भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 265, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 265

अधम आदि योगोंमें विनय, वित्त, ज्ञान, बुद्धि और निपुणता योगोंके नामानुसार ही होती है । दिनमें या रात्रिमें चन्द्रमा अपने या अधिमित्रके नवांशमें हो उसे क्रमसे बृहस्पति और शुक्र देखता हो तो धनवान् और सुखी हो । ( बृ० जा० कार ) ॥ ११२ ॥ अथ चन्द्राधियोगः । सौम्यैः स्मरारिनिधनेष्वधियोग इन्दोस्तस्मिंश्चमूपसचिवक्षितिपालजन्म । सम्पत्तिसौख्यविभवा हतशत्रवश्च दीर्घायुषो विगतरोगभयाश्च जाताः ॥ ११३ ॥ इदानीं चन्द्राधियोगमाह—सौम्यैरिति । इन्दोः = चन्द्रस्थानात्, स्मरारिनिधनेषु = सप्तमषष्ठाष्टमभावेषु, सौम्यैः = शुभग्रहैः ( बुधगुरुशुक्रैः ) यथासम्भवमुपगतैः, अधियोगः स्यात् । योगोऽयमधियोगसञ्ज्ञको भवति । तत्फलमाह । तस्मिन्नधियोगे चमूपस्य = सेनाधिपतेः ( Commander's ) सचिवस्य = राजमन्त्रिणः ( Minister's ) क्षिति- पालस्य = राज्ञः, जन्म भवति । अधियोगे जातो राजा, मन्त्री, चमूपो वा भवति । तथा तत्र जाताः सम्पत्तिसौख्यवन्तो हतशत्रवः दीर्घायुषो विगतरोगभयाश्च भवन्ति । तथाहि—

| “शशिनः सौम्याः षष्ठे
द्यूने वा निधनसंस्थिता वा स्युः ।
जातो नृपतिर्ज्ञेयो
मन्त्री वा सैन्यनायको वाऽपि ॥
स्यादधियोगे जातः सौम्यैः सबलैरधराधीशः ।
मध्यबलैर्मन्त्री स्यादधमबलैः सैन्यना-
यकः स्यात्” इति बादरायणः ॥११॥ |

चं.

चन्द्रात्
अधियोगः

बु.

शु.

बृ.

**Notes—**चन्द्रात् षष्ठसप्तमाष्टमभावेषु पापैः पापाधियोगः, मिश्रग्रहैः ( पापैः शुभैश्च ) मिश्रयोगो भवति । ‘पापः पापैरेवं मिश्रैर्मिश्रस्तथै- वोक्तः’ इति वचनात् । यदि चन्द्रमासे छठे, सातवें या आठवें भवनमें शुभग्रह हों तो ‘अधियोग’ होता है । इस योगमें सेनापति, राजमन्त्री और राजाका जन्म होता है। इसमें जन्म लेनेवाले सम्पत्ति- सौख्य-विभव युत, शत्रु रहित, रोगरहित और भयरहित होते हैं ॥ ११३ ॥ अथ लग्नाधियोगः । लग्नादरिचूनगृह्राष्टमस्थैः शुभैर्न पापग्रहयोगदृष्टैः । लग्नाधियोगो भवति प्रसिद्धः पापैः सुखस्थानविवर्जितैश्च ॥ ११४ ॥ लग्नाधियोगे बहुशास्त्रकर्ता विद्याविनीतश्च बलाधिकारी । मुख्यस्तु निष्कापटिको महात्मा लोके यशोवित्तगुणान्वितः स्यात् ॥११५॥

| इदानीं लग्नाधियोगमाह—लग्नादि-
ति । जन्मलग्नात्, अरिद्यूनगृहाष्टमस्थैः =
षष्ठ-सप्तमाष्टमभावेषु व्यवस्थितैः शुभैः =
शुभग्रहैः ( बुधगुरुशुक्रैः ) न पापग्रहयुक्तैः,
न पापग्रहदृष्टैश्च, तथा पापैः = पापग्रहैः,
सुखस्थानविवर्जितैः = चतुर्थस्थानरहितैः ।
एतदुक्तं भवति । लग्नात् ६, ७, ८ भावेषु
यथासम्भवं सर्वे शुभग्रहा भवेयुस्तेषु कश्चित् |

ल.

लग्नाधियोगः

बु.

चं. बृ.

शु.