जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 248, कुल 588 में से
संदर्भ में पढ़ें२२२ सटीकजातपारिजाते- सूर्य मीन राशिका हो, कर्क लग्नमें चन्द्रमा हो ऐसे योगमें जायमान नर राजा होता है। उपर्युक्त जितने राजयोग कारक ग्रह हैं वे अपने शत्रु और नीचगत ग्रहसे देखे जावें तो राजयोग नहीं करते। (सु० शा० कार) ॥ ५५ ॥ जनयति नृपमेकोऽप्युच्चगो मित्रदृष्टः प्रचुरगुणसमेतं मित्रयोगाच्च सिद्धम् । विवसुविसुखमूढंव्याधितो बन्धुतप्तो वधदुरितसमेतः शत्रुनिम्नर्क्षगेषु ॥ ५६॥ जनयतीति । एकः अपि उच्चगः = स्वकीयोच्चराशिस्थो ग्रहो मित्रदृष्टः = मित्रग्रहेणा- वलोकितश्च यदि भवेत्तदा एकोऽप्यसौ ग्रहो जातं प्रचुरगुणसमेतं नृपं = भूपतिं जनयति करोति । मित्रयोगाच्च = उच्चस्थ एकोऽपि ग्रहो मित्रग्रहेण युक्तो भवेत्तदा सिद्धं = सिद्धियुक्तं नृपं जनयति । विवसु-इति । उक्तयोगकारकेषु ग्रहेषु, शत्रुनिम्नर्क्षगेषु = शत्रुराशिगतेषु, [L