जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 136, कुल 588 में से
संदर्भ में पढ़ें११० सटीकजातकपारिजाते- से दृष्ट हो तो बालककी मृत्यु २८ वें वर्षमें होती है ॥ ६३ ॥ अथ २९ वर्षे मृत्युः । चन्द्रो मन्दसहायस्तु सूर्यश्चाष्टमसंस्थितः ॥ एकोनत्रिंशके वर्षे जातो यमपुरं व्रजेत् ॥ ६४ ॥ चन्द्रो मन्दस्य = शनैश्चरस्य सहायः = सम्बन्धी ( स्थानसम्बन्धी वा दृष्टिसम्बन्धी ) तु=तथा सूर्यश्चाष्टमे = लग्नादष्टमभावे संस्थितो भवेत्तदा जात एकोनत्रिंशके ( २९ ) वर्षे यमपुरं=यमालयं व्रजेदर्थान्प्रियते ॥ ६४ ॥ चन्द्रमा शनिका सहायक हो सूर्य अष्टममें स्थित हो तो जातक २९ वें वर्षमें यमपुरकी यात्रा करे, याने मरे ॥ ६४ ॥ अथ २७ वा ३० वर्षे मृत्युः । जन्मरन्ध्रपयोर्मध्ये निशानाथे व्यये गुरौ ॥ सप्तविंशतिवर्षे वा त्रिंशद्वयसि वा मृतिः ॥ ६५ ॥ निशानाथे=चन्द्रे जन्मरन्ध्रपयोर्जन्मरा- शिपत्यष्टमभावेशयोर्मध्ये भवति सति इह- मुक्तं भवति । चन्द्राज्जन्मरन्ध्रेशयोरेको द्वाद- शेऽपरो द्वितीये भवेत्, तथा गुरौ व्यये=लग्नात् द्वादशे भावे विद्यमाने जातस्य सप्तविंशति- ( २७ ) वर्षे वा त्रिंशद्वयसि ( ३० वर्षे ) मृतिर्भवति ॥ ६५ ॥
[कुण्डली १ :]
- लग्न (३)
- द्वितीय (४)
- तृतीय (५ बु.)
- चतुर्थ (चं. ६)
- पञ्चम (७ श.)
- षष्ठ (८)
- सप्तम (९)
- अष्टम (१०)
- नवम (११)
- दशम (१२)
- एकादश (१)
- द्वादश (२ बृ.)
जन्मपति और अष्टमेशके मध्यमें चन्द्र- मा हो और बृहस्पति १२वें हो तो २७वें वर्ष वा ३०वर्षकी उमरमें बालककी मृत्यु हो ॥६५॥ अथ ३२ वर्षे मरणम् । अष्टमाधिपतौ केन्द्रे लग्नेशे बलवर्जिते ॥ त्रिंशद्वर्षमितायुष्मान् द्वात्रिंशद्वत्सरे मृतिः ॥ ६६ ॥ क्षीणे शशाङ्के यदि पापयुक्ते रन्ध्राधिपे केन्द्रगतेऽष्टमे वा ॥ पापान्विते हीनबले विलग्ने द्वात्रिंशदब्दे निधनं प्रयाति ॥ ६७ ॥ सरलार्थः ॥ ६६ ॥ अथ क्षीणे=कृष्णपक्षीये शशाङ्के = चन्द्रे यदि पापग्रहेण युक्ते, रन्ध्राधिपेऽष्टमेशे केन्द्रे ( १।४।७।१० ) गते वाऽष्टमे गते, तथा विलग्ने = जन्मलग्ने पापान्विते = पापग्रहयुक्ते हीनबले च जातको द्वात्रिंशदब्दे निधन = मरणं प्रयाति ।
[कुण्डली २ :]
- लग्न (६ रा.)
- द्वितीय (७)
- तृतीय (८)
- चतुर्थ (९ मं.)
- पञ्चम (१०)
- षष्ठ (११ चं. श.)
- सप्तम (१२ बु. र.)
- अष्टम (१)
- नवम (२)
- दशम (३)
- एकादश (४)
- द्वादश (५)
उदाहृते चक्रे ( मं० बु० ) अनेन प्रथमो योगः । ( चं०श०रा०मं० ) अनेन द्वितीयो योगो विचारणीयः ॥ ६७ ॥ अष्टमेश केन्द्रमें हो और लग्नेश बलसे रहित हो तो जातक ३० वर्ष की आयुवाला हो और ३२ वें वर्ष में मृत्यु पावै ॥ ६६ ॥ यदि क्षीण चन्द्रमा पापग्रहसे युक्त हो, अष्टमेश केन्द्रमें वा अष्टममें हो, लग्नमें पापग्रह हो और लग्न निर्बल हो तो वह बालक ३२ वें वर्षमें मरे ॥ ६७ ॥