान् भेदान् विजानाति महेश्वरः ॥ चतुरशीतिलक्षाणि एकैकं समुदाहृतम् । ततः शिवेन पीठानां षोडशोनं शतं कृतम् ॥’ इति । तेभ्यः शिवोक्तचतुरशीतिलक्षासनानां मध्ये प्रशस्तानि यानि चतुरशीत्यासनानि तेभ्य आदाय गृहीत्वा, सारभूतं श्रेष्ठभूतं चतुष्कमहं ब्रवीमीत्यन्वयः ॥ ३३ ॥