जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 123, कुल 588 में से
संदर्भ में पढ़ेंअरिष्टाध्यायः ॥ ४ ॥ ६७ नीचं गते लग्नपतौ विलग्नान्नाशं गते वा रविजे तथाऽस्ते । जातो मृतप्रायकलेवरः सन् कृच्छ्रेण वैवस्वतलोकमेति ॥ २६ ॥ लग्नपतौ = लग्नेशे नीचं = स्वनीचराशिं गते, अथवा विलग्नान्नाशं गते = अष्टमभाव- मुपगते, रविजे = शनैश्चरे तथाऽस्तेऽर्थान्नीचगते, वा सप्तमभावगते जातो बालो मृतप्रायकले- वरः = त्रिविधव्यथैर्व्यथितदेहः सन् कृच्छ्रेणातीव कष्टेन वैवस्वतलोकं = प्रेतपुरमेति = म्रियत इत्यर्थः । ग्रन्थान्तरे— “विलग्नाधिपतौ नीचे निधने चार्कजो भवेत्। कृच्छ्रेण जीवितं विद्यात्षण्प्रायो विनश्यति” ॥ इति दृश्यते । परञ्च सदाष्टमस्थः शनिरिष्टदः स्यादित्युक्तेः (२अ. ५२ श्लो.) सप्तमे शनि- रिति युक्तं ‘रविजः कलत्रे विफलः’