जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 223, कुल 588 में से
संदर्भ में पढ़ेंजातकभङ्गाध्यायः ॥ ६ ॥ १६७ इदानीं देवदर्शनाद् भूतप्रेतपिशाचदर्शनाच्च जातं रोगमाह— जातो निर्जरदर्शनेन जनितं रोगं सुखस्थानगे माने लग्नगतेऽथवाऽमरगुरौ केन्द्रे समन्दात्मजे । मन्देऽस्ते चरलग्नगे यदि शुभे पापेक्षिते शीतगौ भूतप्रेतपिशाचदर्शनवशाद् रोगं समेति ध्रुवम् ॥ ९४ ॥ जात इति । अमरगुरौ = बृहस्पतौ सुखस्थानगे = चतुर्थभावगते, माने = दशमभावे, लग्नगते=जन्मलग्ने स्थिते वा, केन्द्रे ( १।४।७।१० भावानामन्यतमे ) समन्दात्मजे=गुलि- कयुक्ते च जातो नरो निर्जरदर्शनेन=देवदर्शनेन=देवदर्शनादेव जनितमुत्पन्नं=रोगमेति । मन्द- इति । मन्दे=शनैश्चरेऽस्ते=सप्तमे गते, शुभे=शुभग्रहे यदि चरलग्नगे=लग्नगतचरराशौ, शीतगौ = चन्द्रे यत्र तत्रस्थे पापेक्षिते जातो भूतप्रेतपिशाचानां दर्शनवशाद् ध्रुवं = निश्चयेन रोगं = व्याधिं समेति = प्राप्नोतीति ॥ ९४ ॥ यदि बृहस्पति चौथे, या दशवें, या लग्नमें हो और गुलिक केन्द्रमें हो तो जातकको देवताके देखनेसे रोग उत्पन्न होवे । यदि शनि ७ वें, शुभग्रह चर लग्नमें हो और चन्द्रमा जहां कहीं पापग्रहसे दृष्ट होवे तो जातक को भूत-प्रेत-पिशाचके देखनेसे रोग होता है । (सु० ज्ञा० कार) ॥ ९४ ॥ इदानीं केषांचिद्रोगयोगानां विवरणमाह— चन्द्रे पापनिरीक्षिते रिपुगते पापान्विते वातजम् जातः शोणितपित्तमेति वसुधापुत्रे तथाऽस्ते सति । सौम्ये वातकफामयं भृगुसुते मूलातिसारं तथा मन्दे गुल्ममुपैति राहुशिखिनोः पैशाचरोगं वदेत् ॥ ९५ ॥ चन्द्र इति । चन्द्रे पापेन केनचिन्निरीक्षिते=दृष्टे, केनचित् पापेनान्विते=युक्ते, रिपुगते च जातो वातजं=वायुरोगं प्राप्नोति । वसुधापुत्रे=भौमेऽस्ते=सप्तमभावे तथा सति ( पाप- निरीक्षिते पापान्विते च ) शोणितपित्तरोगमेति । सौम्ये=बुधेऽस्ते पापनिरीक्षिते पापान्विते च वातकफामयं=वायुकफजातं रोगं प्राप्नोति । भृगुसुते=शुक्रे तथोक्तवत् स्थिते मूलातिसारं ( Dysentery ) मन्दे=शनैश्चरे तथा सति गुल्मं ( Colic ) रोगमुपैति । एवं राहु- शिखिनोः=राहुकेत्वोस्तथा स्थितयोः पैशाचरोगं जातकस्य वदेदिति ॥ ९५ ॥ चन्द्रमा षष्ठस्थानमें पापग्रहसे देखा जाता हो वा युक्त हो तो वातरोग होता है । मंगल सातवेंमें हो तो रक्तपित्त रोग होवे । बुध सप्तममें हो तो वातकफका रोग होवे । शुक्र ७वेंमें हो तो मूलातिसार रोग हो । शनि ७ वेंमें हो तो गुल्म रोग हो । राहु या केतु हो तो पिशाच रोग कहे ॥ ९५ ॥ इदानीं कासश्वासक्षयरोगं पीनसरोगाञ्चाह— कासश्वासक्षयजनिरुजं भानुभौमाहिदृष्टे षष्ठे सौरे गुलिकसहिते सौम्यदृग्योगहीने । रिःफे पापे शशिनि रिपुगे भानुजे रन्ध्रयाते पापांशस्थे तनुगृहपतौ पीनसं रोगमेति ॥ ९६ ॥ कासेति । सौरे = शनैश्चरे गुलिकेन सहिते षष्ठे = षष्ठभावङ्गते तस्मिन् भानुभौमाहि- भिः = सूर्यमङ्गलराहुभिर्दृष्टे सौम्यदृग्योगहीने = शुभग्रहदृष्टियोगरहिते जातः कासश्वास-क्षय- जनिरुजं = कासश्वासेन क्षयेन च जनितं रोगं ( Cough asthma and Consum- ption ) प्राप्नोति । तस्मिन्नेव योगे शुभदृग्योगे सति न रोगमेति । रिःफ इति । पापे =