जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 107, कुल 588 में से
संदर्भ में पढ़ेंवियोनिजन्माध्यायः ॥ ३ ॥ ८१ अथ जन्मनि पितुर्बद्धत्वादि । क्रूरर्क्षगतावशोभनौ सूर्याद्द्यूननवात्मजस्थितौ । बद्धस्तु पिता विदेशगः स्वे वा राशिवशात्तथा पथि ॥ ६० ॥ इदानीं पितुर्बद्धयोगमाह । अशोभनौ= पथि बद्धयोगः । द्वौ पापग्रहौ (शनिभौमौ) पापग्रहराशिगतौ सूर्यात्सप्तम-नवम-पञ्चमभावानामन्यतमगतौ च भवेतां तदा जातकस्य पिता राशिविशाद् विदेशगो वा स्वदेशेऽथवा पथि = माग बद्धो (कारागारादौ) भवति । इदमुक्तं भवति । सूर्ये चरराशौ विद्यमाने विदेशे, स्थिरराशौ स्वदेशे, द्विस्वभावे च पथि=मार्गे बद्धो भवतीति ॥ ६० ॥
+-----------------------------+
| \ ३ / \ श. १ / |
| ४ \ / २ \ / १२ |
| \ / \ / |
|-------X-------------X-------|
| | | |
| | मं. ५ | ११ |
| | | |
|-------X-------------X-------|
| ६ / \ ८ / \ १० |
| / \ / \ |
| / ७ \ / ९ सू.\ |
+-----------------------------+
पापग्रहकी राशि ( १। ५ । ८ । १० । ११ ) में दो पापग्रह हों और सूर्यसे सप्तम नवम या पंचम भाव में हों तो जन्मके समय बालकके पिताको बन्धनमें जाने । यदि सूर्य चर- राशिमें हो तो परदेशमें पिता बँधा है । स्थिर राशिमें हो तो स्वदेशमें, द्विस्वभाव राशिमें हो तो मार्गमें बँधा है, ऐसा कहे ॥ ६० ॥ अथ जन्मदेशाः । पूर्णे शशिनि स्वराशिगे सौम्ये लग्नगते शुभे सुखे । लग्ने जलजेऽस्तगेऽपि वा चन्द्रे पोतगता प्रसूयते ॥ ६१ ॥ आप्योदयमाप्यगः शशी सम्पूर्णः समवेक्षतेऽथवा । मेषूरणबन्धुलग्नगः स्यात् सूतिः सलिले न संशयः ॥ ६२ ॥ उदयोडुपयोर्व्ययस्थिते गुप्त्यां पापनिरीक्षिते यमे । अलिकर्कियुते विलग्नगे सौरे शीतकरेक्षितेऽवटे ॥ ६३ ॥ मन्देऽब्जगते विलग्नगे बुधसूर्येन्दुनिरीक्षिते क्रमात् । क्रीडाभवने सुरालये जननं* चोखरभूमिषूदिशेत् ॥ ६४ ॥ खलभगं प्रेक्ष्य कुजः श्मशाने रम्ये सितेन्दू गुरुरग्निहोत्रे । रविर्नरेन्द्रामरगोकुलेषु शिल्पालये ज्ञः प्रसवं करोति ॥ ६५ ॥ राश्यंशसमानगोचरे मार्गे जन्म चरे स्थिरे गृहे । स्वक्षांशगते स्वमन्दिरे बलयोगात्फलमशकर्त्तयोः ॥ ६६ ॥ इदानीं जातकस्य जन्मप्रदेशज्ञानमुच्यते । पूर्णश्चन्द्रः कर्कटस्थः, सौम्यः=बुधो लग्नगतः, शुभः=बृहस्पतिरेव चतुर्थगतः ( शुभे शुक्रस्यापि ग्रहणे चतुर्थे भवने सूर्याज्ज्ञशुक्रौ भवतः कथमित्यापत्तिः स्यात् । यतः शुक्रबुधौ सूर्यादग्रे पृष्ठे च राशिचतुष्काभ्यन्तर एव सदा अवत एव नियमः ) स्यात्तदा अथवा जलजराशौ लग्ने तस्मात्सप्तमे भावे चन्द्रः पूर्णोऽपूर्णो वा भवेत्तदा पोते ( नौकायाम् ) प्रसवो भवतीति ज्ञेयम् ( योगद्वयम् ) ॥ ६१ ॥ जलचरराशिगतश्चन्द्रो जलचरं लग्नञ्च भवति, अथवा पूर्णचन्द्रो जलचरलग्नं पश्यति, अथवा जलचरलग्नात् चन्द्रः प्रथमे, चतुर्थे, दशमे वा भवेत्तदा सलिले = जलसन्निधौ सूति- र्निश्चयेन वाच्येति योगत्रयम् ॥ ६२ ॥ यमे = शनौ लग्नचन्द्राभ्यामेकत्र स्थिताभ्यां द्वादशे भावे वर्त्तमाने तस्मिन् पापग्रहेणा- * 'सोखरभूमिषु च प्रसूयते' इति पाठान्तरम् ।