जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 227, कुल 588 में से
संदर्भ में पढ़ेंराजयोगाध्यायः ॥ ७ ॥ २०१ लक्ष्मीपतिः = समस्ताया भुवोऽधिपतिर्भवेत् । अथ गोचापान्त्यभकेन्द्रगैः = गौः वृषः, चापं धनुः, अन्त्यो मीन एतेषु त्रिषु राशिषु तथा केन्द्र-( १।४।७।१० ) गतैश्च सकलैर्ग्रहैर्जा- यमानो नरः पृथुयशाः = अतीव यशस्वी पृथ्वीश्वरो राजा जायते भवति ॥ १ ॥ कन्या, मीन, मिथुन, वृष, सिंह, धनु और कुम्भराशिमें सब ग्रह स्थित हों तो वह मनुष्य सेना, मतवाले हाथी, घोड़ेके समूहसे युक्त यशस्वी राजा होवे। तुला, मेष, वृष, मीन, राशिमें सभी ग्रह जिसके जन्म समयमें हों वह सम्पूर्ण भूमण्डलका स्वामी हो। जिसके जन्म समयमें वृष, धनु, मीन राशिमें सब ग्रह स्थित हों, और केन्द्रमें हों वह राजा होता है ॥ १ ॥ कन्यामेषतुलामृगेन्द्रघटगैर्जातो महीपालको दुश्चिक्यप्रतिभारसातलगतैर्बह्वर्थदेशाधिपः ॥ खेटा विक्रमबन्धुपुत्रगृहगा द्वौ वित्तधर्मस्थितौ शेषौ लग्नकलत्रराशिसहितौ राजा भवेद्धार्मिकः ॥ २ ॥ कन्यामेषतुलामृगेन्द्रघटगैर्निखिलैर्ग्रहैर्जातो महीपालको नृपो भवति । दुश्चिक्यं = तृतीयं, प्रतिभा=पञ्चमं, रसातलं = चतुर्थं, तेषु गतैर्ग्रहै बह्वर्थदेशाधिपः = बहूनामर्थानां देशानाञ्चाधिपो भवति । अथ खेटाः = त्रयो ग्रहा विक्रमबन्धुपुत्रगृहगास्तृतीयचतुर्थपञ्चमभावगता भवेयुः । अथ च द्वौ ग्रहौ वित्तधर्मस्थितौ = द्वितीयनवमभावगतौ भवेतां । शेषौ = द्वौ लग्नकलत्रराशिस- हितौ = लग्नसप्तमभावगतौ भवेतां तदा जातो धार्मिको राजा भवेत् । अत्रेद मवधेयम् । सर्व एव (७) ग्रहा यथासम्भवं प्रथम-द्वितीय-तृतीय-चतुर्थ-पञ्चम-सप्तम-नवमभावे- ष्वेकैकशः स्थिता भवेयुस्तदा धर्मशीलो राजा भवेदिति । तथा च भावकुतूहले- एकैकेन खगेन जन्मसमये सैकावली कीर्तिता मुक्तालीव समस्तभूपमुकुटालङ्कारचूडामणिः । तज्जातो रिपुपुञ्जभञ्जनकरो गन्धर्वदिव्याङ्गनावृन्दानन्दपरो गुणव्रजधरो विद्याकरो मानवः ॥ इति। जिसके जन्म समयमें सभी ग्रह कन्या, मेष, तुला, सिंह और कुम्भमें स्थित हों वह राजा हो। जिसके जन्म समय ३।५।४ भावोंमें सब ग्रह हों वह बहुत धन और देशका मा- लिक हो। जिस मनुष्यके जन्म समय ३ ग्रह ३।४।५ भावों में हों २ ग्रह २।९ में हों शेष दो ग्रह लग्न और सप्तममें हों ( १।२।३।४।५।७।९ में सब ग्रह हों) वह धार्मिक राजा होवे ॥ २ ॥ तारेशहोरासहिता नभोगो जातो यशस्वी मनुजाधिपः स्यात् । सौम्यास्तपोलाभगृहोपयाताः पापा रिपुव्योमगता नरेशः ॥ ३ ॥ नभोगाः = सर्वे ग्रहास्तारेशहोरासहिताश्चन्द्रस्य होरायां गता भवेयुः । 'होरा राश्यर्द्ध- मोजे दिनकरशशिनोरिन्दुमार्त्तण्डहोरे युग्मे राशौ' इत्युक्तत्वात् १,३,५,७,९,११ राशीना- मुत्तराद्धे २,४,६,८,१०,१२ राशीनामाद्यर्धे चन्द्रस्य होरा भवन्ति तासु यथासम्भवं सर्वे ग्रहा भवेयुः ( समराशीनामाद्यर्द्धे विषमराशीनामपरार्द्धे चेत्यर्थः) तदा जातो नरो यशस्वी = कीर्तिमान् मनुजाधिपो राजा स्यात् । सौम्या इति । सौम्याः = बुधगुरुशुक्रशुक्लचन्द्राः तपोलाभगृहोपयाताः = नवमैकादशभावगताः, पापाः = क्षीणोन्द्वर्क्रमहीसुतार्कतनयाः रिपुव्योम- गताः = षष्ठदशमभावगता भवेयुस्तदा जातो नरेशो राजा भवेत् ॥ ३ ॥ सभी ग्रह चन्द्रमाकी होरामें होवें ऐसे समय जिस मनुष्यका जन्म हो वह यशस्वी राजा होता है। शुभग्रह नववें और ११ वें भावमें हों पाप ग्रह छठे और दशवें हों तो जातक राजा होता है ॥ ३ ॥