जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 265, कुल 588 में से
संदर्भ में पढ़ेंअधम आदि योगोंमें विनय, वित्त, ज्ञान, बुद्धि और निपुणता योगोंके नामानुसार ही होती है । दिनमें या रात्रिमें चन्द्रमा अपने या अधिमित्रके नवांशमें हो उसे क्रमसे बृहस्पति और शुक्र देखता हो तो धनवान् और सुखी हो । ( बृ० जा० कार ) ॥ ११२ ॥ अथ चन्द्राधियोगः । सौम्यैः स्मरारिनिधनेष्वधियोग इन्दोस्तस्मिंश्चमूपसचिवक्षितिपालजन्म । सम्पत्तिसौख्यविभवा हतशत्रवश्च दीर्घायुषो विगतरोगभयाश्च जाताः ॥ ११३ ॥ इदानीं चन्द्राधियोगमाह—सौम्यैरिति । इन्दोः = चन्द्रस्थानात्, स्मरारिनिधनेषु = सप्तमषष्ठाष्टमभावेषु, सौम्यैः = शुभग्रहैः ( बुधगुरुशुक्रैः ) यथासम्भवमुपगतैः, अधियोगः स्यात् । योगोऽयमधियोगसञ्ज्ञको भवति । तत्फलमाह । तस्मिन्नधियोगे चमूपस्य = सेनाधिपतेः ( Commander's ) सचिवस्य = राजमन्त्रिणः ( Minister's ) क्षिति- पालस्य = राज्ञः, जन्म भवति । अधियोगे जातो राजा, मन्त्री, चमूपो वा भवति । तथा तत्र जाताः सम्पत्तिसौख्यवन्तो हतशत्रवः दीर्घायुषो विगतरोगभयाश्च भवन्ति । तथाहि—
| “शशिनः सौम्याः षष्ठे
द्यूने वा निधनसंस्थिता वा स्युः ।
जातो नृपतिर्ज्ञेयो
मन्त्री वा सैन्यनायको वाऽपि ॥
स्यादधियोगे जातः सौम्यैः सबलैरधराधीशः ।
मध्यबलैर्मन्त्री स्यादधमबलैः सैन्यना-
यकः स्यात्” इति बादरायणः ॥११॥ |

चं.

चन्द्रात्
अधियोगः

बु.

शु.

बृ.

**Notes—**चन्द्रात् षष्ठसप्तमाष्टमभावेषु पापैः पापाधियोगः, मिश्रग्रहैः ( पापैः शुभैश्च ) मिश्रयोगो भवति । ‘पापः पापैरेवं मिश्रैर्मिश्रस्तथै- वोक्तः’ इति वचनात् । यदि चन्द्रमासे छठे, सातवें या आठवें भवनमें शुभग्रह हों तो ‘अधियोग’ होता है । इस योगमें सेनापति, राजमन्त्री और राजाका जन्म होता है। इसमें जन्म लेनेवाले सम्पत्ति- सौख्य-विभव युत, शत्रु रहित, रोगरहित और भयरहित होते हैं ॥ ११३ ॥ अथ लग्नाधियोगः । लग्नादरिचूनगृह्राष्टमस्थैः शुभैर्न पापग्रहयोगदृष्टैः । लग्नाधियोगो भवति प्रसिद्धः पापैः सुखस्थानविवर्जितैश्च ॥ ११४ ॥ लग्नाधियोगे बहुशास्त्रकर्ता विद्याविनीतश्च बलाधिकारी । मुख्यस्तु निष्कापटिको महात्मा लोके यशोवित्तगुणान्वितः स्यात् ॥११५॥
| इदानीं लग्नाधियोगमाह—लग्नादि-
ति । जन्मलग्नात्, अरिद्यूनगृहाष्टमस्थैः =
षष्ठ-सप्तमाष्टमभावेषु व्यवस्थितैः शुभैः =
शुभग्रहैः ( बुधगुरुशुक्रैः ) न पापग्रहयुक्तैः,
न पापग्रहदृष्टैश्च, तथा पापैः = पापग्रहैः,
सुखस्थानविवर्जितैः = चतुर्थस्थानरहितैः ।
एतदुक्तं भवति । लग्नात् ६, ७, ८ भावेषु
यथासम्भवं सर्वे शुभग्रहा भवेयुस्तेषु कश्चित् |

ल.

०

लग्नाधियोगः

बु.

चं. बृ.

शु.