भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 228, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 228

२०२ सटीकजातकपारिजाते- लग्नास्पदानङ्गगृहोपयाता बलान्विताः शोभनखेचरेन्द्राः । कुजार्कपुत्रौ नवमायसंस्थौ नृपो भवेत्सर्वगुणाभिरामः ॥ ४ ॥ बलिनः शुभग्रहाः लग्न-दशम-सप्तमभा- वगताः, भौमो नवमे, शनिरेकादशे स्थितो भवे- त्तदा जातः सर्वगुणसम्पन्नो राजा भवेत् ॥४॥ जिसके जन्म समयमें बलवान् शुभ ग्रह लग्न दशम और सप्तम भावमें प्राप्त हों, मङ्गल और शनि नववें और ग्यारहवें हों तो वह सर्व- गुणोंसे सुशोभित राजा होवे ॥ ४ ॥

[चक्रम् / कुण्डली]
+-----------------------------------+
|   १       \       १२ च.     /  ११ |
| २          \               /      |
|             \             /       |
|----+---------+-----------+--------+
|    |         |           | १० श.  |
|    |    ३    |    बृ. ९  |        |
|    |         |           |        |
|----+---------+-----------+--------+
|    |         |           |        |
| ४  |         |   शु. ६ बु.|   ८ मं.|
|    |    ५ र. \           /        |
|    |          \    ७    /         |
+----+-----------+-------+----------+

वर्गोत्तमांशोपगते विलग्ने चन्द्रेऽथवा चन्द्रविमुक्तखेटैः । सुखास्पदानङ्गगृहोपयातैर्विलोकितैर्मानवनायकः स्यात् ॥ ५ ॥ वर्गोत्तमेति । विलग्ने=जन्मलगने वर्गोत्तमांशोपगते=स्वकीयवर्गोत्तमनवांशे गतेऽथवा चन्द्रे वर्गोत्तमांशोपगते तस्मिन् सुखास्पदानङ्गगृहोपयातैश्चतुर्थदशमसप्तमस्थैश्चन्द्रविमु- क्तखेटैश्चन्द्रं विहायापरैर्ग्रहैर्विलोकिते = दृष्टे जातो मानवनायको राजा स्यात् । तथा च बृहज्जातके- वर्गोत्तमगते लग्ने चन्द्र वा चन्द्रवर्जितैः । चतुराद्यैर्ग्रहैर्दृष्टे नृपा द्वाविंशतिः स्मृताः ॥ इति ॥ अत्र लग्नं चन्द्रः पश्येन्नवा पश्येत्परञ्च स द्रष्टृत्वेन न गण्यत इति चन्द्रविमुक्तखेटैरि- त्युक्तं, चन्द्रः पश्यतु कामं स द्रष्टृत्वेन न गण्यते' इति प्राजापत्यवचनात् ॥ ५ ॥ जिसके जन्म समयमें लग्न वा चन्द्रमा वर्गोत्तमांशमें हो उसे चन्द्रमा को छोड़ कर चतुर्थ, दशम, सप्तम, स्थानमें प्राप्त सब ग्रह देखते हों तो वह राजा होता है ॥ ५ ॥ अश्विन्यामुदयस्थिते भृगुसुते सर्वग्रहैरीक्षिते जातो राजकुलाग्रजो रिपुकुलध्वंसी बहुस्त्रीरतः ॥ हित्वा नीचनवांशमम्बरचरैस्त्र्याद्यैः स्वभागान्वितै- रेको लग्नगतो यदि क्षितिपतिः पञ्चादिकैर्वित्तवान् ॥ ६ ॥ अश्विन्यामिति । भृगुसुते=शुक्के अश्विन्यामुदयेऽश्विनीनक्षत्रे जन्मलग्ने स्थिते सति सर्वग्रहैः = षड्भिः ( र. चं. मं. बु. बृ. श. ) ईक्षिते = दृष्टे जातो राजकुलाग्रजः=महाराजः, रिपुकुलानां = द्विषतां ध्वंसी = विनाशको बहुस्त्रीरतश्च भवति । तथा जातकादेशे- अश्विन्यां लग्नगः शुक्रः सर्वग्रहनिरीक्षितः । करोति पृथिवीपालं निर्जितारातिमण्डलम् ॥ इति ॥ हित्वेति । नीचनवांशकं = यत्र कुत्रापि नीचराशिनवांशकं परित्यज्य त्र्याद्यैस्त्रिप्रभृति- भिरम्बरचरैः = ग्रहैः स्वभागान्वितैरात्मीयनवांशे समवस्थितैस्तेषां कश्चिदेको ग्रहो लग्नगतो भवेत्तदा जातः क्षितिपती राजा भवति । पञ्चादिकैर्ग्रहैः स्वभागान्वितैर्वित्तवान्=पञ्च षट् सप्त वा ग्रहाः स्वनवांशगाः स्युस्तदा जातो वित्तवान् नृपो भवेत् । तथा हि- नीचांशकान् परित्यज्य त्र्यादिस्त्रेत्रोषसंस्थिताः । तेषामेको विलग्नस्थः कुर्वन्ति पृथिवीपतिम् । पञ्चादिभिस्तथा भूतैर्ग्रहैरन्योऽपि नान्यथा । द्वाभ्यां चतुर्भिरते स्युरुभये धनिनः परम् ॥ इति ॥ जिस मनुष्यके जन्म समय शुक्र अश्विनी नक्षत्रमें होकर लग्नमें स्थित हो उसे सभी ग्रह देखते हों तो वह राजा-कुलमें अग्रज, शत्रु-कुलका संहारक, बहुत स्त्रियोंसे विलास करने वाला होता है । नीच नवांशको छोड़कर तीन आदि ग्रह स्वभावमें स्थित हों उसमें एक भी लग्नमें यदि हो तो राजा हो । पांच आदि ग्रह स्वभावमें हों तो वित्तवान् राजा हो ॥ ६ ॥