जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 105, कुल 588 में से
संदर्भ में पढ़ेंवियोनिजन्माध्यायः ॥३॥ ७६
शनिके वर्गमें चन्द्रमा हो, शनिसे युक्त पञ्चममें हो सूर्य और शुक्रसे दृष्ट हो तो यह जातक पौनर्भव है सो जानना ॥ ५० ॥ अथ अनूढापत्यत्वसाधको ग्रहयोगः । व्यये भास्करसंदृष्टे वर्गे भास्करचन्द्रयोः । चन्द्रसूर्ययुते वाऽपि कानीनोऽयं भवेन्नरः ॥ ५१ ॥ इदानीं कन्यकाजात उच्यते । स्पष्टार्थः श्लोकः । कानीनः कुमारिकायामुत्पन्नः । “कानीनः कन्यकाजातः” इत्यमरोक्तेः ॥ ५१ ॥ बारहवां भाव सूर्यसे देखा जाता हो, या सूर्य और चन्द्रमाके वर्गमें क्रमसे चन्द्र और सूर्य युक्त हों तो जन्म लेनेवाला कानीन याने बिना ब्याही लड़की (कुमारी) का पुत्र होता है ॥ ५१ ॥ अथ दत्तकपुत्रत्वसाधको योगः । चन्द्रदृष्टियुतो मान्दिर्भानुपुत्रसमन्वितः । तद्दृष्टणयुतो वाऽपि दत्तपुत्रो भवेन्नरः ॥ शन्यङ्गारकसंयुक्ते सप्तमे वाऽथ पञ्चमे । अन्यैरवीक्षिते खेटैः कृत्रिमं तु विनिर्दिशेत्। इदानीं दत्तकपुत्रयोगमाह । मान्दिर्गुलिकश्चन्द्रेणावलोकितः, शनियुक्तः, शनिनावलो- कितो वा भवेत्तदा जायमानो नरो दत्तपुत्रो भवेदर्थादसौ कस्यचिद्दत्तको भविष्यतीति ज्ञेयम् । अथ कृत्रिममाह । जन्मकाले शनिभौमौ सप्तमे वा पञ्चमे भावे भवेतां तत्रान्यग्रहाणां दृष्टेरभावश्चेत्तदा जातकं कृत्रिमं पुत्रं विनिर्दिशेत् । असौ जातकः कारणवशात्कस्यचित्पुत्रत्वं भजत इत्यर्थः ॥ ५२-५३ ॥ चन्द्रमा गुलिकको देखता हो, गुलिक शनिसे युक्त हो अथवा शनिसे देखा जाता हो तो जन्म लेनेवाला किसीका दत्तक पुत्र होता है ॥ ५२ ॥ शनि और मङ्गल सातवें अथवा पांचवें भावमें हों उसमें अन्य ग्रहोंकी दृष्टि यदि न हो तो जातकको कृत्रिम पुत्र कहना, याने वह किसी कारणवश (पालन, पोषण, मा लालचसे) किसीका पुत्र बन जायेगा । (सु. शा कार) ॥ ५३ ॥ अथ जारजत्वसाधका योगाः । परस्परक्षेत्रगतौ तु होरारसातलेशौ यदि जन्मलग्नात् । लग्नेश्वरो वा हिबुकेश्वरो वा ध्वजाहियुक्तो जननं परेण ॥ ५४ ॥ लग्नं शशाङ्कं सुरराजमन्त्री न वीक्षते नैकगृहस्थितौ वा । न जीववर्गेण युतौ तदानीं जातं वदेदन्यसमागमेन ॥ ५५ ॥ स्वातीद्वितीया रविवारयुक्ता सप्तमी सोमजरेवती च । सद्द्वादशीभानुसुतश्रविष्ठा चैतेषु जातः परतो वदन्ति ॥ ५६ ॥ भद्राख्यतिथियुक्तेषु त्रिपादक्षर्क्षान्वितेषु च । मन्दार्कभौमवारेषु जातमन्योद्भवं विदुः ॥ ५७ ॥ न लग्नमिन्दुं च गुरुर्निरीक्षते न वा शशाङ्कं रविणा समागतम् । सपापकोऽर्केण युतोऽथवा शशी परेण जातं प्रवदन्ति निश्चयात् ॥ ५८ ॥ गुरुक्षेत्रगते चन्द्रे तद्युक्ते चान्यराशिगे । तद्द्रेष्काणे तदंशे वा न परैर्जात इष्यते ॥ ५९ ॥ इदानीं जारजयोगानाह । जन्मनि लग्नेशश्चतुर्थेशगृहे, चतुर्थेशो लग्नेशगृहे न भवेत् (ताराग्रहाणां द्विराशिपतित्वादित्थमुक्तमित्यनुक्तमपि ज्ञेयम्) अथवा, लग्नेशहिबुकेशयो- रन्यतरो यत्र कुत्रापि राहुणा केतुना वा युक्तश्चेत्तदा जातकस्य परेणान्यपुरुषेण जननं 7 वाच्यम्, इति योगत्रयम् ॥ ५४ ॥