जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 279, कुल 588 में से
संदर्भ में पढ़ेंराजयोगाध्यायः ॥७॥ २५३ अथ अंशावतारयोगः । केन्द्रगौ सितदेवेज्यौ स्वोच्चे केन्द्रगतेऽर्कजे । चर लग्ने यदा जन्म योगोऽयमवतारजः ॥ १६० ॥ पुण्यश्लोकस्तीर्थचारी कलाज्ञः कामासक्तः कालकर्ता जितात्मा । वेदान्तज्ञो वेदशास्त्राधिकारी जातो राजश्रीधरोंऽशावतारे ॥ १६१ ॥ अधुना अंशावतारयोगस्तत्फलञ्चोच्यते । सितदेवेज्यौ = शुक्रगुरू, केन्द्रगौ चरराशि- गतौ भवेतां ( चरलग्न इत्युक्तत्वात् ), अर्कजे = शनैश्चरे, स्वोच्चे तुलायां केन्द्रगते, चर लग्ने = मेषकर्कतुलामकरान्यतमे राशौ लग्ने, यदा जन्म भवेत्तदा अयं अवतारजः योगो भवति । अस्मिन्योगे जातो नरः - पुण्यश्लोकः, तीर्थचारी, कलाज्ञः, कामासक्तः, कालकर्ता, जितात्मा, वेदान्तज्ञः, वेदशास्त्राधिकारी, राजश्रीधरश्च भवति ॥ १६०-१६१ ॥ यदि शुक्र और बृहस्पति केन्द्रमें हों, शनैश्चर अपने उच्च का होकर केन्द्रमें स्थित हो और चर लग्नमें जन्म हो तो यह 'अवतार' योग कहा जाता है ॥ १६० ॥ अंशावतार योग में उत्पन्न जातक पुण्यचरित्रवाला, तीर्थसेवी, कलाविद्, काममें आसक्त, सामयिक, जितेन्द्रिय, वेदके तत्त्वको जाननेवाला, वेद और शास्त्र का अधिकारी और राज्यश्रीवाला पुरुष होता है ॥ १६१ ॥ अथ हरि-हर-विधियोगाः । वित्तेशाद्धनरिःफरन्ध्रभवनप्राप्ताश्च सौम्यग्रहाः, कामेशान् सुखभाग्यरन्ध्रगृहगा जीवार्जचन्द्रात्मजाः । देहेशाद्यदि बन्धुमानभवगा सूर्यास्फुजिद्भूमिजाः प्रोक्तास्तत्र पुरातनैर्हरिहरब्रह्माख्ययोगा इमे ॥ १६२ ॥ निखिलनिगमविद्यापारगः सत्यवादी सकलसुखसमेतश्चारुवाक् कामशीलः । जितरिपुकुलसङ्घः सर्वजीवोपकारी हरिहरविधियोगे सम्भवः पुण्यकर्मा १६३ इदानीं हरिहरब्रह्मयोगान् तत्फलानि चाह—वित्तेशादिति । हरियोगः-वित्तेशात् = द्वितीयभावपतेः सकाशात्, धनरिःफरन्ध्रभवनप्राप्ताः = द्वितीय-द्वादश-अष्टमभावानुपगताः, सौम्यग्रहाः = शुभग्रहाः ( यथासम्भवम् ) भवेयुस्तदा हरियोगः । हरयोगः-कामेशात् = सप्तमभावेशात् , १. हरियोगोदाहरणम् । सुखभाग्यरन्ध्रगृहगाः = चतुर्थ-नवम-अष्टमभा- वगताः, जीवार्जचन्द्रात्मजाः = गुरुचन्द्रबुधा भवेयुस्तदा हरयोगः । ब्रह्मयोगः-देहेशात् = जन्मलग्नेशात् , बन्धुमानभवगाः = चतुर्थदशमैकादशभावग- ता यदि सूर्यास्फुजिद्भूमिजाः = सूर्यशुक्रमौमा भवेयुस्तदा ब्रह्माख्यः (ब्रह्म) योगः । पुरात- नैर्वृद्धैर्मनीषिभिः इमे त्रयो योगाः प्रोक्ता इति । उक्तयोगत्रयस्य फलानि सरलार्थकानि चेति ॥ १६२-१६३ ॥ २२ जा० २३ ज०