भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 160, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 160

१३४ सटीकजातकपारिजाते- दशादिसङ्ख्यका रश्मयः सन्ति । सूर्यस्य दश । चन्द्रस्य गावः = नव । भौमस्य शराः पञ्च । बुधस्य बाणाः = पञ्च । गुरोरद्रयः = सप्त । शुक्रस्य वसवः = अष्टौ । शनेः सायकाः = पञ्चरश्मयो ज्ञेयाः । नीचगता ग्रहा रश्मिरहिताः, नीचाद्भ्रष्टा ग्रहा अभिमुखरश्मयः, उच्चा- द्भ्रष्टाः पराङ्मुखा उच्यन्ते । तथोक्तं सारावल्याम्— “स्वोच्चस्थे दश सूर्ये, नव चन्द्रे, पञ्च भूमितनये च । पञ्चेन्दुजे, सुरेज्ये सप्ताष्टौ भार्गवे, शनौ पञ्च ॥ एवं महेन्द्रशास्त्रे मणित्थमयवादरायणप्रोक्तौ । सप्त प्रत्येकस्था निर्दिष्टा रश्मयो ग्रहेन्द्राणाम् ॥ सर्वे प्रमाणमेते मुनिवचनात् किन्तु सप्तसङ्ख्यैव । बहुवाक्यादस्माकं नीचगतः स्याद्विगतरश्मिः ॥ अभिमुखरश्मिर्नीचाद् भ्रष्टः, स्वोच्चात्पराङ्मुखो ज्ञेयः” इति ॥ अथोच्चनीचयोर्मध्ये ग्रहस्य रश्म्यानयनम् । इष्टखचरं स्वकीयोच्चेनोनं कृत्वा यदि षड्गृहोनेोऽर्थाद्राशिषट्कादूनो भवेत्तदा तं चक्रात् ( १२ ) विशोध्य कृतलिप्सकं = कलीकृतं तं स्वकीयैरंशुमानैरुक्तपठितरश्मिप्रमाणैः हत्वा = सङ्गुण्य भचक्रकलाभिः २१६००' हृतं = भक्तं लब्धमब्दपूर्वं = वर्षाद्यं रव्यादीनां रश्मिजनितमायुर्भवति, इति विज्ञा ब्रुवन्ति । अत्र प्रकृतग्रन्थकृता पिण्डायुर्वदुच्चगते ग्रहे पूर्णा रश्मिस्तथा नीचे तदर्धमुररीकृत्य नीचोच्चान्तरे षड्राशिमिते रश्मेरर्द्धमवशिष्यते तदेष्टग्रहोच्चान्तरे किमित्यनुपातागतं फलं पठित- पूर्णरश्मिमानाच्छोध्येष्टरश्मिसाधनं कृतम् । र. — (र. / २) × (अं / ६) = (र. × १२ - र. × अं) / १२ = र. ( १२ - अं ) / १२ = इ. र. । परञ्च सारावलीकारेण नीचगते ग्रहे शून्या रश्मिरभिहिता-‘नीचगतः स्याद्विगतरश्मिः’ इति । तथा तेनैवेष्टस्थाने रश्मिसाधनपद्यमुक्तम्— “नीचविहीनः शोध्यश्चक्रात्षड्भवनतो यदाभ्यधिकः । आत्मीयरश्मिगुणितात्षड्भक्ताद्रश्मयस्तस्मात्” इति । एतन्मते उच्चे पूर्णरश्मिस्तत उभयदिशि क्षीणत्वमुपगता नीचे शून्यत्वमुपयाति । नीचे रश्म्यभाव उच्चे परमरश्मिरिति षड्राशिमिते ग्रहनीचान्तरे पूर्णा रश्मिस्तदाऽभीष्टग्रहनीचा- न्तरे किमित्यनुपातेन रश्म्यानयनमुपपद्यते । तत्र षड्भाधिके ( उच्चादग्रे ) ग्रहनीचान्तरे चक्राच्छुद्धं कार्यमुच्चादुभयत्र रश्मेस्तुल्यमेवापचयत्वादिति ॥ २२-२३ ॥ सूर्यादि ग्रहोंके अपनी उच्च राशिमें होनेसे दश आदि रश्मिआयु हैं । सूर्य की १०, चन्द्र की ९, मंगल की ५, बुधकी ५, बृहस्पतिकी ७, शुक्रकी ८ और शनिकी ५ रश्मिआयु हैं ॥ २२ ॥ इष्ट ग्रहमें उसके उच्च को हीन करे, यदि उच्चोन ग्रह ६ राशि से ऊन हो तो चक्र ( १२ ) में घटाकर कला बनाकर रश्मि मानसे गुणाकर भचक्र ( २१६०० ) का भाग देने से वर्षादि होते हैं । यह आचार्य लोग सूर्यादि के रश्मिआयु कहते हैं । यहां विशेष संस्कृत टीकामें देखिये ॥ २३ ॥ अथ रश्मेर्ह्रसनम् । स्वराशितुङ्गातिसुहृद्गृहस्थे वक्रोपगे तद्द्विगुणीकृतांशुः । वक्रावसानेऽष्टमभागवर्ज्या सपत्नगे द्वादशभागहानिः ॥ २४ ॥