जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 239, कुल 588 में से
संदर्भ में पढ़ेंराजयोगाध्यायः ॥७॥ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ २१५ अत्रेदमुक्तं भवति। चतुर्थो भावो मकरराशिस्तत्र शनिर्भवेत्तदा धनूराशिस्तृतीयो भावस्तत्र गुरुशुक्रचन्द्रा भवेयुः, तदानीं लग्नं तुलाराशिस्तत्र बुधो भवेत्तथा कन्या द्वादशो भावस्तत्र कुज इति। तदानीं जातोऽतिशयबलयुक्तः = महाबलशाली, सर्वभूपालपूज्योऽखिलनृपति- वन्द्यो नृपः = राजाधिराजो भवेदिति ॥ २६ ॥ जिसके जन्मसमयमें गुरु और शुक्रसे युक्त चन्द्रमा धनुमें हो, बुध लग्नमें हो, मंगल कन्यामें हो, मकरका शनि सुख (४) में हो तो वह अत्यन्त बलसे युक्त सब राजाओंका पूज्य राजा होवे ॥ २६ ॥ कन्यावसानयुगचापमृगाननस्थैः सौम्येन्दुभौमगुरुभानुसुतैनृपालः। मीनोदये शशिनि पूर्णतनौ बलाढ्ये स्वोच्चे कुजे रविसुते घटगे नरेशः॥२७॥ कन्येति। कन्यावसानयुगचापमृगाननस्थैः=कन्या-मीन-मिथुन-धनुर्धर-मकरराशि- गतैः, सौम्येन्दुभौमगुरुभानुसुतैः=बुध-चन्द्र-मङ्गल-बृहस्पति-शनैश्चरैः। एतदुक्तं भवति। बुधः कन्यायां, चन्द्रो मीने, मङ्गलो मिथुने, गुरुर्धनुषि, शनिर्मकरे स्थितो भवेत्तदा जातो नृपालो राजा भवति। अत्र केवलं राशिनिर्देश एव कृतो न भावनिर्देशः। किन्तु बृहज्जातके वराहेण तेष्वेव राशिषु तेषामेव ग्रहाणां भावपरत्वेन स्थितिरुक्ता। तथथा— नृगे मन्दे लग्ने सहजरिपुधर्मव्ययगतैः शशाङ्काद्यैः ख्यातः पृथुगुणयशाः पुङ्गलपतिः। इति॥ एवं सारावल्याम्— मृगे मन्दे लग्ने कुमुदवनबन्धुश्च तिमिगः तथा कन्यां त्यक्त्वा बुधभवनसंस्थः क्षितनयः। स्थितो नार्यां सौम्यो धनुषि सुरमन्त्री यदि भवेत् तदा जातो भूपः सुरपतिसमः प्राप्तमहिमा। इति॥ तथात्वे लग्ने मकरगतः शनिः। कन्यागतो नवमे बुधः। मीने तृतीये चन्द्रः। मिथुने षष्ठे भौमः। धनुषि द्वादशे गुरुश्च भवेदिति। मीनोदय इति। पूर्णतनौ = सकलकले, बलाढ्ये = सबले च, शशिनि=चन्द्रे, मीनोदये= मीनराशिगतलग्ने विलसति, कुजे = मङ्गले, स्वोच्चे=मकरराशौ, (लाभगते) रविसुते=शनौ, घटगे = कुम्भराशिगते (व्ययगते) जातो नरेशो भवति। तथा सारावल्याम्— उदयति मीने शशिनि नरेन्द्रः सकलकलाढ्यः, क्षितिसुत उच्चे। मृगेपतिसंस्थे दशशतकररमौ घंटे धरगे स्याद्दिनकरपुत्रे ॥ इति ॥ २७ ॥ जिसके जन्मसमय बुध, चन्द्रमा, मंगल और शनि यदि कन्या, मीन, कर्क, धनु और मकरमें क्रमशः स्थित हों तो वह राजा हो। यदि मीन लग्न हो उसमें पूर्ण बली चन्द्रमा हो मंगल उच्च (मकर) में हों शनि कुम्भमें हो तो राजा होता है ॥ २७ ॥
[चक्र १: नृपयोग:]
- ११ | १० श. | ९ वृ.
- १२ चं. | ८
- १ | नृपयोगः | ७
- २ | ६ बु.
- ३ मं. | ४ | ५
[चक्र २:]
- १ | १२ चं. | ११ श
- २ | १० मं.
- ३ | ९
- ४ | ६ | ८
- ५ गु. | ७