भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 229, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 229

राजयोगाध्यायः । १७। २०३ शुक्रेऽरिनीचमपहाय कुटुम्बसंस्थे लग्नेश्वरे बलयुते पृथिवीपतिः स्यात् । चन्द्रेऽतिमित्रनिजभागगते निशायां शुक्रेक्षिते नृपतिरन्यविलोकहीने ॥७॥ शुक्र इति । अरिनीचं=शत्रुराशिं नीचराशिञ्चापहाय=त्यक्त्वा कुटुम्बसंस्थे = द्वितीय- भावगते शुक्रे ( द्वितीयो भावः शुक्रस्य नीचं शत्रुगृहं वा न भवेत्तत्र शुक्रः स्थितः स्यादि- ति ) लग्नेश्वरे तत्र बलयुक्ते सति जातः पृथि- वीपती राजा भवेत् । तथा जातकादेशे- शत्रुनीचगृहं त्यक्त्वा कुटुम्बस्थः सभांगवः । लग्नेश्वरो बली यत्र स नरः पृथिवीपतिः । इति॥ [कुण्डली १: लग्न १ (र.), २, ३, ४, १०, ११ (शु. श.), १२] चन्द्र इति । अतिमित्रस्य=तत्काले नैस- र्गिके च मित्रस्य वा निजस्यात्मनोभागगते [L1