भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 162, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 162

नयनं कर्त्तव्यमिति भावः । अथ पराशराद्यैर्दशायुरेव नक्षत्राशुरपरनाम्ना व्यवह्रियते । तत्र कृत्तिकादिनवनक्षत्राणां प्रथमावृत्तौ, उत्तरफल्गुनी प्रभृतिनवनक्षत्राणां द्वितीये पर्यये, उत्तरा- षाढादिनक्षत्रनवकानां तृतीये पर्यये सूर्यादयो नव ग्रहाः स्वामिनो भवन्ति । कृत्तिकायां जन्म चेत् तदा सूर्यस्य दशा । रोहिण्यां चन्द्रस्यैवं क्रमेण । ते च क्रमिका ग्रहास्तथा तेषां वर्षप्रमाणानि च पराशरोक्तानि— रवीन्द्वाराहिजीवार्किबुधकेतुसिताः क्रमात् । आग्नेयाद्भगणेशाः स्युः स्वामिनो वत्सराः क्रमात् ॥ षडाशाः सप्त धृतयो नृपा एकोनविंशतिः । अत्यष्टिः सप्त च नखा उच्चे नीचेऽर्धमुच्यते ॥ सू०=६। चं०=१०। मं० = ७। रा० = १८ । वृ० = १६ । श०=१९ । बु० = १७ । के०=७। शु० = २० । एतान्युच्चे । एवम् ३।५।३½।९