जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 240, कुल 588 में से
संदर्भ में पढ़ें२१४ सटीकजातकपारिजाते- मृगोदयस्थे यदि भूकुमारे कुलीरगे चन्द्रमसि क्षितीशः । धराजपूषामरवन्द्यमाना मृगाजकुम्भोपगता नरेशः॥ २८ ॥ मृगेति । यदि भूकुमारे = मङ्गले, मृगोदयस्थे = मकरराशिलग्ने गतवति, चन्द्रमसि, कुलीरगे=कर्कराशिरगते ( सप्तमभाव इति ) तदा जातः क्षितीशो राजा, भवति । धराजेति । धराजपूषामरवन्द्यमानाः = भौमसूर्य्यगुरवः, मृगाजकुम्भोपगताः = मकरमेषकुम्भगताः अर्थात्त्र तत्र भौमो मकरे, सूर्यो, मेषे, गुरुः कुम्भे स्थितो भवेत्तदा जातो नरेशः = राजा भवति ॥ २८ ॥ जिस मनुष्यके जन्म-कालमें मंगल मकर लग्नमें हो, कर्कका चन्द्रमा हो तो वह राजा होता है। यदि मंगल, सूर्य और वृहस्पति मकर, मेष, कुम्भमें क्रमशः स्थित हों तो राजा होता है ॥ २८ ॥ लग्नाधिपेतरयुते यदि पूर्णचन्द्रे शुक्राज्ञदेवगुरुदृष्टियुते तु राजा । वर्गोत्तमांशसहिता गुरुशुक्रभौमाः पापा न केन्द्रभवनोपगता नरेशः ॥ २६ ॥ लग्नेति । यदि पूर्णचन्द्रे=सकलकलान्विते चन्द्रे, लग्नाधिपेतरयुते=लग्नपतिं विहायान्येन केनचिद् ग्रहेण युते, तथाभूते शुक्राज्ञदेवगुरुदृष्टियुते = शुक्रबुधगुरूणामन्यतमेन सर्वैर्वा निरीक्षिते तु जातो राजा भवति । अथ च गुरुशुक्रभौमाः वर्गोत्तमांशसहिताः = स्वस्ववर्गो- त्तमन्वांशगताः स्युः, पापाः ( सूर्यशनिक्षीणचन्द्राः ) केन्द्रभवनोपगताः ( १।४।७।१० भावगताः ) न भवेयुस्तदा जायमानो नरो नरेशः = राजा भवेदिति ॥ २९ ॥ जिसके जन्मसमय चन्द्रमा लग्नाधिपके अतिरिक्त ग्रहसे युक्त और शुक्र-बुध-बृह- स्पतिसे दृष्ट हो तो वह राजा हो यदि गुरु, शुक्र और मंगल वर्गोत्तमांशमें हों और पापग्रह केन्द्रमें न हों तो राजा होता है ॥ २९ ॥ शीर्षोदयेषु निखिलद्युचरेषु चन्द्रे सौम्यग्रहेक्षणयुते कटके महीपः । लग्नाधिपे नवमगे दशमस्थिते वा लग्ने सुधाकरयुते पृथिवीपतिः स्यात् ॥३०॥ शीर्षेति । निखिलद्युचरेषु = सकलग्रहेषु चन्द्रवर्जितेषु, शीर्षोदयेषु = सिंहकन्यातुला- वृश्चिकमिथुनकुम्भेषु राशिषु गतेषु, चन्द्रे सौम्यग्रहेक्षणयुते=शुभग्रहदृष्टिसहिते, कटके=कर्क- राशिलग्ने विलसति जातो महीपः=राजा भवति । तथा हि सारावल्याम्— शीर्षोदयर्क्षेषु गताः समस्ता नीचारिवर्गे स्वगृहे शशाङ्कः । सौम्येक्षितोऽन्यूनकलो विलग्ने दद्यान्महीं रत्नगजाश्वपूर्णाम् ॥ इति । लग्नाधिप इति । लग्नाधिपे=लग्नेशे, नवमगे वा दशमस्थिते, लग्ने च सुधाकरेण चन्द्रेण युते ( चन्द्रे लग्नगत इत्यर्थः ) जातः पृथिवीपतिः = राजा स्यादिति ॥ ३० ॥ जिसके जन्मसमय शीर्षोदयराशि ( मि० सिं० क० तु० वृ० कु० ) में सभी ग्रह हों और चन्द्रमा शुभ ग्रहसे दृष्ट या युत होकर कर्कमें हो तो वह राजा होता है । लग्नेश नवम वा दशम हो और लग्नमें चन्द्रमा हो तो राजा होता है ॥ ३० ॥ चापाङ्कं गतवान् सहस्रकिरणस्तत्रैव ताराधिपो लग्ने भानुसुतेऽतिवीर्यसहिते स्वोच्चे च भूनन्दनः । यद्येवं भवति क्षितेरधिपतिः सन्त्यज्य शौर्यं भयाद् दूरादेव नमन्ति तस्य रिपवो दग्धाः प्रतापाग्निना ॥ ३१ ॥