जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 124, कुल 588 में से
संदर्भ में पढ़ें६८ सटीकजातकपारिजाते- सौरे मदस्थे यदि वा विलग्ने जलोदयेऽब्जे यदि कीटगे वा । सौम्येषु केन्द्रोपगतेषु सद्यो जातस्य नाशं यवनोपदिष्टम् ॥ २९ ॥ सौरे = शनौ मदस्थे=सप्तमस्थे, वा विलग्नस्थे, अब्जे = चन्द्रे जलोदये=जलचरलग्ने, यदि वा कीटगे=वृश्चिकराशिगे, सौम्येषु=शुभग्रहेषु वेन्द्रे-( १।४।७।१० ) पगतेषु जातस्य सद्यः=त्वरितमेव नाशं=मरणं यवनाचार्येणोपदिष्टं वाच्यम् ॥ २९ ॥ यदि शनि सप्तममें हो वा लग्नमें हो, जलचर राशिमें वा वृश्चिक राशिमें चन्द्रमा हो शुभग्रह केन्द्रमें हों तो जातक का शीघ्र नाश होवे ॥ २९ ॥ भौमक्षेत्रगते जीवे नीचराशिगतेऽथवा । सन्ध्यात्रये च सञ्जातो मासान्मृत्युमुपैति सः ॥ ३० ॥ जीवे = बृहस्पतौ भौमक्षेत्रे=मेषे वा वृश्चिके गते, अथवा नीचराशौ ( मकरे ) गते, सन्ध्यात्रये=सूर्योदयात्पूर्वं घटीत्रयं पूर्वसन्ध्या, मध्यन्दिनात्पूर्वं पश्चाच्च सार्धघटीति घटि- कात्रयं मध्यसन्ध्या, सूर्यस्यास्तमनात्परं घटीत्रयं सायंसन्ध्येति सन्ध्यात्रयं तस्मिंश्च सञ्जातो बालको मासान्मृत्युमुपैति, मासमेकं जीवति ततो म्रियते । अत्र 'सन्धित्रये' इति पाठे सन्धित्रयं = कटकालीमीनभान्तं, तस्मिन्निति व्याख्येयम् । सर्वार्थचिन्तामणौ- “नीचस्थे देवपूज्ये तु भौमक्षेत्रगतेऽथवा । सन्धित्रयेऽपि सञ्जातो मासान्मृत्युं प्रयच्छति” ॥ इति ॥ ३० ॥ वृहस्पति मंगलके गृहमें हो, वा नीच राशि ( मकर ) में हो, तीनों सन्ध्यामें से किसी में उत्पन्न हो तो वह जातक एक मासमें मरे ॥ ३० ॥ रन्ध्रे धरासूनुदिनेशसौरा जातस्तु मृत्युं समुपैति मासात् । केतुस्तु यस्मिन्नुदितोऽत्र जातो मासद्वयेनैव यमं प्रयाति ॥ ३१ ॥ धरासूनुदिनेशसौराः = मङ्गलसूर्यशनैश्चराः, रन्ध्रे = जन्मलग्नादष्टमे वर्त्तमानाश्चेत्येतेषु- स्तदा जातो बालको मासान्मृत्युं प्राप्नोति । अथ यस्मिन्नक्षत्रे केतुः ( २ अ० ६८ श्लो० टीका द्रष्टव्या ) उदितो भवति, अत्रास्मिन् नक्षत्रे जायमानो बालो मासद्वयेन यमं प्रयाति= मरणं प्राप्नोतीति । उक्तं च सारावल्याम्- भौमदिवाकरसौराराश्चिछद्रे जातस्य भौमगृहे । म्रियतेऽवश्यं स नरो यमकृतरक्षोऽपि मासेन ॥ केतुर्यस्मिन्नृक्षेऽभ्युदितस्तस्मिन्ससूयते यो हि । मासद्वयेन मरणं विनिर्दिशेत्तस्य जातस्य ॥” इति ॥ ३१ ॥ मङ्गल, सूर्य और शनि अष्टममें हों तो वह जातक एक मासमें मरे । जिस नक्षत्रमें केतुका उदय हो उस नक्षत्रमें जन्म लेनेवाला बालक २ मासमें मृत्यु पाता है ॥ ३१ ॥ पापावुदयास्तगतौ क्रूरेण युतश्च शशी । दृष्टश्च शुभैर्न यदा मृत्युश्च भवेदचिरात् ॥ ३२ ॥ [कुण्डली-चित्रम्] द्वौ पापावुदयास्तगतावेक उदये = लग्ने, [१ भाव: पा. क्र.] एकोऽस्ते = सप्तमे गतः, शशी = चन्द्रः क्रू- [४ भाव: वृ.] रेण = पापग्रहेण सहितो यत्र कुत्रापि भवेत् [६ भाव: चं. मं.] स यदा शुभग्रहैर्नवलोकितो भवेत्तदाऽचि- [७ भाव: र.] राच्छीघ्रमेव जातस्य मृत्युर्भवेदिति वाच्यम् । [८ भाव: बु. शु.] उक्तञ्च स्कान्दे-