भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 184, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 184

१५८ सटीकजातकापारिजाते- यदि चन्द्रमा मङ्गलके या शनिके गृहमें हो उसे पापग्रह देखता हो वा पापग्रहके बीचमें कन्याराशिमें हो, वा चतुर्थ भावमें हो तो अग्निसे या शस्त्रके प्रहारसे मृत्यु कहे ॥ १११ ॥ यदि विषघटिकायामष्टमे पापयुक्ते विषशिखिभवसस्त्रैर्जायते तस्य मृत्युः ॥ बहुदिविचरयुक्ते लग्नेपे साष्टमेशे बहुजनमृतिवाले मृत्युमेति प्रजातः ॥११२॥ यदि चेत् विषघटिकायां, प्रतिनक्षत्रं केचिच्चत्वारो दण्डा विषघटिका उच्यन्ते । तथा हि मुहूर्त्तमार्त्तण्डे— ५० २४ ३० ४० १४ २१ पद्माशाब्जिखाग्नयश्च शक्रुता आखण्डला मूर्च्छनाः । ३० २० ३२ २० २० १८ २१ २० त्रिंशद्विशरदाः खरामनखधृत्यैकाश्विनौ विंशतिः ॥ २४ १४ १० २४ ५६ २४ २० १० ९० शकेन्द्रौ दश वासवा रसशराः सिद्धा नखाऽऽशा दिशो १८ ९६ २४ ३० ४ धृत्यष्टी जिनखाग्नयोऽश्विवत इमाभ्योऽग्रेऽब्धिनाड्यो विषम् । नक्षत्रस्य गतैष्ययोगगुणितः स्वस्वध्रुवः षष्ट्रिहृत् स्पष्टः स्यादत उर्ध्वमब्धिघटिकाः स्पष्टाः स्युरेवं कृताः । इति । तस्यां विषघटिकायां तथाऽष्टमे भावे पापग्रहयुक्ते यस्य जन्म भवति तस्य विषशि- खिमवशस्त्रैः = विषं गरलम्, शिखी अनलम्, भवः शिवस्तस्य शस्त्रं शूलं तैर्गरलानलशूलै- र्मरणं जायते । साष्टमेशे = अष्टमभावेशेन सहिते लग्नेपे = लग्नेशे बहुभिर्दिविचरैर्ग्रहैर्युक्ते प्रजातो नरः बहुजनमृतिवाले = बहवो जना म्रियन्ते यस्मिन्काले (महामारीप्रभृतिरोगपद्रवे) तस्मिन्काले मृत्युमेति = म्रियते ॥ ११२ ॥ यदि विषघटीमें जन्म हो और लग्नसे अष्टम स्थान पापग्रहसे युक्त हो तो जहरीले या अग्निवाले शस्त्रसे उस जातककी मृत्यु होती है। लग्नेश अष्टमेशके साथ और भी बहुत ग्रहोंसे युक्त हो तो जिस समय बहुत लोगोंकी मृत्यु होती हो (हैजा, प्लेगके समय) उस समय उसकी मृत्यु हो ॥ ११२ ॥ लग्नेशस्थनवांशस्य राशिकोपोद्भवार्मयैः ॥ मृत्युं तस्य वदन्त्येके हौरिका मुनिपुङ्गवाः ॥ ११३ ॥ लग्नेशः=जन्मलग्नपतिस्तिष्ठति यस्य नवांशे तस्य राशेः कोपोद्भवार्मयैः (तस्य नवांश- राशेर्यो धातुस्तद्धा तुविकाररोगैरित्यर्थः) तस्य जातस्य मृत्युमेके हौरिकाः=होराशास्त्रविदो मुनिपुङ्गवाः = महर्षयो वदन्ति ॥ ११३ ॥ लग्नेश जिसराशि सम्बन्धी नवांशमें स्थित हो उस राशिके कोपसे उत्पन्न रोगसे उस जातककी मृत्यु हो ऐसा होरा (ज्योतिः शास्त्रके) ज्ञाता श्रेष्ठ मुनि लोग कहते हैं ॥११३॥ होरेशेऽशगते तु तुम्बुरगृहे तापज्वराग्न्युद्भवै- र्व्रक्षे श्वासविकारशूलजनितैर्युग्मे शिरःशूलजैः ॥ वातोन्मादभवैः कुलीरभवने सिंहे विषस्फोटकैः कन्यायां जठराग्निगुह्यजनितैर्जातस्य मृत्युं वदेत् ॥ ११४ ॥ जूके शोकचतुष्पदज्वरभवैः कीटेऽश्मशस्त्रादिभि- श्चापे तीव्रमरुद्भवैर्मृगमुखे व्याघ्रादिशूलामयैः ॥ कुम्भे व्याघ्रवधूकतैर्निमिषे तोयातिसारैर्मृतिम् रंध्रस्यांशगता प्रचादधरिणी जातस्य मृत्युप्रदा ॥ ११५ ॥ इदानीं मेषादिद्वादशराश्यंशगते लग्नेशे जातस्य निर्याणकारणान्युच्यन्ते। होरेशे=जन्म- लग्नेशे तुम्बुरगृहे = मेषराशावंशगते=नवांशस्थिते तु जातस्य तापज्वराग्न्युद्भवैः रोगैर्मरणं