भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 181, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 181

आयुर्दायाध्यायः ॥ ५ ॥ १५५ मीनोदये शशिरवी यदि पापयुक्तौ पापेऽष्टमे च मरणं रमणीकृतं स्यात् ॥ भौमे सुखे दिनकरे यदि वा मदस्थे मन्देऽष्टमे शशिनि चान्नविशेषजन्यम्॥१०३॥ शशिरवी = चन्द्रसूर्यौ यदि मीनोदये=मीनलग्रने पापयुक्तौ=भौमशन्योरन्यतरेण सहितौ भवेतां, तथा पापे = मङ्गले वा शनौ लग्नादष्टमे च विद्यमाने (अत्र पापेक्षिते इत्यपि पाठा- न्तरम् । तदा लग्ने पापग्रहेण केनचिदवलोकिते इति व्याख्येयम् ) जातस्य रमणीकृतं=स्त्रीज- नितं मरणं स्यात् । उक्तयोगे जातस्य स्त्रीविद्वेषान्मरणं जायत इति भावः । अथ भौमेऽङ्गा- रके सुखे = चतुर्थभावे यदि वा दिनकरे = सूर्ये मदस्थे = सप्तमभावगते, मन्दे = शनौ, शशिनि = चन्द्रे चाष्टमे गतवति जातस्यान्नविशेषजन्यं = कस्यचिदन्नविशेषस्य (कोद्रवादेः ) भक्षणान्मरणं वाच्यमिति ॥ १०३ ॥ मीन राशि लग्न हो, उसमें पापग्रहके साथ सूर्य और चन्द्रमा हों और ८ वें भावमें पापग्रह हो तो स्त्रीके द्वारा मरण होता है। यदि मंगल सुख भावमें हो, सूर्य सप्तममें हो, शनि और चन्द्र अष्टममें हों तो किसी अन्नसे मृत्यु हो ॥ १०३ ॥ मन्दे घने सुखगते शशिनि त्माजे मानस्थिते व्रणकृतेन मृतिं समेति ॥ बन्धुस्थितेऽवनिसुते धनगे शशाङ्के भानौ नभस्थलंगते तु गजाश्वयानात् ॥१०४॥ सरलार्थः ॥ १०४ ॥

श.ल.
चं.व्रणान्मृत्युःमं.
चं.ल.
---------
मं.यानात्पत-नेन मरणम्सू.
शनि धन भावमें हो, चन्द्रमा सुख भावमें हो, और मंगल दशममें हो तो व्रण (घाव)
से मृत्यु होती है ।
मंगल चौथेंमें हो, चन्द्रमा द्वितीयमें हो, और सूर्य दशममें हो तो हाथी घोड़ा आदि
सवारीसे मृत्यु होती है ॥ १०४ ॥
रन्ध्रे शनौ वियति हीनबले शशाङ्के भानौ सुखे निभृतकाष्ठहतेन मृत्युः ॥
पापान्तरे जननलग्नपतौ सकेतौ लग्नाष्टमे खलयुते सति मातृकोपात् ॥ १०५ ॥
शनौ रन्ध्रे = जन्मलग्नादष्टमे भावे, हीनबले (नीचगते शत्रुगृहगते वा ) शशाङ्के =
चन्द्रे वियति = दशमे भावे, भानौ = सूर्ये सुखे=चतुर्थे भावे विद्यमाने सति जातस्य निभृत-
काष्ठहतेन = निर्धारितकाष्ठपतनाघातेन मृत्युर्भवति । जननलग्नपतौ=जन्मलग्नस्वामिनि, सर्के-
तौ=केतुना सहिते । अत्र सकेन्द्रे इति पाठान्तरे, केन्द्रेण (१।४।७।१०, भावानामन्यतमेन)
सहित इति व्याख्येयम् । पाठान्तरे = पापग्रहयोरन्तरेऽर्थाल्लग्नेशादेकः पापो द्वितीयेऽन्यो
द्वादशे च विद्यमानो भवेत्तथा लग्नाष्टमे = लग्नादष्टमे भावे खलेन = केनचित्पापग्रहेण युते
सति मातृकोपात् = स्वमातुर्वैमुख्यान्मृत्युर्भवति । अत्र योगे जातस्य माता दुष्टा भवत्यतस्त-
त्कोपान्मरणमिति ॥ १०५ ॥
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक) · पृष्ठ 181, कुल 588 में से · BharatKosha