जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 264, कुल 588 में से
संदर्भ में पढ़ें२६८ सटीकजातकपारिजाते- अथ शकटयोगफलम् । अपि राजकुले जातो निःस्वः शकटयोगजः । क्लेशायासवशान्नित्यं सन्तप्तो नृपविप्रियः ॥ १०६ ॥ अनेन श्लोकेन सरलार्थेन शकटयोगफलमुच्यते ॥ १०९ ॥ शकट योगमें उत्पन्न होनेवाला राजकुलका भी हो तो भी दरिद्र, अनेक कष्ट और प्रयास से नित्य सन्तप्त और राजाका अप्रिय होता है ॥ १०९ ॥ अथ पारिजातादियोगफलानि । सपारिजातद्युचरः सुखानि नीरोगतामुत्तमवर्गयातः । सगोपुरांशो यदि गोधनानि सिंहासनस्थः कुरुते विभूतिम् ॥ ११० ॥ करोति पारावतभागयुक्तो विद्यायशःश्रीविपुलं नराणाम् । सदेवलोको बहुयानसेनामैरावतस्थो यदि भूपतित्वम् । प्रथमाध्याये ४५।४६ तमे श्लोके उक्ता ये पारिजातादिवर्गास्तेषां फलान्यत्रोच्यन्ते श्लोकद्वयेन सरलार्थेनेति ॥ ११०-१११ ॥ अपने पारिजात भागमें ( १ अ० ४५-४७ श्लो० ) रहनेवाला ग्रह सुख देता है । उत्तम वर्गवाला ग्रह नीरोग करता है । यदि गोपुरांशमें ग्रह हो तो गौ और धन देता है । सिंहा- सन वाला ग्रह विभूति ( सम्पत्ति ) को देता है । पारावत भागमें युक्त ग्रह मनुष्यों को विद्या, यश और विपुल लक्ष्मीको प्राप्त कराता है । देवलोकसे युक्त ग्रह बहुत सवारी और सेनाको देता है और यदि ऐरावत अंशमें स्थित हो तो राजा बनाता है ॥ ११०-१११ ॥ अथ अधमादि योगाः । अधमसमवरिष्टान्यर्ककेन्द्रादिसंस्थे शशिनि विनयवित्तज्ञानधीनैपुणानि । अहनि निशि च चन्द्रे स्वाधिमित्रांशके वा सुरगुरुसितदृष्टे वित्तवान् स्यात् सुखी च ॥ ११२ ॥ इदानीं सूर्याच्चन्द्रमसोः स्थितिवशेनाधममध्यमवरिष्ठयोगानाह—अधमेति । शशिनि = चन्द्रे, अर्ककेन्द्रादिसंस्थे = सूर्यात् केन्द्रादौ गतवति अधमसमवरिष्टानि विनयवित्तज्ञानधी- नैपुणानि भवन्ति । एतदुक्तं भवति । सूर्यात् केन्द्रगते चन्द्रे अधमो योगस्तस्मिन् विनय- वित्तज्ञानधीनैपुणानि अधमानि भवन्ति । सूर्यात् पणफरे गतवति चन्द्रे समो योगस्तस्मिन् विनयादि समं वाच्यम् । सूर्यात् आपोक्लिमे गते चन्द्रे वरिष्ठो योगस्तस्मिन् विनयादि वरिष्ठं वाच्यमिति । तथोक्तञ्च— "सहस्ररश्मितश्चन्द्रे कण्टकादिगते सति । न्यूनमध्यवरिष्ठानि धनधीनैपुणानि च" इति । पाराशरीये । अहनीति । अहिनि = दिने, निशि = रात्रौ च स्वांशे, वा अधिमित्रग्रहनवांशे गतवति चन्द्रे क्रमेण गुरुणा, शुक्रेण दृष्टे । दिने स्वांशे वाऽधिमित्रांशे चन्द्रे गुरुणा दृष्टे, रात्रौ भृगुणा दृष्टे सति जातो वित्तवान् सुखी च स्यात् । तथा हि— स्वांशेऽधिमित्रस्यांशे वा स्थिते वा दिवसे शशी । गुरुणा दृश्यते तत्र जातो वित्तसुखान्वितः ॥ स्वाधिमित्रांशगश्चन्द्रो दृष्टो दानवमन्त्रिणा । निशासु कुरुते लक्ष्मीं छत्रध्वजसमाकुलाम् ॥ इति पाराशरीये ॥ ११२ ॥ यदि सूर्यसे चन्द्रमा केन्द्र ( १।४।७।१० ) में हो तो अधम, पणफर ( २।५।८।११ ) में हो तो मध्यम, आपोक्लिम ( ३।६।९।१२ ) में हो तो वरिष्ठ ( उत्तम ) योग होते हैं । उन