जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 161, कुल 588 में से
संदर्भ में पढ़ेंआयुर्दायाध्यायः ॥ ५ ॥ १३५ अस्तङ्गतेषु द्युचरेषु चार्द्धं हित्वा शनिं दानवपूजितं च । तद्रश्मियोगे ग्रहदत्तमायुर्महेन्द्रशास्त्रोदितमाहुरार्याः ॥ २५ ॥ स्वराशौ, स्वोच्चे, अतिमित्रस्य गृहे, वक्रत्वे च स्थिते ग्रहे गणितागता रश्मयो द्विगु- णिता भवन्ति । वक्रावसानेऽष्टमभागवर्ज्या अष्टमांशेन रहिता रश्मयो भवन्ति । सपत्ने = शत्रुराशौ द्वादशभागहानिः कार्या । शनिं, दानवपूजितं=शुक्रं, च हित्वा अस्तङ्गतेषु द्युचरेषु चार्द्धं ह्रसति । शनिशुक्रयोरस्तङ्गतयोरपि न हानिर्भवति । तथोक्तं— मित्रद्वादशभागे द्विगुणास्त्रिगुणाः स्वके च दीधितयः । वक्रे पुनस्तथोच्चे स्वराशिगे तद्वच्चक्रत्वे ॥ द्विगुणाः स्युर्दीधितयो वक्रस्थेऽप्येवमेव स्युः । वैरिद्वादशभागे नीचे च भवन्ति षोडशांशोनाः ॥ अस्तं गतो विरश्मिः शनिसितवर्ज्यं ग्रहो ज्ञेयः ॥ इति सारावल्याम् । अनेन विधिना लब्धा ये ग्रहाणां रश्मयस्तेषां योगे ग्रहदत्तं रश्मिजमायुः (रश्मियोगतु- ल्यवर्षकमायुः ) महेन्द्रशास्त्रोदितं=महेन्द्रनामाचार्यकथितमार्या आहुः । तत्र रश्मियोगसङ्- ख्याफलानि सारावल्यां ३६ अध्याये द्रष्टव्यानि । बाहुल्यभयादत्र नाङ्कितानि ॥ २४-२५ ॥ यदि ग्रह अपनी राशिमें, उच्चमें, अतिसुहृद्के गृहमें, वक्रमें गणितागत रश्मि दूनी करे । वक्रके अवसानमें अष्टमांश हीन करे । शत्रु स्थानमें हो तो १२ वां भाग घटावे । शनि और शुक्रको छोड़कर अस्त ग्रह हो तो आधा त्याग दे । सब रश्मियोंके योगतुल्य ग्रहोंके रश्मिजायु होती है यह महेन्द्रशास्त्रका कहा हुआ श्रेष्ठ विद्वान् कहे हैं ॥ २४-२५ ॥ अथ चक्रायुः । रव्यादिसप्तग्रहतारकांशभुक्तावशेषाब्दसमूहमायुः । सव्यापसव्योपगवाक्यजं वा वदन्ति चक्रायुरिनादिकानाम् ॥ २६ ॥ अधुना चक्रायुरुच्यते-रव्यादीति । चक्रायुषो विशेषविवरणं १७ अध्याये द्रष्टव्यम् । इह दिङ्दर्शनमात्रमेव क्रियते । रव्यादिसप्तग्रहैस्तारकांशानां भुक्तावशेषा ये तैः साधितमब्दसमूहं वर्षसङ्कुलमायुः । अत्रेदमुक्तं भवति। सूर्यादिसप्तग्रहैः पृथक् पृथग् भुक्तस्य नक्षत्रस्य ये भागा अवशिष्टास्तेभ्योऽनुपातेनोर्वारितान्यायुर्वर्षाणि समानीय तेषां योगश्चक्रायुर्भवति । तत्रानुपातः यदि नक्षत्रमानैः ( भभोगैः ) पठितमायुस्तदा भोग्यघटीभिः किमिति सर्वेषामायुः पृथक् पृथक् भवति । तत्र १७ अध्याये पठितायूंषि-“भूतेकंविशदिरियो नवदिक्सूषोडशाब्धयः सूर्या- दीनां क्रमादब्दाः” इति । एतदेवायुः सव्यापसव्योपगवाक्यजं ( वक्ष्यमाणम् ) इनादिकानां ग्रहाणां चक्रायुरार्या वदन्ति ॥ २६ ॥ सूर्यादि सप्तग्रहका तारकांशभुक्तसे अवशिष्ट वर्षोंका जो समूह वही आयु है, वा सूर्या- दि की आयु सव्यापसव्यसे जो प्राप्त हो वही चक्रायु है ऐसा विद्वान् लोग कहते हैं ॥२६॥ अथ दशायुः । आदित्यमुख्यनवखेचरयोगताराभुक्तावशिष्टघटिकाजनिवत्सराद्यम् । आयुर्दशाजनितमष्टकवर्गजातं यत्प्रोक्तमेव सकलं प्रवदन्ति तज्ज्ञाः ॥ २७॥ एतेन दशायुरुच्यते । दशायुषो विवरणं १८ अध्याये द्रष्टव्यम् । इह किञ्चिदुच्यते । आदित्यमुख्यनवखेचराणां=सूर्यादिनवग्रहाणां योगताराभुक्तावशिष्टघटिकाजनिवत्सराद्यम् । एतदुक्तं भवति । सूर्यादयो नवग्रहाः पृथक् पृथक् येषु नक्षत्रेषु भवेयुस्तेषां भोग्यघटीभ्योऽ- नुपातवशाज्जायमानं वर्षाद्यं यत्तत्तेषां दशाजनितमायुः ( दशायुः) स्यात् । अथ अष्टकवर्गजातं यदायुः प्रोक्तं तत्सकलमेवाहुः तज्ज्ञा आयुर्विषयज्ञाः प्रवदन्ति । नाष्टकवर्गायुषि भुक्तभोग्या-